मथिः 16
16
1तदानीं फिरूशिनः सिदूकिनश्चागत्य तं परीक्षितुं नभमीयं किञ्चन लक्ष्म दर्शयितुं तस्मै निवेदयामासुः।
2ततः स उक्तवान्, सन्ध्यायां नभसो रक्तत्वाद् यूयं वदथ, श्वो निर्म्मलं दिनं भविष्यति;
3प्रातःकाले च नभसो रक्तत्वात् मलिनत्वाञ्च वदथ, झञ्भ्शद्य भविष्यति। हे कपटिनो यदि यूयम् अन्तरीक्षस्य लक्ष्म बोद्धुं शक्नुथ, तर्हि कालस्यैतस्य लक्ष्म कथं बोद्धुं न शक्नुथ?
4एतत्कालस्य दुष्टो व्यभिचारी च वंशो लक्ष्म गवेषयति, किन्तु यूनसो भविष्यद्वादिनो लक्ष्म विनान्यत् किमपि लक्ष्म तान् न दर्शयिय्यते। तदानीं स तान् विहाय प्रतस्थे।
5अनन्तरमन्यपारगमनकाले तस्य शिष्याः पूपमानेतुं विस्मृतवन्तः।
6यीशुस्तानवादीत्, यूयं फिरूशिनां सिदूकिनाञ्च किण्वं प्रति सावधानाः सतर्काश्च भवत।
7तेन ते परस्परं विविच्य कथयितुमारेभिरे, वयं पूपानानेतुं विस्मृतवन्त एतत्कारणाद् इति कथयति।
8किन्तु यीशुस्तद्विज्ञाय तानवोचत्, हे स्तोकविश्वासिनो यूयं पूपानानयनमधि कुतः परस्परमेतद् विविंक्य?
9युष्माभिः किमद्यापि न ज्ञायते? पञ्चभिः पूपैः पञ्चसहस्रपुरुषेषु भोजितेषु भक्ष्योच्छिष्टपूर्णान् कति डलकान् समगृह्लीतं;
10तथा सप्तभिः पूपैश्चतुःसहस्रपुरुषेषु भेजितेषु कति डलकान् समगृह्लीत, तत् किं युष्माभिर्न स्मर्य्यते?
11तस्मात् फिरूशिनां सिदूकिनाञ्च किण्वं प्रति सावधानास्तिष्ठत, कथामिमाम् अहं पूपानधि नाकथयं, एतद् यूयं कुतो न बुध्यध्वे?
12तदानीं पूपकिण्वं प्रति सावधानास्तिष्ठतेति नोक्त्वा फिरूशिनां सिदूकिनाञ्च उपदेशं प्रति सावधानास्तिष्ठतेति कथितवान्, इति तैरबोधि।
13अपरञ्च यीशुः कैसरिया-फिलिपिप्रदेशमागत्य शिष्यान् अपृच्छत्, योऽहं मनुजसुतः सोऽहं कः? लोकैरहं किमुच्ये?
14तदानीं ते कथितवन्तः, केचिद् वदन्ति त्वं मज्जयिता योहन्, केचिद्वदन्ति, त्वम् एलियः, केचिच्च वदन्ति, त्वं यिरिमियो वा कश्चिद् भविष्यद्वादीति।
15पश्चात् स तान् पप्रच्छ, यूयं मां कं वदथ? ततः शिमोन् पितर उवाच,
16त्वममरेश्वरस्याभिषिक्तपुत्रः।
17ततो यीशुः कथितवान्, हे यूनसः पुत्र शिमोन् त्वं धन्यः; यतः कोपि अनुजस्त्वय्येतज्ज्ञानं नोदपादयत्, किन्तु मम स्वर्गस्यः पितोदपादयत्।
18अतोऽहं त्वां वदामि, त्वं पितरः (प्रस्तरः) अहञ्च तस्य प्रस्तरस्योपरि स्वमण्डलीं निर्म्मास्यामि, तेन निरयो बलात् तां पराजेतुं न शक्ष्यति।
19अहं तुभ्यं स्वर्गीयराज्यस्य कुञ्जिकां दास्यामि, तेन यत् किञ्चन त्वं पृथिव्यां भंत्स्यसि तत्स्वर्गे भंत्स्यते, यच्च किञ्चन मह्यां मोक्ष्यसि तत् स्वर्गे मोक्ष्यते।
20पश्चात् स शिष्यानादिशत्, अहमभिषिक्तो यीशुरिति कथां कस्मैचिदपि यूयं मा कथयत।
21अन्यञ्च यिरूशालम्नगरं गत्वा प्राचीनलोकेभ्यः प्रधानयाजकेभ्य उपाध्यायेभ्यश्च बहुदुःखभोगस्तै र्हतत्वं तृतीयदिने पुनरुत्थानञ्च ममावश्यकम् एताः कथा यीशुस्तत्कालमारभ्य शिष्यान् ज्ञापयितुम् आरब्धवान्।
22तदानीं पितरस्तस्य करं घृत्वा तर्जयित्वा कथयितुमारब्धवान्, हे प्रभो, तत् त्वत्तो दूरं यातु, त्वां प्रति कदापि न घटिष्यते।
23किन्तु स वदनं परावर्त्य पितरं जगाद, हे विघ्नकारिन्, मत्सम्मुखाद् दूरीभव, त्वं मां बाधसे, ईश्वरीयकार्य्यात् मानुषीयकार्य्यं तुभ्यं रोचते।
24अनन्तरं यीशुः स्वीयशिष्यान् उक्तवान् यः कश्चित् मम पश्चाद्गामी भवितुम् इच्छति, स स्वं दाम्यतु, तथा स्वक्रुशं गृह्लन् मत्पश्चादायातु।
25यतो यः प्राणान् रक्षितुमिच्छति, स तान् हारयिष्यति, किन्तु यो मदर्थं निजप्राणान् हारयति, स तान् प्राप्स्यति।
26मानुषो यदि सर्व्वं जगत् लभते निजप्रणान् हारयति, तर्हि तस्य को लाभः? मनुजो निजप्राणानां विनिमयेन वा किं दातुं शक्नोति?
27मनुजसुतः स्वदूतैः साकं पितुः प्रभावेणागमिष्यति; तदा प्रतिमनुजं स्वस्वकर्म्मानुसारात् फलं दास्यति।
28अहं युष्मान् तथ्यं वच्मि, सराज्यं मनुजसुतम् आगतं न पश्यन्तो मृत्युं न स्वादिष्यन्ति, एतादृशाः कतिपयजना अत्रापि दण्डायमानाः सन्ति।
Aktuálne označené:
मथिः 16: SAN-DN
Zvýraznenie
Zdieľať
Kopírovať
Chceš mať svoje zvýraznenia uložené vo všetkých zariadeniach? Zaregistruj sa alebo sa prihlás
© SanskritBible.in । Licensed under Creative Commons Attribution-ShareAlike 4.0 International License.