Logo YouVersion
Icona Cerca

१ करिन्थिनः 12

12
1हे भ्रातरः, यूयं यद् आत्मिकान् दायान् अनवगतास्तिष्ठथ तदहं नाभिलषामि।
2पूर्व्वं भिन्नजातीया यूयं यद्वद् विनीतास्तद्वद् अवाक्प्रतिमानाम् अनुगामिन आध्बम् इति जानीथ।
3इति हेतोरहं युष्मभ्यं निवेदयामि, ईश्वरस्यात्मना भाषमाणः कोऽपि यीशुं शप्त इति न व्याहरति, पुनश्च पवित्रेणात्मना विनीतं विनान्यः कोऽपि यीशुं प्रभुरिति व्याहर्त्तुं न शक्नोति।
4दाया बहुविधाः किन्त्वेक आत्मा
5परिचर्य्याश्च बहुविधाः किन्त्वेकः प्रभुः।
6साधनानि बहुविधानि किन्तु सर्व्वेषु सर्व्वसाधक ईश्वर एकः।
7एकैकस्मै तस्यात्मनो दर्शनं परहितार्थं दीयते।
8एकस्मै तेनात्मना ज्ञानवाक्यं दीयते, अन्यस्मै तेनैवात्मनादिष्टं विद्यावाक्यम्,
9अन्यस्मै तेनैवात्मना विश्वासः, अन्यस्मै तेनैवात्मना स्वास्थ्यदानशक्तिः,
10अन्यस्मै दुःसाध्यसाधनशक्तिरन्यस्मै चेश्वरीयादेशः, अन्यस्मै चातिमानुषिकस्यादेशस्य विचारसामर्थ्यम्, अन्यस्मै परभाषाभाषणशक्तिरन्यस्मै च भाषार्थभाषणसामर्यं दीयते।
11एकेनाद्वितीयेनात्मना यथाभिलाषम् एकैकस्मै जनायैकैकं दानं वितरता तानि सर्व्वाणि साध्यन्ते।
12देह एकः सन्नपि यद्वद् बह्वङ्गयुक्तो भवति, तस्यैकस्य वपुषो ऽङ्गानां बहुत्वेन यद्वद् एकं वपु र्भवति, तद्वत् ख्रीष्टः।
13यतो हेतो र्यिहूदिभिन्नजातीयदासस्वतन्त्रा वयं सर्व्वे मज्जनेनैकेनात्मनैकदेहीकृताः सर्व्वे चैकात्मभुक्ता अभवाम।
14एकेनाङ्गेन वपु र्न भवति किन्तु बहुभिः।
15तत्र चरणं यदि वदेत् नाहं हस्तस्तस्मात् शरीरस्य भागो नास्मीति तर्ह्यनेन शरीरात् तस्य वियोगो न भवति।
16श्रोत्रं वा यदि वदेत् नाहं नयनं तस्मात् शरीरस्यांशो नास्मीति तर्ह्यनेन शरीरात् तस्य वियोगो न भवति।
17कृत्स्नं शरीरं यदि दर्शनेन्द्रियं भवेत् तर्हि श्रवणेन्द्रियं कुत्र स्थास्यति? तत् कृत्स्नं यदि वा श्रवणेन्द्रियं भवेत् तर्हि घ्रणेन्द्रियं कुत्र स्थास्यति?
18किन्त्विदानीम् ईश्वरेण यथाभिलषितं तथैवाङ्गप्रत्यङ्गानाम् एकैकं शरीरे स्थापितं।
19तत् कृत्स्नं यद्येकाङ्गरूपि भवेत् तर्हि शरीरे कुत्र स्थास्यति?
20तस्माद् अङ्गानि बहूनि सन्ति शरीरं त्वेकमेव।
21अतएव त्वया मम प्रयोजनं नास्तीति वाचं पाणिं वदितुं नयनं न शक्नोति, तथा युवाभ्यां मम प्रयोजनं नास्तीति मूर्द्धा चरणौ वदितुं न शक्नोतिः;
22वस्तुतस्तु विग्रहस्य यान्यङ्गान्यस्माभि र्दुर्ब्बलानि बुध्यन्ते तान्येव सप्रयोजनानि सन्ति।
23यानि च शरीरमध्येऽवमन्यानि बुध्यते तान्यस्माभिरधिकं शोभ्यन्ते। यानि च कुदृश्यानि तानि सुदृश्यतराणि क्रियन्ते
24किन्तु यानि स्वयं सुदृश्यानि तेषां शोभनम् निष्प्रयोजनं।
25शरीरमध्ये यद् भेदो न भवेत् किन्तु सर्व्वाण्यङ्गानि यद् ऐक्यभावेन सर्व्वेषां हितं चिन्तयन्ति तदर्थम् ईश्वरेणाप्रधानम् आदरणीयं कृत्वा शरीरं विरचितं।
26तस्माद् एकस्याङ्गस्य पीडायां जातायां सर्व्वाण्यङ्गानि तेन सह पीड्यन्ते, एकस्य समादरे जाते च सर्व्वाणि तेन सह संहृष्यन्ति।
27यूयञ्च ख्रीष्टस्य शरीरं, युष्माकम् एकैकश्च तस्यैकैकम् अङ्गं।
28केचित् केचित् समितावीश्वरेण प्रथमतः प्रेरिता द्वितीयत ईश्वरीयादेशवक्तारस्तृतीयत उपदेष्टारो नियुक्ताः, ततः परं केभ्योऽपि चित्रकार्य्यसाधनसामर्थ्यम् अनामयकरणशक्तिरुपकृतौ लोकशासने वा नैपुण्यं नानाभाषाभाषणसामर्थ्यं वा तेन व्यतारि।
29सर्व्वे किं प्रेरिताः? सर्व्वे किम् ईश्वरीयादेशवक्तारः? सर्व्वे किम् उपदेष्टारः? सर्व्वे किं चित्रकार्य्यसाधकाः?
30सर्व्वे किम् अनामयकरणशक्तियुक्ताः? सर्व्वे किं परभाषावादिनः? सर्व्वे वा किं परभाषार्थप्रकाशकाः?
31यूयं श्रेष्ठदायान् लब्धुं यतध्वं। अनेन यूयं मया सर्व्वोत्तममार्गं दर्शयितव्याः।

Evidenzia

Copia

Confronta

Condividi

None

Vuoi avere le tue evidenziazioni salvate su tutti i tuoi dispositivi?Iscriviti o accedi