मत्ति 8
8
कुष्ठिनः स्वास्थ्यलाभः
(मर 1:40-45; लूका 5:12-14)
1ततः येशुः गिरेः अवतरत्। एकः विशालजनसमूहः तेन सार्द्धम् प्रतस्थिरे। 2तस्मिन् एव समये एकः कुष्ठी तस्य समीपे आगच्छत्, दण्डवत् प्रणम्य इत्थम् अवदत्, “प्रभो ! यदि त्वं वात्र्छसि, तर्हि मां त्वं शुचीकर्तुम् शक्नोषि।” 3ततः येशुः स्वहस्तेन तं स्पृशन् इदम् अब्रवीत्, “मम इयम् अभिलाषा अस्ति त्वं सर्वथा शुचिः भवेः।” 4तत्क्षणमेव असौ कुष्ठी कुष्ठरोगतः मुक्तः अभवत्। येशुः तं जनम् अवदत् “सावधानेन भूयताम्, तथा एतद्विषयकं कोऽपि किंचित् न प्रोच्यताम्। गत्वा याजकम् आत्मनं दर्शय, मूसा आदिष्टेन उपहारम् अर्पय, येन तव स्वास्थ्यलाभः तेभ्यः प्रमाणिकः भवेत्।”
शतपतेः सेवकस्य स्वास्थ्यलाभः
(लूका 7:1-10; 13:28-29)
5ततः येशौ कफ़रनहूमं प्रविष्टे च कश्चन शतपतिः उपेत्य तं प्रणिपत्य इदम् अब्रवीत्, 6“प्रभो! मम सेवकः गेहे पक्षाघातप्रपीडितः शय्यायां पतितः वर्तते, महती व्यथां सहते।” 7-8येशुः तम् अवदत्, “एत्य अहं तं निरामयम् करिष्ये।” ततो शतपतिः येशुं सादरं प्रत्यभाषत, “प्रभो! अहं न इदृशः योग्यः यद् भवान् मद्गृहं विशेत्, केवलं भवता एक एवहि शब्दः प्रोच्यताम्, येन असौ मम सेवकः नीरोगः अवश्यमेव भविष्यति। 9अहम् एकः अति लघु अधिकारी अस्मि। मम अधीने बहवः सैनिकाः सन्ति। तेषु एकः मया प्रोक्तः - गच्छ इति, असौ प्रचलति, अन्यः च उक्तः - आगच्छ, तदा सः आगच्छति। दासं ब्रवीमि-इदं कुरु-सः तत् कुरुते।” 10येशुः एतत् समाकर्ण्य विस्मयान्वितः संजातः। अनुयायिनः प्राह, “युष्मान् अहं सत्यं ब्रवीमि - “इस्रायलप्रदेशेऽपि न ईदृशः कश्चिद् विश्वासवान् मया परिलक्षितः।”
11“अहं युष्मान् ब्रवीमि - बहवः जनाः पूर्वपश्चिमात् आगत्य अब्राहमेन, इसहाकेन, याकूबेन सह स्वर्गराज्यस्य भोज्ये सम्मिलिताः भविष्यन्ति, 12किन्तु राज्यस्य प्र्रजाः बहिः तिमिरे क्षेपिस्यन्ते ते बहिः स्थिते रोदिष्यन्ति तथा दन्तान् घर्षिष्यन्ति। 13येशुः ततः इत्थं जगाद तं शताधिपतिं प्रति - “याहि, यथा तव विश्वासः तथैव तव सिध्यतु। तस्मिन्नेव क्षणे तस्य सेवकः निरामयः अभवत्।”
पतरसस्य श्वश्रूः
(लूका 7:1-10; 13:28-29)
14अथ शिष्यैः वृतः येशुः पतरसस्य गृहं ययौ। तत्र असौ पतरसस्य श्वश्रूं ज्वरेण आतुरां दृष्टवान्। 15येशुः तस्याः करं स्पृष्टवान्, सा निरोगा अभवत्, समुत्थाय सा तस्य सत्कारम् अकरोत्।
बहूनां स्वास्थ्यलाभः
(मर 1:32-34; लूका 4:40-41)
16सन्ध्यायां भविते सति, लोकाः भूताविष्टान् बहून् जनान् आदाय येशुम् उपागताः। येशुः तु शब्दमात्रेण तान् भूतान् निरसारयत् तथा सद्यः सर्वान् स्वस्थान् चकार। 17इत्थं यत् नबी- यशायाहः अवोचत् तस्य वचनं परिपूर्णम् अभवत् - “सः अस्माकम् दुर्बलत्वं निराकरोत्, तथा अस्मदीयं रोगभारं स्वभारवत् स्वोपरि गृहीतवान्।”
