Logo ya YouVersion
Elilingi ya Boluki

मत्ति 21

21
येरुसलेमे येशोः प्रवेशः
(मर 11:1-11; लूका 19:28-38; यूह 12:12-16)
1यदा येरुसलेमम्‌ एत्‍य जैतूननामके गिरौ स्‍थितं बेतफगेनाम ग्रामम्‌ आगतवान्‌, येशुः द्वौ शिष्‍यौ इदं वचः प्रोक्‍तवान्‌, 2“सम्‍मुखस्‍थम्‌ अमुं ग्रामं युवाम्‌ गच्‍छतम्‌। तत्र एकां सवत्‍सां गर्दभीं युवाम्‌ बद्धाम्‌ आसाद्‌य, मुक्‍त्‍वा तौ मम अन्‍तिकम्‌ आनयतम्‌। 3यदि कश्‍चिद्‌ किंचित्‌ वदेत्‌, तदा तं वदतम्‌ इदम्‌, प्रभोः आभ्‍यां कार्यम्‌ अस्‍ति, सः तौ शीघ्रं विसृज्‍यति।” 4एतद्‌ अर्थम्‌ इदं वृत्तं सम्‍पद्‌यत, एषा नबिनः वाणी सर्वथा पूर्णतां व्रजेत्‌ -
5सियोननगरीं वदतु
पश्‍य! तव राजा तव अन्‍तिकम्‌ आगच्‍छति।
सः विनम्रः अस्‍ति। सः गर्दभीं सवत्‍साम्‌ -
आरूढः आयाति।
6शिष्‍यौ गत्‍वा यथादिष्‍टं येशुना तथा चक्रतुः। तौ तां गर्दभीं, तस्‍याः पोतं च आनयेताम्‌ ततः तौ तयोः स्‍ववस्‍त्राणि अस्‍थापयताम्‌। 7येशुः ततः उपविष्‍टवान्‌। 8जनानां समूहेषु बहवः जनाः स्‍ववस्‍त्राणि तस्‍य मार्गे व्‍यस्‍तारयन्‌। अन्‍ये च वृक्षाणां शाखां छित्‍वा मार्गे विस्‍तारयामासुः। 9येशोः अग्रे तथा पश्‍चाद्‌ गन्‍छन्‍तः बहवः जनाः इमं वाक्‍यं उच्‍चैः स्‍वरेण उदच्‍चारयन्‍तः वदन्‍ति स्‍म, “दाऊदस्‍य वंशराजस्‍य जय! धन्‍यः असौ यः प्रभोः नाम्‍नि एति, सर्वोच्‍चे स्‍वर्गे भूयाद्‌ जयध्‍वनिः भवेत्‌।”
10यदा येशुः येरुसलेमम्‌ आगच्‍छत्‌, तदा समस्‍तनगरे कोलाहलः अभवत्‌। जनाः मिथो पर्यपृच्‍छन्‌ “कः अयम्‌ इति?” 11जनाः तान्‌ प्रति इदम्‌ उदुः, “अयं गलीलप्रदेशस्‍य नासरतवासी नबी येशुः वर्तते।”
मन्‍दिरात्‌ क्रयविक्रयकारिणां निष्‍कासनम्‌
(मर 11:15-17; लूका 19:45-46; यूह 2:14-16)
12येशुः मन्‍दिरे अप्रविशत्‌, तस्‍मात्‌ धर्मस्‍थलात्‌ सकलान्‌ क्रयविक्रयकारिणः बहिः चकार। मुद्रायाः आसनानि, वणिजां कपोतानां च विक्रयम्‌ कुर्वतां न्‍यब्‍जयामास आसनानि, तान्‌ उक्‍तवान्‌, “लिखितं वर्तते - 13मदीयं गृहं प्रार्थनागृहम्‌ कथयिष्‍यते, परन्‍तु युष्‍माभिः तत्‌ दस्‍यूनाम्‌ गृहं क्रियते।”
बालकानाम्‌ मुखेभ्‍यः जयः जयकारः
14मन्‍दिरे अन्‍धाः खत्र्जकाश्‍च येशोः समीपे आगच्‍छन्‌, येशोः तान्‌ सर्वान्‌ निरामयान्‌ चकार। 15यदा पुरोहिताः शास्‍त्रिणश्‍च तस्‍य चमत्‍कारान्‌ अपश्‍यन्‌, तथैव मन्‍दिरे बालकैः प्रोच्‍यमानम्‌ इदं वचः “जयो दाऊदपुत्रस्‍य भूयात्‌” अशृण्‍वन्‌, तदा क्रुद्धाः भूत्‍वा 16येशुम्‌ अवदन्‌, “किं त्‍वं शृणोषि एते बालकाः किं निगदन्‍ति?” येशुः तान्‌ प्रति इत्‍थम्‌ उवाच “मया सर्वम्‌ संश्रूयते। युष्‍माभिः खलु कदाचित्‌ एतत्‌ न पठितं, बालकानां शिशूनां च स्‍तनपायिनाम्‌ मुखेन त्‍वं स्‍वकीयगुणगानं कारितवान्‌ असि।” 17एतद्‌ उक्‍त्‍वा येशुः तान्‌ त्‍यक्‍तवान्‌, नगराद्‌ निर्गत्‍य बेतनियाहग्रामं जगाम। तत्रैव तां निशां यापयामास।
