मथिः 25
25
1या दश कन्याः प्रदीपान् गृह्लत्यो वरं साक्षात् कर्त्तुं बहिरिताः, ताभिस्तदा स्वर्गीयराज्यस्य सादृश्यं भविष्यति।
2तासां कन्यानां मध्ये पञ्च सुधियः पञ्च दुर्धिय आसन्।
3या दुर्धियस्ताः प्रदीपान् सङ्गे गृहीत्वा तैलं न जगृहुः,
4किन्तु सुधियः प्रदीपान् पात्रेण तैलञ्च जगृहुः।
5अनन्तरं वरे विलम्बिते ताः सर्व्वा निद्राविष्टा निद्रां जग्मुः।
6अनन्तरम् अर्द्धरात्रे पश्यत वर आगच्छति, तं साक्षात् कर्त्तुं बहिर्यातेति जनरवात्
7ताः सर्व्वाः कन्या उत्थाय प्रदीपान् आसादयितुं आरभन्त।
8ततो दुर्धियः सुधिय ऊचुः, किञ्चित् तैलं दत्त, प्रदीपा अस्माकं निर्व्वाणाः।
9किन्तु सुधियः प्रत्यवदन्, दत्ते युष्मानस्मांश्च प्रति तैलं न्यूनीभवेत्, तस्माद् विक्रेतृणां समीपं गत्वा स्वार्थं तैलं क्रीणीत।
10तदा तासु क्रेतुं गतासु वर आजगाम, ततो याः सज्जिता आसन्, तास्तेन साकं विवाहीयं वेश्म प्रविविशुः।
11अनन्तरं द्वारे रुद्धे अपराः कन्या आगत्य जगदुः, हे प्रभो, हे प्रभो, अस्मान् प्रति द्वारं मोचय।
12किन्तु स उक्तवान्, तथ्यं वदामि, युष्मानहं न वेद्मि।
13अतो जाग्रतः सन्तस्तिष्ठत, मनुजसुतः कस्मिन् दिने कस्मिन् दण्डे वागमिष्यति, तद् युष्माभि र्न ज्ञायते।
14अपरं स एतादृशः कस्यचित् पुंसस्तुल्यः, यो दूरदेशं प्रति यात्राकाले निजदासान् आहूय तेषां स्वस्वसामर्थ्यानुरूपम्
15एकस्मिन् मुद्राणां पञ्च पोटलिकाः अन्यस्मिंश्च द्वे पोटलिके अपरस्मिंश्च पोटलिकैकाम् इत्थं प्रतिजनं समर्प्य स्वयं प्रवासं गतवान्।
16अनन्तरं यो दासः पञ्च पोटलिकाः लब्धवान्, स गत्वा वाणिज्यं विधाय ता द्विगुणीचकार।
17यश्च दासो द्वे पोटलिके अलभत, सोपि ता मुद्रा द्विगुणीचकार।
18किन्तु यो दास एकां पोटलिकां लब्धवान्, स गत्वा भूमिं खनित्वा तन्मध्ये निजप्रभोस्ता मुद्रा गोपयाञ्चकार।
19तदनन्तरं बहुतिथे काले गते तेषां दासानां प्रभुरागत्य तैर्दासैः समं गणयाञ्चकार।
20तदानीं यः पञ्च पोटलिकाः प्राप्तवान् स ता द्विगुणीकृतमुद्रा आनीय जगाद; हे प्रभो, भवता मयि पञ्च पोटलिकाः समर्पिताः, पश्यतु, ता मया द्विगुणीकृताः।
21तदानीं तस्य प्रभुस्तमुवाच, हे उत्तम विश्वास्य दास, त्वं धन्योसि, स्तोकेन विश्वास्यो जातः, तस्मात् त्वां बहुवित्ताधिपं करोमि, त्वं स्वप्रभोः सुखस्य भागी भव।
22ततो येन द्वे पोटलिके लब्धे सोप्यागत्य जगाद, हे प्रभो, भवता मयि द्वे पोटलिके समर्पिते, पश्यतु ते मया द्विगुणीकृते।
23तेन तस्य प्रभुस्तमवोचत्, हे उत्तम विश्वास्य दास, त्वं धन्योसि, स्तोकेन विश्वास्यो जातः, तस्मात् त्वां बहुद्रविणाधिपं करोमि, त्वं निजप्रभोः सुखस्य भागी भव।
24अनन्तरं य एकां पोटलिकां लब्धवान्, स एत्य कथितवान्, हे प्रभो, त्वां कठिननरं ज्ञातवान्, त्वया यत्र नोप्तं, तत्रैव कृत्यते, यत्र च न कीर्णं, तत्रैव संगृह्यते।
25अतोहं सशङ्कः सन् गत्वा तव मुद्रा भूमध्ये संगोप्य स्थापितवान्, पश्य, तव यत् तदेव गृहाण।
