Logo ya YouVersion
Elilingi ya Boluki

मत्ति 22

22
वैवाहिकभोज्‍यस्‍य दृष्‍टान्‍तः
(लूका 14:16-24)
1येशुः तान्‌ पुनः दृष्‍टान्‍तम्‌ अश्रावयत्‌। सोऽवदत्‌, 2”स्‍वर्गराज्‍यं तेन राज्ञः सदृशम्‌ अस्‍ति, यः स्‍वपुत्रविवाहस्‍योपलक्ष्‍ये भोजम्‌ अददात्‌। 3सः आमंत्रिताः अतिथीः आनेतुम्‌ स्‍वसेवकान्‌ प्रेषयामास, परन्‍तु ते आगन्‍तुं न इच्‍छन्‍ति स्‍म। 4नृपः पुनः अन्‍यान्‌ सेवकान्‌ प्रेषयन्‌ इदम्‌ आह “अभ्‍यागतान्‌ गत्‍वा वदत, पश्‍यन्‍तु! मया भोज्‍यं सज्‍जीकृतम्‌। मम वृषाः पुष्‍टाः पशवः अपि सर्वे मारिताः। सर्वम्‌ प्रस्‍तुतम्‌ एव आस्‍ते अस्‍मिन्‌ उत्‍सवे आगच्‍छन्‍तु।” 5परन्‍तु तैः अतिथिभिः निमन्‍त्रणम्‌ उपेक्षितम्‌। केचित्‌ स्‍वक्षेत्रम्‌ अगच्‍छन्‌, अन्‍ये स्‍वव्‍यापारं द्रष्‍टुम्‌ अगच्‍छन्‌। 6शेषाः सेवकान्‌ धृत्‍वा अवमान्‍य च अध्‍नन्‌। 7राजा क्रुद्धः भूत्‍वा स्‍वसैनिकान्‌ प्रहित्‍य, तान्‌ घातकान्‌ व्‍यपाद्‌य, तेषां पुरम्‌ अदाहयत्‌ च। 8ततः सः सेवकान्‌ प्राह, भोज्‍यं सुसज्‍जितम्‌ आस्‍ते, परन्‍तु अभ्‍यागताः अस्‍य योग्‍याः न अभवन्‌। 9अतः चतुष्‍पथान्‌ गत्‍वा यान्‌ जनान्‌ पश्‍यथ, तान्‌ विवाहोत्‍सवे आहूय आनयत। 10सेवकाः राजपथान्‌ गत्‍वा तत्रस्‍थानात्‌, दुर्जनान्‌ सुजनान्‌ चापि समाहृत्‍य समानयन्‌। 11राजा तत्र समवेतान्‌ अभ्‍यागतान्‌ द्रष्‍टुम्‌ आगतः, 12तदा विवाहवस्‍त्रेण रहितम्‌ एकं जनं समासीनं दृष्‍ट्‌वा नृपतिः तं पृष्‍टवान्‌, “भ्रातः! विवाहवस्‍त्रेण हीनः त्‍वं कथम्‌ आगच्‍छः? असौ जनः मौनमाश्रयत्‌। 13तदा राजा दासान्‌ जगाद, अस्‍य करद्वयम्‌ बद्‌ध्‍वा पादौ च बहिःस्‍थे तिमिरे द्रुतम्‌ क्षिपत। तत्र सः रोदिष्‍यति, दन्‍तैः दन्‍तघर्षणम्‌ करिष्‍यति। 14यतः बहवः आहूताः सन्‍ति, परन्‍तु वृताः तु अल्‍पाः सन्‍ति।”
रोमनसम्राजे करदानस्‍य प्रश्‍नः
(मर 12:13-17; लूका 20:20-26)
15तस्‍मिन्‌ काले फरीसिनः येशोः समीपं गत्‍वा मिथः मन्‍त्रणां चक्रुः। कथम्‌ अयं स्‍वयं स्‍वेन वाक्‌पाशेन निबध्‍यते। 16ते हेरोदेसदलस्‍य सदस्‍यैः सह स्‍वान्‌ शिष्‍यान्‌ अप्रेषयन्‌, ते येशुम्‌ पृष्‍टवन्‍तः “गुरो! वयं विजानीम भवान्‌ सत्‍यं सम्‍भाषते, सत्‍येन एव ईश्‍वरस्‍य च पन्‍थानं विनिर्दिशति। कस्‍मात्‌ अपि न बिभेति। मुखापेक्षं सम्‍भाषणं न ब्रवीति। 17अतः रोमनसम्राजे देयः, न वा किं भवान्‌ मन्‍यते?” 18येशुः तेषां दुष्‍टतां विज्ञाय तान्‌ इदम्‌ आह, “रे कपटिनः! किमर्थम्‌ मां परीक्षतुम्‌ इच्‍छथ? 19करदानस्‍य एकां मुद्रां मां दर्शयत।” 20यदा ते येशुम्‌ एकं दीनारम्‌ अदर्शयन्‌, 21तदा येशुः तान्‌ अपृच्‍छत्‌, “इयं कस्‍य मूर्तिः, कस्‍य च लेखः दृश्‍यते?” ते प्रोचुः, “रोमनसम्राजः“। येशुः तान्‌ अब्रवीत्‌, “तर्हि यत्‌ सम्राजः आस्‍ते यूयं तस्‍मै दत्त, यत्‌ परमेश्‍वरस्‍य अस्‍ति तत्तु परमेश्‍वराय प्रयच्‍छत।” 22एतत्‌ श्रुत्‍वा विस्‍मिताः सर्वे येशुम्‌ त्‍यक्‍त्‍वा प्रतस्‍थिरे।
पुनरुत्‍थानस्‍य प्रश्‍नः
(मर 12:18-27; लूका 20:27-40)
