मत्ति 9

9
अर्द्धांगरोगी
(मर 2:1-12; लूका 5:17-26)
1ततः येशुः नावि उपविश्‍य, सागरं तीर्त्‍वा स्‍वनगरम्‌ आगच्‍छत्‌। 2-3तस्‍मिन्‌ समये केचित्‌ जनाः शय्‍यायाम्‌ अधिष्‍ठितम्‌ अर्द्धांगरोगेण ग्रस्‍तम्‌ एकं जनं तस्‍य अन्‍तिकम्‌ आनयन्‌। तेषां विश्‍वासं दृष्‍ट्‌वा येशुः रोगिणम्‌ उक्‍तवान्‌, “पुत्र! समाश्‍वसिहि! तव पापानि क्षमितानि सन्‍ति।” 3केचित्‌ शास्‍त्रिणः मनसि अचिन्‍तयन्‌ - अयम्‌ ईशनिन्‍दां करोति। 4येशुः तेषां मनोभावं ज्ञात्‍वा तान्‌ इदम्‌ अब्रवीत्‌, “यूयं स्‍वमनसि कुविचारान्‌ किमर्थम्‌ आनयथ? 5सरलतरं किमस्‍ति - इदं कथनम्‌, तव पापानि क्षमितानि सन्‍ति, अथवा इदं कथनम्‌ उत्‍थाय, भ्रमणं कुरु? 6परन्‍तु एतत्‌ हि युष्‍माभिः ज्ञायताम्‌ यत्‌ अस्‍मिन्‌ भुवि मानवपुत्रः पापं क्षन्‍तुम्‌ अधिकृतः” , ततः सः अर्द्धांगरोगिणम्‌ अब्रवीत्‌ - “उत्तिष्‍ठ, स्‍वखट्‌वाम्‌ आदाय सत्‍वरं स्‍वगृहं व्रज।” 7सः अपि समुत्‍थाय स्‍वगृहं प्रति प्रतस्‍थे। 8एतत्‌ दृष्‍ट्‌वा ते सर्वें भयाक्रान्‍ताः भूत्‍वा ईश्‍वरं समस्‍तुवन्‌, येन मर्त्‍येभ्‍यः ईदृशम्‌ सामर्थ्‍यम्‌ दत्तम्‌।
मत्तिनः आह्‌वानम्‌
(मर 2:13-17; लूका 5:27-32)
9येशुः तत्रतः अगे्र गत्‍वा मत्ती इति नाम जनं शुल्‍कादानगृहे स्‍थितम्‌ दृष्‍ट्‌वा तम्‌ अबवीत्‌, “मामनुव्रज।” तत्‍क्षणमेव सः उत्‍थाय येशुना सह प्रस्‍तथे।
10एकस्‍मिन्‌ दिवसे येशुः शिष्‍यैः सह मत्तिनः गृहे भोजनाय उपाविशत्‌। अनेकाः शुल्‍कसंग्रहिणः, पापिनश्‍च येशुना सह उपाविशन्‌। 11फरीसिनः तु तद्‌ दृष्‍ट्‌वा येशोः शिष्‍यान्‌ बभाषिरे, “युष्‍माकं गुरुः एभिः पापिभिः साकम्‌ किमर्थम्‌ भुड्‌.क्‍ते?” 12येशुः एतत्‌ श्रुत्‍वा तान्‌ अब्रवीत्‌, “निरामयानां न अपितु सामयानाम्‌ वैद्यः अपेक्षितः। 13यूयं गत्‍वा प्रशिक्षध्‍वम्‌ अस्‍य वचसः किं तात्‍पर्यम्‌ - अहं बलिदानं न, दयाम्‌ एव इच्‍छामि। धर्मात्‍मनो नैव किन्‍तु पापात्‍मनो जनान्‌ मनः परावर्तनार्थम्‌ आह्‌वातुम्‌ अहम्‌ आगतः अस्‍मि।”
उपवासस्‍य प्रश्‍नः
(मर 2:18-22; लूका 5:33-35)
