योहनः 5
5
1ततः परं यिहूदीयानाम् उत्सव उपस्थिते यीशु र्यिरूशालमं गतवान्।
2तस्मिन्नगरे मेषनाम्नो द्वारस्य समीपे इब्रीयभाषया बैथेस्दा नाम्ना पिष्करिणी पञ्चघट्टयुक्तासीत्।
3तस्यास्तेषु घट्टेषु किलालकम्पनम् अपेक्ष्य अन्धखञ्चशुष्काङ्गादयो बहवो रोगिणः पतन्तस्तिष्ठन्ति स्म।
4यतो विशेषकाले तस्य सरसो वारि स्वर्गीयदूत एत्याकम्पयत् तत्कीलालकम्पनात् परं यः कश्चिद् रोगी प्रथमं पानीयमवारोहत् स एव तत्क्षणाद् रोगमुक्तोऽभवत्।
5तदाष्टात्रिंशद्वर्षाणि यावद् रोगग्रस्त एकजनस्तस्मिन् स्थाने स्थितवान्।
6यीशुस्तं शयितं दृष्ट्वा बहुकालिकरोगीति ज्ञात्वा व्याहृतवान् त्वं किं स्वस्थो बुभूषसि?
7ततो रोगी कथितवान् हे महेच्छ यदा कीलालं कम्पते तदा मां पुष्करिणीम् अवरोहयितुं मम कोपि नास्ति, तस्मान् मम गमनकाले कश्चिदन्योऽग्रो गत्वा अवरोहति।
8तदा यीशुरकथयद् उत्तिष्ठ, तव शय्यामुत्तोल्य गृहीत्वा याहि।
9स तत्क्षणात् स्वस्थो भूत्वा शय्यामुत्तोल्यादाय गतवान् किन्तु तद्दिनं विश्रामवारः।
10तस्माद् यिहूदीयाः स्वस्थं नरं व्याहरन् अद्य विश्रामवारे शयनीयमादाय न यातव्यम्।
11ततः स प्रत्यवोचद् यो मां स्वस्थम् अकार्षीत् शयनीयम् उत्तोल्यादाय यातुं मां स एवादिशत्।
12तदा तेऽपृच्छन् शयनीयम् उत्तोल्यादाय यातुं य आज्ञापयत् स कः?
13किन्तु स क इति स्वस्थीभूतो नाजानाद् यतस्तस्मिन् स्थाने जनतासत्त्वाद् यीशुः स्थानान्तरम् आगमत्।
14ततः परं येशु र्मन्दिरे तं नरं साक्षात्प्राप्याकथयत् पश्येदानीम् अनामयो जातोसि यथाधिका दुर्दशा न घटते तद्धेतोः पापं कर्म्म पुनर्माकार्षीः।
15ततः स गत्वा यिहूदीयान् अवदद् यीशु र्माम् अरोगिणम् अकार्षीत्।
16ततो यीशु र्विश्रामवारे कर्म्मेदृशं कृतवान् इति हेतो र्यिहूदीयास्तं ताडयित्वा हन्तुम् अचेष्टन्त।
17यीशुस्तानाख्यत् मम पिता यत् कार्य्यं करोति तदनुरूपम् अहमपि करोति।
18ततो यिहूदीयास्तं हन्तुं पुनरयतन्त यतो विश्रामवारं नामन्यत तदेव केवलं न अधिकन्तु ईश्वरं स्वपितरं प्रोच्य स्वमपीश्वरतुल्यं कृतवान्।
19पश्चाद् यीशुरवदद् युष्मानहं यथार्थतरं वदामि पुत्रः पितरं यद्यत् कर्म्म कुर्व्वन्तं पश्यति तदतिरिक्तं स्वेच्छातः किमपि कर्म्म कर्त्तुं न शक्नोति। पिता यत् करोति पुत्रोपि तदेव करोति।
20पिता पुत्रे स्नेहं करोति तस्मात् स्वयं यद्यत् कर्म्म करोति तत्सर्व्वं पुत्रं दर्शयति ; यथा च युष्माकं आश्चर्य्यज्ञानं जनिष्यते तदर्थम् इतोपि महाकर्म्म तं दर्शयिष्यति।
21वस्तुतस्तु पिता यथा प्रमितान् उत्थाप्य सजिवान् करोति तद्वत् पुत्रोपि यं यं इच्छति तं तं सजीवं करोति।
22सर्व्वे पितरं यथा सत्कुर्व्वन्ति तथा पुत्रमपि सत्कारयितुं पिता स्वयं कस्यापि विचारमकृत्वा सर्व्वविचाराणां भारं पुत्रे समर्पितवान्।
23यः पुत्रं सत् करोति स तस्य प्रेरकमपि सत् करोति।
24युष्मानाहं यथार्थतरं वदामि यो जनो मम वाक्यं श्रुत्वा मत्प्रेरके विश्वसिति सोनन्तायुः प्राप्नोति कदापि दण्डबाजनं न भवति निधनादुत्थाय परमायुः प्राप्नोति।