अंजीरवृक्षः
(मर 11:12-14,20-24)
18प्रभाते नगरं प्रति आगच्‍छन्‌ येशुः क्षुधया पीडितः बभूव। 19पथि अंजीरवृक्षं विलोक्‍य तस्‍य समीपे ययौ। तस्‍मिन्‌ तु पत्रेभ्‍यः किंचिद्‌ न एव अन्‍यत्‌ दृष्‍टवान्‌, अवदत्‌ च, “त्‍वयि कदापि पुनः फलम्‌ न भवेत्‌,” तत्‍क्षणमेव अंजीरस्‍य असौ वृक्षः शुष्‍कतां गतः। 20एतत्‌ आलोक्‍य शिष्‍याः विस्‍मिताः तम्‌ इदं पृष्‍टवन्‍तः, “अंजीरस्‍य अयं वृक्षः कथं शुष्‍कः भूतः अस्‍ति।” 21येशुः तान्‌ प्रति अवादीत्‌ - “युष्‍मान्‌ ब्रवीमि - यदि युष्‍माकं विश्‍वासः भवेत्‌, संशयं न कुरुध्‍वे, तदा न केवलम्‌ तत्‌ करिष्‍यध्‍वे, यन्‍मया कृतम्‌, किन्‍तु एतां गिरिं कथयथ - उत्‍पत्‍य, समुद्रे पत, तदा एवं सेत्‍स्‍यति। 22विश्‍वासेन सह प्रार्थनायां यत्‌ किंचिद्‌ याचिष्‍यध्‍वे, तत्‌ सर्वम्‌ लप्‍स्‍यध्‍वे।”
येशोः अधिकारे संशयः
(मर 11:27-33; यूह 20:1-8)
23मन्‍दिरं प्रविश्‍य येशुः शिक्षितुम्‌ आरेभे। तदा महापुरोहिताः समाजस्‍य धर्मवृद्धाः तं पप्रच्‍छुः, भवान्‌ केन अधिकारेण इदं सर्वम्‌ कुरुते? इमम्‌ अधिकारं तुभ्‍यम्‌ कः दत्तवान्‌ इति? 24येशुः तान्‌ प्रत्‍युवाच, “अहमपि युष्‍मान्‌ प्रश्‍नमेकं प्रष्‍टुम्‌ इच्‍छामि। यदि युष्‍माभिः सम्‍यक्‌ उत्तीर्यते, तदा अहम्‌ अपि युष्‍मान्‌ वदिष्‍यामि केन अत्र अहम्‌ अधिकृतः। 25जलसंस्‍कारदाता योहनः कुत्रस्‍य आसीत्‌? मनुष्‍येभ्‍यः अथवा स्‍वर्गलोकतः?” मिथः विचारयन्‍तः सर्वे बभाषिरे - “यदि वयं ब्रूमहे “स्‍वर्गस्‍य” तदा असौ अस्‍मान्‌ कथयिष्‍यति “तदा यूयं सर्वे तस्‍मिन्‌ विश्‍वासं किमर्थम्‌ न अकुरुत?” 26यदि वयं ब्रूमहे; “मनुष्‍यानाम्‌” तदा जनेभ्‍यः भयम्‌ अस्‍ति, यतः योहनः सर्वैः नबी मन्‍यते। अतः ते येशुम्‌ उत्तरम्‌ अददुः, 27“वयं न जानीम।” येशुः अपि तान्‌ अवादीत्‌, “तदा अहम्‌ अपि न वक्ष्‍यामि, यत्‌ केन अधिकारेण इदं सर्वम्‌ करोमि।”
पुत्रद्वयस्‍य दृष्‍टान्‍तः
28“युष्‍माकं को विचारः वर्तते? कस्‍यचिद्‌ मनुष्‍यस्‍य द्वौ पुत्रौ आस्‍ताम्‌। सः प्रथमं पुत्रम्‌ उपेत्‍य इदम्‌ अभाषत, “पुत्र! याहि, अद्यः द्राक्षाक्षेत्रे कार्यम्‌ कुरु।” 29पुत्रः प्रत्‍युतरत्‌, “अहं न गमिष्‍यामि।” परन्‍तु पश्‍चात्‌ तं पश्‍चात्तापम्‌ अभवत्‌, सः अगच्‍छत्‌। 30पिता द्वितीयं पुत्रं तथैव निजगाद। सः प्रत्‍युतरत्‌ “आम्‌ तात” किन्‍तु असौ न जगाम। 31यूयं वदथ द्वयोः केन पितुः आज्ञा अनुवर्त्तिता।” ते अकथयन्‌, “प्रथमेन, येशुः तान्‌ इदम्‌ अब्रवीत्‌, “अहं युष्‍मान्‌ ब्रवीमि - शुल्‍कादायिनः नराः तथा वारस्‍त्रियः युष्‍मतः प्रथमं प्रभोः राज्‍यं प्रवेक्ष्‍यन्‍ति। 32योहनः युष्‍मान्‌ धार्मिकतायाः मार्गम्‌ दर्शितुम्‌ आगच्‍छत्‌, परन्‍तु तस्‍मिन्‌ युष्‍माभिः विश्‍वासः न कृतः, परन्‍तु शुल्‍कादायिनः वेश्‍याश्‍च तस्‍मिन्‌ विश्‍वासं कृतवन्‍तः। इदं दृष्‍ट्‌वा अपि युष्‍माभिः पश्‍चात्तापः न कृतः, यूयं तस्‍मिन्‌ न विश्‍वास अकुरुत।”