14तदनन्‍तरं योहनस्‍य शिष्‍याः येशोः समीपे आगत्‍य, अवदन्‌ च, “वयं, फरीसिनश्‍च उपवासं कुर्मः। भवतः शिष्‍याः कथम्‌ ईदृशं कार्यम्‌ न कुर्वन्‍ति?” 15येशुः तान्‌ अब्रवीत्‌, “यावद्‌ वरयात्रिभिः सह वरोऽस्‍ति, तावत्‌ वरयात्रिणः किं शोकार्त्ताः भवन्‍ति? किन्‍तु तानि दिनानि समेष्‍यन्‍ति, यदा वरः तेभ्‍यो अपनेष्‍यते। तेषु दिवसेषु ते उपवासं करिष्‍यन्‍ति।”
16कश्‍चित्‌ जीर्णे वस्‍त्रे असंकुचितवस्‍त्रस्‍य खण्‍डं न सीव्‍यति, यतः सः वस्‍त्रखंडः कुचिंतः भूत्‍वा जीर्णम्‌ वस्‍त्रं दरिष्‍यति। विदार्य जीर्णवस्‍त्रम्‌ तत्‌ कुछिद्रं कुरुते महत्‌। 17जीर्णकुतूपेषु नवः द्राक्षारसः न निधीयते। यतः तथा कृते कुतूपाः विदीर्यन्‍ते, सः द्राक्षारसः अपि विस्रवति, नष्‍टा च भवति। जनाः द्राक्षारसं नूतनेषु निधत्ते। इत्‍थम्‌ उभयोः सम्‍यक्‌ रक्षणं संभवति।”
अधिकारिणः पुत्री रक्‍तस्रावप्रपीडिता च
(मर 5:21-43; लूका 8:40-56)
18यावत्‌ एव येशुः तान्‌ प्रति तद्‌ वचः ब्रुवन्‌ आसीत्‌ तावत्‌ कश्‍चित्‌ अधिकारीजनः तत्र समायातः। असौ भूमौ दण्‍डवत्‌ निपत्‍य सादरम्‌ येशुम्‌ आह-प्रभो! मम दुहिता इदानीम्‌ एव अम्रियत। आगच्‍छतु, तस्‍याः शरीरे स्‍वं करं स्‍थापयतु, सा अवश्‍यमेव जीविष्‍यति। 19ततः येशुः उत्‍थाय शिष्‍यैः सह, तेन अधिकारिणा सह तस्‍य गेहं प्रतस्‍थिरे।
20तस्‍मिन्‍नेव क्षणे काचिद्‌ द्वादशवर्षाणि रक्‍तस्रावेन आतुरा नारी येशुम्‌ आगत्‍य पृष्‍ठतः स्‍वेन पाणिना तस्‍य वस्‍त्रप्रलम्‍बकम्‌ अस्‍पृशत्‌ 21यत सः स्‍वमनसि प्रत्‍ययात्‌ इदम्‌ अब्रवीत्‌, - “अहं तु तस्‍य केवलम्‌ वस्‍त्रमेव संस्‍पृश्‍य नीरोगा अवश्‍यमेव भविष्‍यामि।” 22ततो येशुः परावृत्‍य ताम्‌ दृष्‍ट्‌वा इदम्‌ उक्‍तवान्‌, “पुत्रि! समाश्‍वसिहि! तव विश्‍वासेन त्‍वं रोगमुक्‍ता अभवः। सा स्‍त्री तत्‍क्षणमेव स्‍वस्‍था जाता।
23अधिकारिणः गृहे गत्‍वा वंशीवादकान्‌, जनान्‌ च क्रन्‍दतः दृष्‍ट्‌वा अवदत्‌ च, 24”अपसरत, बाला इयं न अम्रियत, शयते।” एतद्‌ आकर्ण्‍यम्‌ तत्रस्‍थाः सर्वे येशुम्‌ उपाहसन्‌। 25येशुः अन्‍तः प्रविश्‍य बालायाः हस्‍तं स्‍वे करे अधरत्‌, सा तत्‍क्षणमेव उत्तिष्‍ठतवती। 26अस्‍य कार्यस्‍य ख्‍यातिः प्रदेशस्‍य कोणे कोणे अप्रसरत्‌।
