Logo YouVersion
Icona Cerca

मथिः 8

8
1यदा स पर्व्वताद् अवारोहत् तदा बहवो मानवास्तत्पश्चाद् वव्रजुः।
2एकः कुष्ठवान् आगत्य तं प्रणम्य बभाषे, हे प्रभो, यदि भवान् संमन्यते, तर्हि मां निरामयं कर्त्तुं शक्नोति।
3ततो यीशुः करं प्रसार्य्य तस्याङ्गं स्पृशन् व्याजहार, सम्मन्येऽहं त्वं निरामयो भव; तेन स तत्क्षणात् कुष्ठेनामोचि।
4ततो यीशुस्तं जगाद, अवधेहि कथामेतां कश्चिदपि मा ब्रूहि, किन्तु याजकस्य सन्निधिं गत्वा स्वात्मानं दर्शय मनुजेभ्यो निजनिरामयत्वं प्रमाणयितुं मूसानिरूपितं द्रव्यम् उत्सृज च।
5तदनन्तरं यीशुना कफर्नाहूम्नामनि नगरे प्रविष्टे कश्चित् शतसेनापतिस्तत्समीपम् आगत्य विनीय बभाषे,
6हे प्रभो, मदीय एको दासः पक्षाघातव्याधिना भृशं व्यथितः, सतु शयनीय आस्ते।
7तदानीं यीशुस्तस्मै कथितवान्, अहं गत्वा तं निरामयं करिष्यामि।
8ततः स शतसेनापतिः प्रत्यवदत्, हे प्रभो, भवान् यत् मम गेहमध्यं याति तद्योग्यभाजनं नाहमस्मि; वाङ्मात्रम् आदिशतु, तेनैव मम दासो निरामयो भविष्यति।
9यतो मयि परनिध्नेऽपि मम निदेशवश्याः कति कति सेनाः सन्ति, तत एकस्मिन् याहीत्युक्ते स याति, तदन्यस्मिन् एहीत्युक्ते स आयाति, तथा मम निजदासे कर्म्मैतत् कुर्व्वित्युक्ते स तत् करोति।
10तदानीं यीशुस्तस्यैतत् वचो निशम्य विस्मयापन्नोऽभूत्; निजपश्चाद्गामिनो मानवान् अवोच्च, युष्मान् तथ्यं वच्मि, इस्रायेलीयलोकानां मध्येऽपि नैतादृशो विश्वासो मया प्राप्तः।
11अन्यच्चाहं युष्मान् वदामि, बहवः पूर्व्वस्याः पश्चिमायाश्च दिश आगत्य इब्राहीमा इस्हाका याकूबा च साकम् मिलित्वा समुपवेक्ष्यन्ति;
12किन्तु यत्र स्थाने रोदनदन्तघर्षणे भवतस्तस्मिन् बहिर्भूततमिस्रे राज्यस्य सन्ताना निक्षेस्यन्ते।
13ततः परं यीशुस्तं शतसेनापतिं जगाद, याहि, तव प्रतीत्यनुसारतो मङ्गलं भूयात्; तदा तस्मिन्नेव दण्डे तदीयदासो निरामयो बभूव।
14अनन्तरं यीशुः पितरस्य गेहमुपस्थाय ज्वरेण पीडितां शयनीयस्थितां तस्य श्वश्रूं वीक्षाञ्चक्रे।
15ततस्तेन तस्याः करस्य स्पृष्टतवात् ज्वरस्तां तत्याज, तदा सा समुत्थाय तान् सिषेवे।
16अनन्तरं सन्ध्यायां सत्यां बहुशो भूतग्रस्तमनुजान् तस्य समीपम् आनिन्युः स च वाक्येन भूतान् त्याजयामास, सर्व्वप्रकारपीडितजनांश्च निरामयान् चकार;
17तस्मात्, सर्व्वा दुर्ब्बलतास्माकं तेनैव परिधारिता। अस्माकं सकलं व्याधिं सएव संगृहीतवान्। यदेतद्वचनं यिशयियभविष्यद्वादिनोक्तमासीत्, तत्तदा सफलमभवत्।
