मथिः 28
28
1ततः परं विश्रामवारस्य शेषे सप्ताहप्रथमदिनस्य प्रभोते जाते मग्दलीनी मरियम् अन्यमरियम् च श्मशानं द्रष्टुमागता।
2तदा महान् भूकम्पोऽभवत्; परमेश्वरीयदूतः स्वर्गादवरुह्य श्मशानद्वारात् पाषाणमपसार्य्य तदुपर्य्युपविवेश।
3तद्वदनं विद्युद्वत् तेजोमयं वसनं हिमशुभ्रञ्च।
4तदानीं रक्षिणस्तद्भयात् कम्पिता मृतवद् बभूवः।
5स दूतो योषितो जगाद, यूयं मा भैष्ट, क्रुशहतयीशुं मृगयध्वे तदहं वेद्मि।
6सोऽत्र नास्ति, यथावदत् तथोत्थितवान्; एतत् प्रभोः शयनस्थानं पश्यत।
7तूर्णं गत्वा तच्छिष्यान् इति वदत, स श्मशानाद् उदतिष्ठत्, युष्माकमग्रे गालीलं यास्यति यूयं तत्र तं वीक्षिष्यध्वे, पश्यताहं वार्त्तामिमां युष्मानवादिषं।
8ततस्ता भयात् महानन्दाञ्च श्मशानात् तूर्णं बहिर्भूय तच्छिष्यान् वार्त्तां वक्तुं धावितवत्यः। किन्तु शिष्यान् वार्त्तां वक्तुं यान्ति, तदा यीशु र्दर्शनं दत्त्वा ता जगाद,
9युष्माकं कल्याणं भूयात्, ततस्ता आगत्य तत्पादयोः पतित्वा प्रणेमुः।
10यीशुस्ता अवादीत्, मा बिभीत, यूयं गत्वा मम भ्रातृन् गालीलं यातुं वदत, तत्र ते मां द्रक्ष्यन्ति।
11स्त्रियो गच्छन्ति, तदा रक्षिणां केचित् पुरं गत्वा यद्यद् घटितं तत्सर्व्वं प्रधानयाजकान् ज्ञापितवन्तः।
12ते प्राचीनैः समं संसदं कृत्वा मन्त्रयन्तो बहुमुद्राः सेनाभ्यो दत्त्वावदन्,
13अस्मासु निद्रितेषु तच्छिष्या यामिन्यामागत्य तं हृत्वानयन्, इति यूयं प्रचारयत।
14यद्येतदधिपतेः श्रोत्रगोचरीभवेत्, तर्हि तं बोधयित्वा युष्मानविष्यामः।
15ततस्ते मुद्रा गृहीत्वा शिक्षानुरूपं कर्म्म चक्रुः, यिहूदीयानां मध्ये तस्याद्यापि किंवदन्ती विद्यते।
16एकादश शिष्या यीशुनिरूपितागालीलस्याद्रिं गत्वा
17तत्र तं संवीक्ष्य प्रणेमुः, किन्तु केचित् सन्दिग्धवन्तः।
18यीशुस्तेषां समीपमागत्य व्याहृतवान्, स्वर्गमेदिन्योः सर्व्वाधिपतित्वभारो मय्यर्पित आस्ते।
19अतो यूयं प्रयाय सर्व्वदेशीयान् शिष्यान् कृत्वा पितुः पुत्रस्य पवित्रस्यात्मनश्च नाम्ना तानवगाहयत; अहं युष्मान् यद्यदादिशं तदपि पालयितुं तानुपादिशत।
20पश्यत, जगदन्तं यावत् सदाहं युष्माभिः साकं तिष्ठामि। इति।
S'ha seleccionat:
मथिः 28: SAN-DN
Subratllat
Comparteix
Compara
Copia
Vols que els teus subratllats es desin a tots els teus dispositius? Registra't o inicia sessió
© SanskritBible.in । Licensed under Creative Commons Attribution-ShareAlike 4.0 International License.