अन्‍धयोर्दृष्‍टिलाभः
27तस्‍मात्‌ स्‍थानात्‌ येशुः अग्रे अगच्‍छत्‌। द्वौ अन्‍धौ प्रोच्‍चैः वदन्‍तौ तम्‌ अनुजग्‍मतुः, दाऊदस्‍य पुत्र! आवयोः अनुकम्‍पय। 28तस्‍मिन्‌ गेहे प्रविष्‍टे च अन्‍धौ तस्‍य समीपे अगच्‍छताम्‌। येशुः तौ अपृच्‍छत्‌, “एतत्‌ कर्तुम्‌ अहं शक्‍नोमि, किम्‌ अयं युवयोः विश्‍वासः?” तौ अकथयताम्‌, “एषः विश्‍वासः आवयोः हृदि अस्‍ति।” 29येशुस्‍तदा तयोः नेत्रे स्‍पृष्‍ट्‌वा तौ इदम्‌ उक्‍तवान्‌, 30“युवयोः यथा विश्‍वासः, तथा भवेत्‌।” येशुस्‍तौ चेतयन्‌ प्राह-’’कोऽपि वृत्तं न जानीयात्‌।” 31किन्‍तु गृहात्‌ विनिर्गत्‍य तस्‍मिन्‌ कृत्‍स्‍ने प्रदेशे येशोः नाम प्रसारितवन्‍तौ।
भूतग्रस्‍तः मूकः
32उभयोः अन्‍धयोः तस्‍मात्‌ गृहात्‌ निर्गमनक्षणे, केचित्‌ जनाः, मूकम्‌ अपदूतग्रस्‍तं च जनं येशोः अन्‍तिकम्‌ आनीतवन्‍तः। 33येशुः अपदूतं निसारितवान्‌, मूकः वक्‍तुं प्रचक्रमे च। लोकाः सविस्‍मयं प्रोचुः, “इस्राएले ईदृशः चमत्‍कारः कदापि न वीक्षितः।” फरीसिनः तु अवदन्‌ - 34”अयं भूतराजस्‍य साहाय्‍येन भूतान्‌ निःसारयति।”
येशोः अनुकम्‍पा
35येशुः सभागेहेषु शिक्षयन्‌, राज्‍यस्‍य शुभसमाचारस्‍य प्रचारयन्‌, रोगान्‌, दौर्बल्‍यं च अपाकुर्वन्‌, सर्वेषु नगरेषु ग्रामेषु च अपरिभ्रमत्‌।
36सर्वान्‌ जनान्‌ विलोक्‍य येशुः तेषाम्‌ उपरि अदयत्‌, यतः ते निश्‍चारकाः अवसन्‍नाः मेषा इव आसन्‌। 37येशुः स्‍वान्‌ शिष्‍यान्‌ अवदत्‌ “शस्‍याधिक्‍यं तु वर्तते, किन्‍तु शस्‍यस्‍य कर्तितारस्‍तु स्‍वल्‍पसंख्‍यकाः वर्तन्‍ते। 38अतः शस्‍यक्षेत्रस्‍य स्‍वामिनं प्रार्थयध्‍वं, शस्‍यं कर्तितुम्‌ असौ स्‍वक्षेत्रे श्रमिकान्‌ प्रेषयतु।”

Terpilih Sekarang Ini:

मत्ति 9: SANSKBSI

Highlight

Kongsi

Bandingkan

Salin

None

Ingin menyimpan sorotan merentas semua peranti anda? Mendaftar atau log masuk