लूकः 3
3
1अनन्तरं तिबिरियकैसरस्य राजत्वस्य पञ्चदशे वत्सरे सति यदा पन्तीयपीलातो यिहूदादेशाधिपति र्हेरोद् तु गालील्प्रदेशस्य राजा फिलिपनामा तस्य भ्राता तु यितूरियायास्त्राखोनीतियाप्रदेशस्य च राजासीत् लुषानीयनामा अविलीनीदेशस्य राजासीत्
2हानन् कियफाश्चेमौ प्रधानयाजाकावास्तां तदानीं सिखरियस्य पुत्राय योहने मध्येप्रान्तरम् ईश्वरस्य वाक्ये प्रकाशिते सति
3स यर्द्दन उभयतटप्रदेशान् समेत्य पापमोचनार्थं मनःपरावर्त्तनस्य चिह्नरूपं यन्मज्जनं तदीयाः कथाः सर्व्वत्र प्रचारयितुमारेभे।
4यिशयियभविष्यद्वक्तृग्रन्थे यादृशी लिपिरास्ते यथा, परमेशस्य पन्थानं परिष्कुरुत सर्व्वतः। तस्य राजपथञ्चैव समानं कुरुताधुना।
5कारिष्यन्ते समुच्छ्रायाः सकला निम्नभूमयः। कारिष्यन्ते नताः सर्व्वे पर्व्वताश्चोपपर्व्वताः। कारिष्यन्ते च या वक्रास्ताः सर्व्वाः सरला भुवः। कारिष्यन्ते समानास्ता या उच्चनीचभूमयः।
6ईश्वरेण कृतं त्राणं द्रक्ष्यन्ति सर्व्वमानवाः। इत्येतत् प्रान्तरे वाक्यं वदतः कस्यचिद् रवः॥
7ये ये लोका मज्जनार्थं बहिराययुस्तान् सोवदत् रे रे सर्पवंशा आगामिनः कोपात् पलायितुं युष्मान् कश्चेतयामास?
8तस्माद् इब्राहीम् अस्माकं पिता कथामीदृशीं मनोभि र्न कथयित्वा यूयं मनःपरिवर्त्तनयोग्यं फलं फलत; युष्मानहं यथार्थं वदामि पाषाणेभ्य एतेभ्य ईश्वर इब्राहीमः सन्तानोत्पादने समर्थः।
9अपरञ्च तरुमूलेऽधुनापि परशुः संलग्नोस्ति यस्तरुरुत्तमं फलं न फलति स छिद्यतेऽग्नौ निक्षिप्यते च।
10तदानीं लोकास्तं पप्रच्छुस्तर्हि किं कर्त्तव्यमस्माभिः?
11ततः सोवादीत् यस्य द्वे वसने विद्येते स वस्त्रहीनायैकं वितरतु किंञ्च यस्य खाद्यद्रव्यं विद्यते सोपि तथैव करोतु।
12ततः परं करसञ्चायिनो मज्जनार्थम् आगत्य पप्रच्छुः हे गुरो किं कर्त्तव्यमस्माभिः?
13ततः सोकथयत् निरूपितादधिकं न गृह्लित।
14अनन्तरं सेनागण एत्य पप्रच्छ किमस्माभि र्वा कर्त्तव्यम्? ततः सोभिदधे कस्य कामपि हानिं मा कार्ष्ट तथा मृषापवादं मा कुरुत निजवेतनेन च सन्तुष्य तिष्ठत।
15अपरञ्च लोका अपेक्षया स्थित्वा सर्व्वेपीति मनोभि र्वितर्कयाञ्चक्रुः, योहनयम् अभिषिक्तस्त्राता न वेति?