शिष्यतायाः नियमः
(लूका 9:56-60)
18येशुः स्वं जनानां निवहैः वृतम् विलोक्य, स्वीयान् शिष्यान् समुद्रस्य पारं गन्तुं समादिशत्। 19तस्मिन् एव समये एकः शास्त्री समागत्य तम् अब्रवीत्, “गुरो! अहं त्वाम् अनुयास्यामि त्वं यत्र यास्यसि।” 20येशुः तं शास्त्रिणम् अब्रवीत्, “शृगालानां निवासाय स्वानि गर्त्तानि सन्ति, पक्षिणाम् व्योम्नि नीडाश्च, किन्तु मानवपुत्रस्य स्वकम् शिरः शाययितुम्, जगतीतले कुत्रचित् अपि स्थानं न विद्यते।” 21शिष्येषु कश्चित् येशुम् अभाषत, “प्रभो! माम् मे पितुः अन्त्येष्टिकर्मणे अनुजानीहि।” 22किन्तु तं शास्त्रिणं येशुः अवदत्, “त्वं माम् अनुव्रज, मृतकाः एव स्वकान् मृतान् शवागारे निक्षिपन्तु।”
चण्डवातस्य शान्तिः
(लूका 4:35-41; मर 8:22-25)
23येशुः शिष्यकैः सह एकां नौकाम् आरोहत्। 24तस्मिन् काले समुद्रे तुमुलः संक्षोभः अजायत्, येन सा नौः तरंगैः समाच्छादिता अभवत्। येशुः तस्यां नौकायां स्वपिति स्म। 25शिष्याः उपेत्य तं प्रबोध्य अवदन्, “प्रभो ! नः रक्षतु, अस्मिन् सागरे वयं निमज्जामः।” 26येशुः तान् प्राह, “रे अल्पविश्वासिनः जनाः! यूयं किमर्थम् बिभीथ?” ततः उत्थाय वायुं सागरं च ततर्ज; एतेन पूर्णशान्तिः अभवत्। 27ते जनाः विस्मिताः भूत्वा अवदन्, “एषः को वर्तते? वायुः अब्धिः च तस्य अधीने भवतः।”
द्वयोः भूतग्रस्तनरयोः स्वास्थ्यलाभः
(लूका 5:1-17; मर 8:26-27)
28अथ समुद्रस्य अपर पारतटस्थितम् गदरेनियायाः प्रदेशं येशुः आप्तवान्, तदा द्वौ अपदूतग्रस्तौ मनुष्यौ शवगर्त्ततः निर्गत्य सहसा येशोः समक्षं समुपस्थितौ। तौ च एतादृशौ उग्रौ आस्ताम्, यत् तस्मात् मार्गात् कश्चिद् अपि गन्तुम् आगन्तुम् न शशाक। 29अतिप्रचण्डौ तौ येशुम् उत्क्रोशन्तौ अकथयताम्, “ईशपुत्र! भवता सह आवयोः कः संबंधः? कि भवान् समयात् पूर्वम् आवां पीडयितुम् आगतः?” 30तत्र किंचित् दूरे शूकराणां वृहत् समूहः चरन् आसीत्। 31अपदूतौ येशुम् विनयन्तौ तं प्रत्यवोचताम्, “भवान् चेद् आवां निःसारयति तदा अस्मिन् शूकरसमूहे प्रहिणोतु।” 32येशुः तौ अवदत्, “गच्छताम्।” तदा तत्क्षणमेव शूकरव्रजः वेगेन धावन् शैलस्य अग्रतः पतित्वा अब्धौ तोये अम्रियत।
33शूकरचारकाः पलाय्य, नगरं गत्वा, यत् अपश्यन् तत् सर्वम् जनान् न्यवेदयन्। 34तद् अद्भुतं वृत्तं श्रुत्वा सर्वे नगरवासिनः येशुं द्रष्टुम् आगतवन्तः। तं विलोक्य ते सर्वे येशुं तेषां प्रदेशात् शीघ्रं गमनाय निवेदितवन्तः।
Markert nå:
मत्ति 8: SANSKBSI
Marker
Kopier
Sammenlign
Del
Vil du ha høydepunktene lagret på alle enhetene dine? Registrer deg eller logg på
Sanskrit New Testament
Copyright © 2015 by The Bible Society of India
Used by permission. All rights reserved worldwide.