1
मथिः 7:7
सत्यवेदः। Sanskrit NT in Devanagari
SAN-DN
याचध्वं ततो युष्मभ्यं दायिष्यते; मृगयध्वं तत उद्देशं लप्स्यध्वे; द्वारम् आहत, ततो युष्मत्कृते मुक्तं भविष्यति।
Porovnať
Preskúmať मथिः 7:7
2
मथिः 7:8
यस्माद् येन याच्यते, तेन लभ्यते; येन मृग्यते तेनोद्देशः प्राप्यते; येन च द्वारम् आहन्यते, तत्कृते द्वारं मोच्यते।
Preskúmať मथिः 7:8
3
मथिः 7:24
यः कश्चित् ममैताः कथाः श्रुत्वा पालयति, स पाषाणोपरि गृहनिर्म्मात्रा ज्ञानिना सह मयोपमीयते।
Preskúmať मथिः 7:24
4
मथिः 7:12
यूष्मान् प्रतीतरेषां यादृशो व्यवहारो युष्माकं प्रियः, यूयं तान् प्रति तादृशानेव व्यवहारान् विधत्त; यस्माद् व्यवस्थाभविष्यद्वादिनां वचनानाम् इति सारम्।
Preskúmať मथिः 7:12
5
मथिः 7:14
अपरं स्वर्गगमनाय यद् द्वारं तत् कीदृक् संकीर्णं। यच्च वर्त्म तत् कीदृग् दुर्गमम्। तदुद्देष्टारः कियन्तोऽल्पाः।
Preskúmať मथिः 7:14
6
मथिः 7:13
सङ्कीर्णद्वारेण प्रविशत; यतो नरकगमनाय यद् द्वारं तद् विस्तीर्णं यच्च वर्त्म तद् बृहत् तेन बहवः प्रविशन्ति।
Preskúmať मथिः 7:13
7
मथिः 7:11
तस्माद् यूयम् अभद्राः सन्तोऽपि यदि निजबालकेभ्य उत्तमं द्रव्यं दातुं जानीथ, तर्हि युष्माकं स्वर्गस्थः पिता स्वीययाचकेभ्यः किमुत्तमानि वस्तूनि न दास्यति?
Preskúmať मथिः 7:11
8
मथिः 7:1-2
यथा यूयं दोषीकृता न भवथ, तत्कृतेऽन्यं दोषिणं मा कुरुत। यतो यादृशेन दोषेण यूयं परान् दोषिणः कुरुथ, तादृशेन दोषेण यूयमपि दोषीकृता भविष्यथ, अन्यञ्च येन परिमाणेन युष्माभिः परिमीयते, तेनैव परिमाणेन युष्मत्कृते परिमायिष्यते।
Preskúmať मथिः 7:1-2
9
मथिः 7:26
किन्तु यः कश्चित् ममैताः कथाः श्रुत्वा न पालयति स सैकते गेहनिर्म्मात्रा ऽज्ञानिना उपमीयते।
Preskúmať मथिः 7:26
10
मथिः 7:3-4
अपरञ्च निजनयने या नासा विद्यते, ताम् अनालोच्य तव सहजस्य लोचने यत् तृणम् आस्ते, तदेव कुतो वीक्षसे? तव निजलोचने नासायां विद्यमानायां, हे भ्रातः, तव नयनात् तृणं बहिष्यर्तुं अनुजानीहि, कथामेतां निजसहजाय कथं कथयितुं शक्नोषि?
Preskúmať मथिः 7:3-4
11
मथिः 7:15-16
अपरञ्च ये जना मेषवेशेन युष्माकं समीपम् आगच्छन्ति, किन्त्वन्तर्दुरन्ता वृका एतादृशेभ्यो भविष्यद्वादिभ्यः सावधाना भवत, यूयं फलेन तान् परिचेतुं शक्नुथ। मनुजाः किं कण्टकिनो वृक्षाद् द्राक्षाफलानि शृगालकोलितश्च उडुम्बरफलानि शातयन्ति?
Preskúmať मथिः 7:15-16
12
मथिः 7:17
तद्वद् उत्तम एव पादप उत्तमफलानि जनयति, अधमपादपएवाधमफलानि जनयति।
Preskúmať मथिः 7:17
13
मथिः 7:18
किन्तूत्तमपादपः कदाप्यधमफलानि जनयितुं न शक्नोति, तथाधमोपि पादप उत्तमफलानि जनयितुं न शक्नोति।
Preskúmať मथिः 7:18
14
मथिः 7:19
अपरं ये ये पादपा अधमफलानि जनयन्ति, ते कृत्ता वह्नौ क्षिप्यन्ते।
Preskúmať मथिः 7:19