Logo YouVersion
Ikona vyhledávání

मारकुस 16

16
मृतकोत्‍थानम्‌
(मत्ती 28:1-8; लूका 24:1-10; यूह 20:1-10)
1विश्रामदिवसानन्‍तरे मरियामगदलेना, याकूबस्‍य जननी मरिया, सलोमी च, एताः सुगन्‍धिवस्‍तूनि क्रीतवन्‍त्‍यः। ताः येशोः शरीरे विलेपनम्‌ कर्तुम्‌ ऐच्‍छन्‌। 2ताः सप्‍ताहस्‍य प्रथमे दिवसे प्रातरेव सूर्योदयात्‌ परं शवागारम्‌ उपागताः।
3ताः मिथः प्रोचुः, “कः अस्‍मत्‍कृते इमं प्रस्‍तरं शवागारमुखात्‌ दूरीकरिष्‍यति?” 4किन्‍तु स्‍विकां दृष्‍टिम्‌ ऊर्ध्‍वं कृत्‍वा ताः अपश्‍यन्‌, असौ महान्‌ प्रस्‍तरः द्वारात्‌ लोठितः अस्‍ति। 5ताः शवागारं प्रविश्‍य श्‍वेतकत्र्चुकम्‌ दधानं युवानं दक्षिणे भागे स्‍थितं कत्र्चिद्‌ विलोक्‍य च अभिभूताः बभूवुः। 6तेन ताः कथिताः - “मा बिभीत! यूयं नासरतनिवासिनं येशुं द्रष्‍टुम्‌ इच्‍छथ यः क्रूसम्‌ आरोपितः, साम्‍प्रतं पुनरुत्‍थितः - असौ अत्र न विद्‌यते। पश्‍यत इदं हि तत्‌ स्‍थलम्‌ यत्र ते येशुं शायितवन्‍तः। 7यूयं गत्‍वा तस्‍य शिष्‍यकान्‌, पतरसं कथयत यत्‌ येशुः भवतामग्रे गलीलप्रदेशं प्राप्‍स्‍यति। तत्रैव असौ भवद्‌भ्‍यः दर्शनं वितरिष्‍यति, यथा सः पूर्वमेव भवतः प्रोक्‍तवान्‌ आसीत्‌।” 8ताः विस्‍मिताः वेपमानाः शवागारात्‌ विनिर्गत्‍य पलायिताः। सर्वा भयाक्रान्‍ताः कमपि प्रोक्‍तुं नाशकन्‌।
शुभसमाचारस्‍य एकः प्राचीनः उपसंहारः
मरियामगदेलिन्‍यै दर्शनम्‌
(मत्ती 28:9-10; लूका 24:10-11; यूह 20:11-18)
9येशुः सप्‍ताहस्‍य प्रथमदिवसे प्रातरेव पुनरुत्‍थितवान्‌। सः सर्वप्रथमं मरियामगदेलिन्‍यै, यस्‍याः शरीरात्‌ सप्‍तभूतान्‌ अपसारयत्‌, दर्शनं ददौ। 10सा च गत्‍वा शोके निमग्‍नान्‌ विलपन्‍तान्‌ अनुयायिनः इमं सुसमाचारम्‌ आश्रवयत्‌। 11किन्‍तु यदा ते अशृण्‍वन्‌ “यत्‌ येशुः जीवितः वर्तते, सा येशुम्‌ अपश्‍यत्‌”, तस्‍याः अस्‍मिन्‌ वचने विश्‍वासं न अकुर्वन्‌।
शिष्‍याभ्‍यां दर्शनम्‌
(लूका 24:13-35)
12ततः येशुः वेशान्‍तरे तयोः द्वयोः शिष्‍ययोः दर्शने समुपस्‍थितः, यौ पदव्रजेन ग्रामं गच्‍छन्‍त्‍योः आस्‍ताम्‌। 13ते प्रत्‍यागत्‍य अन्‍यशिष्‍येभ्‍यः इमं सुसमाचारम्‌ अश्रावयताम्‌। परन्‍तु शिष्‍याः तयोः वचने विश्‍वासं न कृतवन्‍तः।
शिष्‍याणाम्‌ प्रेषणम्‌
(मत्ती 28:18-20; लूका 24:36-39; यूह 20:19-23)
14ततः येशुः एकादशसु भोजनम्‌ प्रकुर्वाणेषु दर्शने समुपस्‍थितः। सः तेषाम्‌ अविश्‍वासस्‍य, हठधर्मिणश्‍च अनिन्‍दयत्‌, यतः ते तेषु विश्‍वासं न अकुर्वन्‌, ये येशुं पुनजीर्वितम्‌ अपश्‍यन्‌। 15येशुः शिष्‍यान्‌ अवदत्‌ - “यूयं संसारस्‍य प्रतिकोणे गत्‍वा अखिलां सृष्‍टिं शुभसमाचारं श्रावयत। 16यः विश्‍वासं कृत्‍वा जलसंस्‍कारं ग्रहीष्‍यति, तस्‍मै मुक्‍तिः लप्‍स्‍यते। यः न विश्‍वस्‍यति, सः दोषार्हः भविष्‍यति। 17ये विश्‍वासं करिष्‍यन्‍ति ते विश्‍वासिनः अनेकान्‌ चमत्‍कारान्‌ दर्शयिष्‍यन्‍ति, मम नामतः भूतान्‌ निःसारयिष्‍यन्‍ति, नवां भाषां भाषिष्‍यन्‍ते, 18भुजड्‌.गान्‌ हस्‍ताभ्‍यां ग्रहीष्‍यन्‍ति, विषं पीतं चापि तेभ्‍यः हानिः न भविष्‍यति। ते रुजाक्रान्‍तान्‌ मानवान्‌ स्‍वहस्‍तेन संस्‍पृश्‍य निरामयान्‌ करिष्‍यन्‍ति।”
स्‍वर्गारोहणम्‌
(लूका 24:50-53)
19प्रभुयेशुः स्‍वशिष्‍यैः संलापनात्‌ परम्‌ स्‍वर्गम्‌ आरोहितः भूत्‍वा परमेश्‍वरस्‍य दक्षिणे विराजमानः अभवत्‌।
20शिष्‍याः सर्वत्र गत्‍वा शुभसमाचारस्‍य प्रचारम्‌ अकुर्वन्‌। प्रभुः तेषां साहाय्‍यम्‌ अकरोत्‌, चमत्‍कारैः तेषां शिक्षां प्रमाणितवान्‌।
एकः अन्‍यः प्राचीनः उपसंहारः
(9स्‍त्रियः पतरसस्‍य तथा तस्‍य अन्‍यशिष्‍याणाम्‌ समीपे आगच्‍छन्‌, यानि वचनानि ताभ्‍यः कथितानि, तेषां संक्षिप्‍तं विवरणं तेभ्‍यः ददिरे। 10अस्‍य पश्‍चात्‌ स्‍वयं येशुः शाश्‍वतस्‍य उद्‌धारस्‍य पवित्रम्‌ अमरञश्‍च शुभसन्‍देशं स्‍वशिष्‍यैः पूर्वात्‌ पश्‍चिमं यावत्‌ प्रेषितवान्‌।)

Zvýraznění

Sdílet

Kopírovat

None

Chceš mít své zvýrazněné verše uložené na všech zařízeních? Zaregistruj se nebo se přihlas

Videa pro मारकुस 16