26तदा तस्य प्रभुः प्रत्यवदत् रे दुष्टालस दास, यत्राहं न वपामि, तत्र छिनद्मि, यत्र च न किरामि, तत्रेव संगृह्लामीति चेदजानास्तर्हि
27वणिक्षु मम वित्तार्पणं तवोचितमासीत्, येनाहमागत्य वृद्व्या साकं मूलमुद्राः प्राप्स्यम्।
28अतोस्मात् तां पोटलिकाम् आदाय यस्य दश पोटलिकाः सन्ति तस्मिन्नर्पयत।
29येन वर्द्व्यते तस्मिन्नैवार्पिष्यते, तस्यैव च बाहुल्यं भविष्यति, किन्तु येन न वर्द्व्यते, तस्यान्तिके यत् किञ्चन तिष्ठति, तदपि पुनर्नेष्यते।
30अपरं यूयं तमकर्म्मण्यं दासं नीत्वा यत्र स्थाने क्रन्दनं दन्तघर्षणञ्च विद्येते, तस्मिन् बहिर्भूततमसि निक्षिपत।
31यदा मनुजसुतः पवित्रदूतान् सङ्गिनः कृत्वा निजप्रभावेनागत्य निजतेजोमये सिंहासने निवेक्ष्यति,
32तदा तत्सम्मुखे सर्व्वजातीया जना संमेलिष्यन्ति। ततो मेषपालको यथा छागेभ्योऽवीन् पृथक् करोति तथा सोप्येकस्मादन्यम् इत्थं तान् पृथक कृत्वावीन्
33दक्षिणे छागांश्च वामे स्थापयिष्यति।
34ततः परं राजा दक्षिणस्थितान् मानवान् वदिष्यति, आगच्छत मत्तातस्यानुग्रहभाजनानि, युष्मत्कृत आ जगदारम्भत् यद् राज्यम् आसादितं तदधिकुरुत।
35यतो बुभुक्षिताय मह्यं भोज्यम् अदत्त, पिपासिताय पेयमदत्त, विदेशिनं मां स्वस्थानमनयत,
36वस्त्रहीनं मां वसनं पर्य्यधापयत, पीडीतं मां द्रष्टुमागच्छत, कारास्थञ्च मां वीक्षितुम आगच्छत।
37तदा धार्म्मिकाः प्रतिवदिष्यन्ति, हे प्रभो, कदा त्वां क्षुधितं वीक्ष्य वयमभोजयाम? वा पिपासितं वीक्ष्य अपाययाम?
38कदा वा त्वां विदेशिनं विलोक्य स्वस्थानमनयाम? कदा वा त्वां नग्नं वीक्ष्य वसनं पर्य्यधापयाम?
39कदा वा त्वां पीडितं कारास्थञ्च वीक्ष्य त्वदन्तिकमगच्छाम?
40तदानीं राजा तान् प्रतिवदिष्यति, युष्मानहं सत्यं वदामि, ममैतेषां भ्रातृणां मध्ये कञ्चनैकं क्षुद्रतमं प्रति यद् अकुरुत, तन्मां प्रत्यकुरुत।
41पश्चात् स वामस्थितान् जनान् वदिष्यति, रे शापग्रस्ताः सर्व्वे, शैताने तस्य दूतेभ्यश्च योऽनन्तवह्निरासादित आस्ते, यूयं मदन्तिकात् तमग्निं गच्छत।
42यतो क्षुधिताय मह्यमाहारं नादत्त, पिपासिताय मह्यं पेयं नादत्त,
43विदेशिनं मां स्वस्थानं नानयत, वसनहीनं मां वसनं न पर्य्यधापयत, पीडितं कारास्थञ्च मां वीक्षितुं नागच्छत।
44तदा ते प्रतिवदिष्यन्ति, हे प्रभो, कदा त्वां क्षुधितं वा पिपासितं वा विदेशिनं वा नग्नं वा पीडितं वा कारास्थं वीक्ष्य त्वां नासेवामहि?
45तदा स तान् वदिष्यति, तथ्यमहं युष्मान् ब्रवीमि, युष्माभिरेषां कञ्चन क्षोदिष्ठं प्रति यन्नाकारि, तन्मां प्रत्येव नाकारि।
46पश्चादम्यनन्तशास्तिं किन्तु धार्म्मिका अनन्तायुषं भोक्तुं यास्यन्ति।
Aktuálne označené:
मथिः 25: SAN-DN
Zvýraznenie
Zdieľať
Porovnať
Kopírovať
Chceš mať svoje zvýraznenia uložené vo všetkých zariadeniach? Zaregistruj sa alebo sa prihlás
© SanskritBible.in । Licensed under Creative Commons Attribution-ShareAlike 4.0 International License.