23तस्‍मिन्‌ एव दिने सदूकीसम्‍प्रदायस्‍य जनाः येशुम्‌ उपागताः। तेषां धारणा अस्‍ति यत्‌ मृतस्‍य जनस्‍य पुनरुत्‍थानं न भवति। 24ते तम्‌ ऊदुः “गुरो ! मूसा कथितवान्‌, कश्‍चन चेत्‌ निरपत्‍यः म्रियते तदा तस्‍य भ्राता तस्‍य विधवाम्‌ पत्‍नी कृत्‍वा भात्रर्थम्‌ तस्‍याः सन्‍तानं जनयिष्‍यति। 25इदानीम्‌ अस्‍माकं मध्‍ये सप्‍तभ्रातरः अविद्यन्‍त। प्रथमः विवाहं कृत्‍वा अनपत्‍यः मृत्‍युम्‌ आप्‍तवान्‌। स्‍वभार्याम्‌ स्‍वस्‍य भ्रातुः कृते अत्‍यजत्‌। 26तथैव द्वितीयः तृतीयश्‍च कृतवान्‌, सप्‍तानाम्‌ भ्रातॄणां गति इदृशी संजाता। 27सर्वेषाम्‌ पश्‍चात्‌ सा विधवा अपि ममार। 28अथ पुनरुत्‍थाने भविते सति सा सप्‍तभ्रातृषु कस्‍य पत्‍नी भविष्‍यति? सा तु सप्‍तभातॄणां पत्‍नी आसीत्‌।”
29येशुः तान्‌ उदतीतरत्‌, “यूयं न तु धर्मग्रन्‍थं जानीथ, न परमेश्‍वरस्‍य सामर्थ्‍यम्‌, अतः भ्रान्‍तौ स्‍थ। 30पुनरुत्‍थाने भविते सति न तु पुरुषाः उद्‌वहन्‍ति, न तु स्‍त्रियः विवाहे दीयन्‍ते, किन्‍तु ते स्‍वर्गदूतानाम्‌ सदृशाः भवन्‍ति। 31यावत्‌ मृतकानाम्‌ पुनरुत्‍थानस्‍य प्रश्‍नः अस्‍ति, किं युष्‍माभिः इदं वचनं न पठितम्‌? यत्‌ परमेश्‍वरेण यूयं कथिताः 32अहम्‌ अब्राहमस्‍य परमेश्‍वरः, इसहाकस्‍य परमेश्‍वरः, याकूबस्‍य च परमेश्‍वरः अस्‍मि? “सः मृतकानाम्‌ नहि, अपितु जीवितानाम्‌ परमेश्‍वरः अस्‍ति।” 33इदं श्रुत्‍वा जनाः तस्‍य शिक्षायाम्‌ परं विस्‍मयं ययुः।
सर्वासु महती आज्ञा
(मर 12:20-31; लूका 10:25-28)
34येशुः सदूकिनः निरुत्तरान्‌ चकार, तदा ते एकत्राः अभवन्‌। 35तेषु कश्‍चन शास्‍त्री तं परीक्षितुम्‌ अपृच्‍छत्‌, 36“गुरो! संहिताग्रन्‍थे कः आदेशः सर्वतो महान्‌? 37येशुः तम्‌ अवदत्‌, “त्‍वं स्‍वकीयेन सर्वान्‍तःकरणेन सर्वात्‍मना तथा स्‍वसर्वबुद्‌धया च प्रभौ प्रेमपरो भव। 38अयं हि संहिताग्रन्‍थे सर्वतः महान्‌ आदेशः। 39द्वितीया अपि अस्‍य सदृशः आदेशः वर्तते - स्‍वप्रतिवेशिनि आत्‍मवद्‌ प्रीतिः व्‍यवहर्तव्‍या।” 40येशुः एतत्‌ समाधाय तं शास्‍त्रिणं पुनः आह, “समस्‍ता व्‍यवस्‍था नबिनां शिक्षाः च इमे द्वे आदेशवाक्‍ये अवलम्‍बिताः सन्‍ति।”
मसीहः नृपस्‍य दाऊदस्‍य वंशजः
(मर 12:35-37; लूका 20:41-44)
41येशुः एकत्रान्‌ फरीसिनः अपृच्‍छत्‌, “युष्‍माकं हृदये मसीहम्‌ प्रति कीदृशः भावः? 42-43“मसीहः कस्‍य पुत्रोऽस्‍ति” ते अब्रुवन्‌ “दाऊदस्‍य इति।” एतत्‌ आकर्ण्‍य येशुः तान्‌ अब्रवीत्‌, “तर्हि दाऊदः स्‍वात्‍मना प्रेरितः कथं तं प्रभुं भाषते, तेन तु लिखितम्‌ अस्‍ति -
44‘प्रभुः मत्‍प्रभुं बभाषे
तावत्‌ तु मे दक्षिणभागे उपविश
यावत्‌ न सर्वम्‌ तव शत्रुवर्गम्‌
अहम्‌ वै तव पादपीठम्‌ करोमि।’
45तत्‌ यदि दाऊदेन स्‍वयं प्रभुः सः अभिधीयते, तर्हि दाऊदस्‍य वंशजः कथं संभविष्‍यति।” 46अस्‍य उत्तरे कश्‍चित्‌ तं एकवाक्‍यम्‌ अपि न अभाषत। तस्‍मात्‌ दिनात्‌ तं प्रष्‍टुं कोऽपि साहसम्‌ न अकरोत्‌ च।

Currently Selected:

मत्ति 22: SANSKBSI

Tya elembo

Copy

Kokisana

Kabola

None

Olingi kobomba makomi na yo wapi otye elembo na baapareyi na yo nyonso? Kota to mpe Komisa nkombo