द्राक्षायाः उद्‌यानस्‍य दृष्‍टान्‍तः
(मर 12:1-12; लूका 20:9-19)
33“एकं दृष्‍टान्‍तवचनं युष्‍माभिः श्रूयताम्‌ इदम्‌। कश्‍चिद्‌ भूमिपतिः द्राक्षायाः एकम्‌ उद्‌यानम्‌ अरोपयत्‌, तत्‌ परितः प्राचीरं निर्माय, तस्‍मिन्‌ रसकुण्‍डम्‌ अखानयत्‌। तत्र एकं हर्म्‍यम्‌ निर्माय करदायिषु कृषकेषु भूमिपस्‍तु तं दत्‍वा परदेशं गतवान्‌। 34फलकाले आसन्‍ने स्‍वफलांशं जिघृक्षुकः कृषकाणां समीपं स्‍वान्‌ सवेकान्‌ प्रेषयामास। 35परन्‍तु कृषकाः दासान्‌ धृत्‍वा तेषाम्‌ एकम्‌ अताडयन्‌, अन्‍यं च अध्‍नन्‌, अन्‍यं च प्रस्‍तरैः अध्‍नन्‌। 36तत्‍पश्‍चात्‌ अधिकान्‌ दासान्‌ भूमिपतिः प्रेषितवान्‌, एतान्‌ प्रति अपि कृषकाः तथैव आचारं चक्रुः। 37ततः भूमिपतिः इत्‍थं चिन्‍तयित्‍वा स्‍वं पुत्रं तेषां समीपे प्रेषितवान्‌, “ते मदीयपुत्रस्‍य समादरं करिष्‍यन्‍ति।” 38परन्‍तु पुत्रं दृष्‍ट्‌वा कृषकाः अन्‍योन्‍यं बभाषिरे, “अयं तु उत्तराधिकारी वर्तते। अतः आगच्‍छत वयम्‌ इमं हन्‍याम, अस्‍य सकलं दायस्‍य अंशम्‌ आत्‍मसात्‌ कुर्याम।” 39ते तं धृत्‍वा द्राक्षायाः उद्यानात्‌ बहिः कृत्‍वा अध्‍नन्‌। 40यदा द्राक्षायाः उद्यानस्‍य स्‍वामी प्रत्‍यागमिष्‍यति, तदा कृषकैः सह किं करिष्‍यति?” 41ते येशुम्‌ अवदन्‌, स्‍वामी सर्वान्‌ तान्‌ हनिष्‍यति, उद्यानं तेषु एव कृषकेषु अर्पयिष्‍यति, ये फलांशं यथाकालं तस्‍मै दास्‍यन्‍ति।”
42येशुः तान्‌ अकथयत्‌, “किं युष्‍माभिः धर्मग्रन्‍थे न पठितम्‌?
शिल्‍पिभिः यः प्रस्‍तरः न उपयोगी, इति धिया निराकृतः, सोऽयं दृढ़कोणस्‍य प्रस्‍तरः अभवत्‌। इदं प्रभोः कार्यम्‌ अस्‍ति। अयम्‌ अस्‍माकं दृष्‍टौ अभूतपूर्वः अस्‍ति। 43अतएव अहं युष्‍मान्‌ ब्रवीमि - स्‍वर्गराज्‍यं युष्‍मत्तः अपहरिष्‍यते, इदृशेभ्‍यः राष्‍ट्रेभ्‍यः दास्‍यते, ये अस्‍य उचितफलं जनिष्‍यन्‍ति।
44”यः अस्‍मिन्‌ प्रस्‍तरे पतिष्‍यति सः खण्‍डशः भविष्‍यति। यस्‍मिन्‌ सः पाषाणः पतिष्‍यति, तं चूर्णयिष्‍यति।”
45-46महापुरोहिताः फरीसिनश्‍च अवागच्‍छन्‌ यत्‌ तस्‍य दृष्‍टान्‍तेन ते संबंधिताः सन्‍ति। ते येशुं धर्तुम्‌ ऐच्‍छन्‌, परन्‍तु जनेभ्‍यो विभ्‍यति स्‍म, यतः ते जनाः येशुं नबीम्‌ अमन्‍यन्‍त।

Currently Selected:

मत्ति 21: SANSKBSI

Tya elembo

Copy

Kokisana

Kabola

None

Olingi kobomba makomi na yo wapi otye elembo na baapareyi na yo nyonso? Kota to mpe Komisa nkombo