18अनन्तरं यीशुश्चतुर्दिक्षु जननिवहं विलोक्य तटिन्याः पारं यातुं शिष्यान् आदिदेश।
19तदानीम् एक उपाध्याय आगत्य कथितवान्, हे गुरो, भवान् यत्र यास्यति तत्राहमपि भवतः पश्चाद् यास्यामि।
20ततो यीशु र्जगाद, क्रोष्टुः स्थातुं स्थानं विद्यते, विहायसो विहङ्गमानां नीडानि च सन्ति; किन्तु मनुष्यपुत्रस्य शिरः स्थापयितुं स्थानं न विद्यते।
21अनन्तरम् अपर एकः शिष्यस्तं बभाषे, हे प्रभो, प्रथमतो मम पितरं श्मशाने निधातुं गमनार्थं माम् अनुमन्यस्व।
22ततो यीशुरुक्तवान् मृता मृतान् श्मशाने निदधतु, त्वं मम पश्चाद् आगच्छ।
23अनन्तरं तस्मिन् नावमारूढे तस्य शिष्यास्तत्पश्चात् जग्मुः।
24पश्चात् सागरस्य मध्यं तेषु गतेषु तादृशः प्रबलो झञ्भ्शनिल उदतिष्ठत्, येन महातरङ्ग उत्थाय तरणिं छादितवान्, किन्तु स निद्रित आसीत्।
25तदा शिष्या आगत्य तस्य निद्राभङ्गं कृत्वा कथयामासुः, हे प्रभो, वयं म्रियामहे, भवान् अस्माकं प्राणान् रक्षतु।
26तदा स तान् उक्तवान्, हे अल्पविश्वासिनो यूयं कुतो विभीथ? ततः स उत्थाय वातं सागरञ्च तर्जयामास, ततो निर्व्वातमभवत्।
27अपरं मनुजा विस्मयं विलोक्य कथयामासुः, अहो वातसरित्पती अस्य किमाज्ञाग्राहिणौ? कीदृशोऽयं मानवः।
28अनन्तरं स पारं गत्वा गिदेरीयदेशम् उपस्थितवान्; तदा द्वौ भूतग्रस्तमनुजौ श्मशानस्थानाद् बहि र्भूत्वा तं साक्षात् कृतवन्तौ, तावेतादृशौ प्रचण्डावास्तां यत् तेन स्थानेन कोपि यातुं नाशक्नोत्।
29तावुचैः कथयामासतुः, हे ईश्वरस्य सूनो यीशो, त्वया साकम् आवयोः कः सम्बन्धः? निरूपितकालात् प्रागेव किमावाभ्यां यातनां दातुम् अत्रागतोसि?
30तदानीं ताभ्यां किञ्चिद् दूरे वराहाणाम् एको महाव्रजोऽचरत्।
31ततो भूतौ तौ तस्यान्तिके विनीय कथयामासतुः, यद्यावां त्याजयसि, तर्हि वराहाणां मध्येव्रजम् आवां प्रेरय।
32तदा यीशुरवदत् यातं, अनन्तरं तौ यदा मनुजौ विहाय वराहान् आश्रितवन्तौ, तदा ते सर्व्वे वराहा उच्चस्थानात् महाजवेन धावन्तः सागरीयतोये मज्जन्तो मम्रुः।
33ततो वराहरक्षकाः पलायमाना मध्येनगरं तौ भूतग्रस्तौ प्रति यद्यद् अघटत, ताः सर्व्ववार्त्ता अवदन्।
34ततो नागरिकाः सर्व्वे मनुजा यीशुं साक्षात् कर्त्तुं बहिरायाताः तञ्च विलोक्य प्रार्थयाञ्चक्रिरे भवान् अस्माकं सीमातो यातु।

Attualmente Selezionati:

मथिः 8: SAN-DN

Evidenzia

Condividi

Confronta

Copia

None

Vuoi avere le tue evidenziazioni salvate su tutti i tuoi dispositivi?Iscriviti o accedi