मार्कः 16
16
1अथ विश्रामवारे गते मग्दलीनी मरियम् याकूबमाता मरियम् शालोमी चेमास्तं मर्द्दयितुं सुगन्धिद्रव्याणि क्रीत्वा
2सप्ताहप्रथमदिनेऽतिप्रत्यूषे सूर्य्योदयकाले श्मशानमुपगताः।
3किन्तु श्मशानद्वारपाषाणोऽतिबृहन् तं कोऽपसारयिष्यतीति ताः परस्परं गदन्ति!
4एतर्हि निरीक्ष्य पाषाणो द्वारो ऽपसारित इति ददृशुः।
5पश्चात्ताः श्मशानं प्रविश्य शुक्लवर्णदीर्घपरिच्छदावृतमेकं युवानं श्मशानदक्षिणपार्श्व उपविष्टं दृष्ट्वा चमच्चक्रुः।
6सोऽवदत्, माभैष्ट यूयं क्रुशे हतं नासरतीययीशुं गवेषयथ सोत्र नास्ति श्मशानादुदस्थात्; तै र्यत्र स स्थापितः स्थानं तदिदं पश्यत।
7किन्तु तेन यथोक्तं तथा युष्माकमग्रे गालीलं यास्यते तत्र स युष्मान् साक्षात् करिष्यते यूयं गत्वा तस्य शिष्येभ्यः पितराय च वार्त्तामिमां कथयत।
8ताः कम्पिता विस्तिताश्च तूर्णं श्मशानाद् बहिर्गत्वा पलायन्त भयात् कमपि किमपि नावदंश्च।
9अपरं यीशुः सप्ताहप्रथमदिने प्रत्यूषे श्मशानादुत्थाय यस्याः सप्तभूतास्त्याजितास्तस्यै मग्दलीनीमरियमे प्रथमं दर्शनं ददौ।
10ततः सा गत्वा शोकरोदनकृद्भ्योऽनुगतलोकेभ्यस्तां वार्त्तां कथयामास।
11किन्तु यीशुः पुनर्जीवन् तस्यै दर्शनं दत्तवानिति श्रुत्वा ते न प्रत्ययन्।
12पश्चात् तेषां द्वायो र्ग्रामयानकाले यीशुरन्यवेशं धृत्वा ताभ्यां दर्शन ददौ!
13तावपि गत्वान्यशिष्येभ्यस्तां कथां कथयाञ्चक्रतुः किन्तु तयोः कथामपि ते न प्रत्ययन्।
14शेषत एकादशशिष्येषु भोजनोपविष्टेषु यीशुस्तेभ्यो दर्शनं ददौ तथोत्थानात् परं तद्दर्शनप्राप्तलोकानां कथायामविश्वासकरणात् तेषामविश्वासमनःकाठिन्याभ्यां हेतुभ्यां स तांस्तर्जितवान्।
15अथ तानाचख्यौ यूयं सर्व्वजगद् गत्वा सर्व्वजनान् प्रति सुसंवादं प्रचारयत।
16तत्र यः कश्चिद् विश्वस्य मज्जितो भवेत् स परित्रास्यते किन्तु यो न विश्वसिष्यति स दण्डयिष्यते।
17किञ्च ये प्रत्येष्यन्ति तैरीदृग् आश्चर्य्यं कर्म्म प्रकाशयिष्यते ते मन्नाम्ना भूतान् त्याजयिष्यन्ति भाषा अन्याश्च वदिष्यन्ति।
18अपरं तैः सर्पेषु धृतेषु प्राणनाशकवस्तुनि पीते च तेषां कापि क्षति र्न भविष्यति; रोगिणां गात्रेषु करार्पिते तेऽरोगा भविष्यन्ति च।
19अथ प्रभुस्तानित्यादिश्य स्वर्गं नीतः सन् परमेश्वरस्य दक्षिण उपविवेश।
20ततस्ते प्रस्थाय सर्व्वत्र सुसंवादीयकथां प्रचारयितुमारेभिरे प्रभुस्तु तेषां सहायः सन् प्रकाशिताश्चर्य्यक्रियाभिस्तां कथां प्रमाणवतीं चकार। इति।
Obecnie wybrane:
मार्कः 16: SAN-DN
Podkreślenie
Kopiuj
Porównaj
Udostępnij
Chcesz, aby twoje zakreślenia były zapisywane na wszystkich twoich urządzeniach? Zarejestruj się lub zaloguj
© SanskritBible.in । Licensed under Creative Commons Attribution-ShareAlike 4.0 International License.