16तदा योहन् सर्व्वान् व्याजहार, जलेऽहं युष्मान् मज्जयामि सत्यं किन्तु यस्य पादुकाबन्धनं मोचयितुमपि न योग्योस्मि तादृश एको मत्तो गुरुतरः पुमान् एति, स युष्मान् वह्निरूपे पवित्र आत्मनि मज्जयिष्यति।
17अपरञ्च तस्य हस्ते शूर्प आस्ते स स्वशस्यानि शुद्धरूपं प्रस्फोट्य गोधूमान् सर्व्वान् भाण्डागारे संग्रहीष्यति किन्तु बूषाणि सर्व्वाण्यनिर्व्वाणवह्निना दाहयिष्यति।
18योहन् उपदेशेनेत्थं नानाकथा लोकानां समक्षं प्रचारयामास।
19अपरञ्च हेरोद् राजा फिलिप्नाम्नः सहोदरस्य भार्य्यां हेरोदियामधि तथान्यानि यानि यानि कुकर्म्माणि कृतवान् तदधि च
20योहना तिरस्कृतो भूत्वा कारागारे तस्य बन्धनाद् अपरमपि कुकर्म्म चकार।
21इतः पूर्व्वं यस्मिन् समये सर्व्वे योहना मज्जितास्तदानीं यीशुरप्यागत्य मज्जितः।
22तदनन्तरं तेन प्रार्थिते मेघद्वारं मुक्तं तस्माच्च पवित्र आत्मा मूर्त्तिमान् भूत्वा कपोतवत् तदुपर्य्यवरुरोह; तदा त्वं मम प्रियः पुत्रस्त्वयि मम परमः सन्तोष इत्याकाशवाणी बभूव।
23तदानीं यीशुः प्रायेण त्रिंशद्वर्षवयस्क आसीत्। लौकिकज्ञाने तु स यूषफः पुत्रः,
24यूषफ् एलेः पुत्रः, एलिर्मत्ततः पुत्रः, मत्तत् लेवेः पुत्रः, लेवि र्मल्केः पुत्रः, मल्किर्यान्नस्य पुत्रः; यान्नो यूषफः पुत्रः।
25यूषफ् मत्तथियस्य पुत्रः, मत्तथिय आमोसः पुत्रः, आमोस् नहूमः पुत्रः, नहूम् इष्लेः पुत्रः इष्लिर्नगेः पुत्रः।
26नगिर्माटः पुत्रः, माट् मत्तथियस्य पुत्रः, मत्तथियः शिमियेः पुत्रः, शिमियिर्यूषफः पुत्रः, यूषफ् यिहूदाः पुत्रः।
27यिहूदा योहानाः पुत्रः, योहाना रीषाः पुत्रः, रीषाः सिरुब्बाबिलः पुत्रः, सिरुब्बाबिल् शल्तीयेलः पुत्रः, शल्तीयेल् नेरेः पुत्रः।
28नेरिर्मल्केः पुत्रः, मल्किः अद्यः पुत्रः, अद्दी कोषमः पुत्रः, कोषम् इल्मोददः पुत्रः, इल्मोदद् एरः पुत्रः।
29एर् योशेः पुत्रः, योशिः इलीयेषरः पुत्रः, इलीयेषर् योरीमः पुत्रः, योरीम् मत्ततः पुत्रः, मत्तत लेवेः पुत्रः।
30लेविः शिमियोनः पुत्रः, शिमियोन् यिहूदाः पुत्रः, यिहूदा यूषुफः पुत्रः, यूषुफ् योननः पुत्रः, यानन् इलीयाकीमः पुत्रः।
31इलियाकीम्ः मिलेयाः पुत्रः, मिलेया मैननः पुत्रः, मैनन् मत्तत्तस्य पुत्रः, मत्तत्तो नाथनः पुत्रः, नाथन् दायूदः पुत्रः।
32दायूद् यिशयः पुत्रः, यिशय ओबेदः पुत्र, ओबेद् बोयसः पुत्रः, बोयस् सल्मोनः पुत्रः, सल्मोन् नहशोनः पुत्रः।
33नहशोन् अम्मीनादबः पुत्रः, अम्मीनादब् अरामः पुत्रः, अराम् हिष्रोणः पुत्रः, हिष्रोण् पेरसः पुत्रः, पेरस् यिहूदाः पुत्रः।
34यिहूदा याकूबः पुत्रः, याकूब् इस्हाकः पुत्रः, इस्हाक् इब्राहीमः पुत्रः, इब्राहीम् तेरहः पुत्रः, तेरह् नाहोरः पुत्रः।
35नाहोर् सिरुगः पुत्रः, सिरुग् रिय्वः पुत्रः, रियूः पेलगः पुत्रः, पेलग् एवरः पुत्रः, एवर् शेलहः पुत्रः।
36शेलह् कैननः पुत्रः, कैनन् अर्फक्षदः पुत्रः, अर्फक्षद् शामः पुत्रः, शाम् नोहः पुत्रः, नोहो लेमकः पुत्रः।
37लेमक् मिथूशेलहः पुत्रः, मिथूशेलह् हनोकः पुत्रः, हनोक् येरदः पुत्रः, येरद् महललेलः पुत्रः, महललेल् कैननः पुत्रः।
38कैनन् इनोशः पुत्रः, इनोश् शेतः पुत्रः, शेत् आदमः पुत्र, आदम् ईश्वरस्य पुत्रः।
Obecnie wybrane:
लूकः 3: SAN-DN
Podkreślenie
Kopiuj
Porównaj
Udostępnij
Chcesz, aby twoje zakreślenia były zapisywane na wszystkich twoich urządzeniach? Zarejestruj się lub zaloguj
© SanskritBible.in । Licensed under Creative Commons Attribution-ShareAlike 4.0 International License.