25अहं युष्मानतियथार्थं वदामि यदा मृता ईश्वरपुत्रस्य निनादं श्रोष्यन्ति ये च श्रोष्यन्ति ते सजीवा भविष्यन्ति समय एतादृश आयाति वरम् इदानीमप्युपतिष्ठति।
26पिता यथा स्वयञ्जीवी तथा पुत्राय स्वयञ्जीवित्वाधिकारं दत्तवान्।
27स मनुष्यपुत्रः एतस्मात् कारणात् पिता दण्डकरणाधिकारमपि तस्मिन् समर्पितवान्।
28एतदर्थे यूयम् आश्चर्य्यं न मन्यध्वं यतो यस्मिन् समये तस्य निनादं श्रुत्वा श्मशानस्थाः सर्व्वे बहिरागमिष्यन्ति समय एतादृश उपस्थास्यति।
29तस्माद् ये सत्कर्म्माणि कृतवन्तस्त उत्थाय आयुः प्राप्स्यन्ति ये च कुकर्माणि कृतवन्तस्त उत्थाय दण्डं प्राप्स्यन्ति।
30अहं स्वयं किमपि कर्त्तुं न शक्नोमि यथा शुणोमि तथा विचारयामि मम विचारञ्च न्याय्यः यतोहं स्वीयाभीष्टं नेहित्वा मत्प्रेरयितुः पितुरिष्टम् ईहे।
31यदि स्वस्मिन् स्वयं साक्ष्यं ददामि तर्हि तत्साक्ष्यम् आग्राह्यं भवति ;
32किन्तु मदर्थेऽपरो जनः साक्ष्यं ददाति मदर्थे तस्य यत् साक्ष्यं तत् सत्यम् एतदप्यहं जानामि।
33युष्माभि र्योहनं प्रति लोकेषु प्रेरितेषु स सत्यकथायां साक्ष्यमददात्।
34मानुषादहं साक्ष्यं नोपेक्षे तथापि यूयं यथा परित्रयध्वे तदर्थम् इदं वाक्यं वदामि।
35योहन् देदीप्यमानो दीप इव तेजस्वी स्थितवान् यूयम् अल्पकालं तस्य दीप्त्यानन्दितुं सममन्यध्वं।
36किन्तु तत्प्रमाणादपि मम गुरुतरं प्रमाणं विद्यते पिता मां प्रेष्य यद्यत् कर्म्म समापयितुं शक्त्तिमददात् मया कृतं तत्तत् कर्म्म मदर्थे प्रमाणं ददाति।
37यः पिता मां प्रेरितवान् मोपि मदर्थे प्रमाणं ददाति। तस्य वाक्यं युष्माभिः कदापि न श्रुतं तस्य रूपञ्च न दृष्टं
38तस्य वाक्यञ्च युष्माकम् अन्तः कदापि स्थानं नाप्नोति यतः स यं प्रेषितवान् यूयं तस्मिन् न विश्वसिथ।
39धर्म्मपुस्तकानि यूयम् आलोचयध्वं तै र्वाक्यैरनन्तायुः प्राप्स्याम इति यूयं बुध्यध्वे तद्धर्म्मपुस्तकानि मदर्थे प्रमाणं ददति।
40तथापि यूयं परमायुःप्राप्तये मम संनिधिम् न जिगमिषथ।
41अहं मानुषेभ्यः सत्कारं न गृह्लामि।
42अहं युष्मान् जानामि; युष्माकमन्तर ईश्वरप्रेम नास्ति।
43अहं निजपितु र्नाम्नागतोस्मि तथापि मां न गृह्लीथ किन्तु कश्चिद् यदि स्वनाम्ना समागमिष्यति तर्हि तं ग्रहीष्यथ।
44यूयम् ईश्वरात् सत्कारं न चिष्टत्वा केवलं परस्परं सत्कारम् चेद् आदध्व्वे तर्हि कथं विश्वसितुं शक्नुथ?
45पुतुः समीपेऽहं युष्मान् अपवदिष्यामीति मा चिन्तयत यस्मिन् , यस्मिन् युष्माकं विश्वसः सएव मूसा युष्मान् अपवदति।
46यदि यूयं तस्मिन् व्यश्वसिष्यत तर्हि मय्यपि व्यश्वसिष्यत, यत् स मयि लिखितवान्।
47ततो यदि तेन लिखितवानि न प्रतिथ तर्हि मम वाक्यानि कथं प्रत्येष्यथ?
Markert nå:
योहनः 5: SAN-DN
Marker
Kopier
Sammenlign
Del
Vil du ha høydepunktene lagret på alle enhetene dine? Registrer deg eller logg på
© SanskritBible.in । Licensed under Creative Commons Attribution-ShareAlike 4.0 International License.