मथिः 3
3
1तदानों योह्न्नामा मज्जयिता यिहूदीयदेशस्य प्रान्तरम् उपस्थाय प्रचारयन् कथयामास,
2मनांसि परावर्त्तयत, स्वर्गीयराजत्वं समीपमागतम्।
3परमेशस्य पन्थानं परिष्कुरुत सर्व्वतः। तस्य राजपथांश्चैव समीकुरुत सर्व्वथा। इत्येतत् प्रान्तरे वाक्यं वदतः कस्यचिद् रवः॥
4एतद्वचनं यिशयियभविष्यद्वादिना योहनमुद्दिश्य भाषितम्। योहनो वसनं महाङ्गरोमजं तस्य कटौ चर्म्मकटिबन्धनं; स च शूककीटान् मधु च भुक्तवान्।
5तदानीं यिरूशालम्नगरनिवासिनः सर्व्वे यिहूदिदेशीया यर्द्दन्तटिन्या उभयतटस्थाश्च मानवा बहिरागत्य तस्य समीपे
6स्वीयं स्वीयं दुरितम् अङ्गीकृत्य तस्यां यर्द्दनि तेन मज्जिता बभूवुः।
7अपरं बहून् फिरूशिनः सिदूकिनश्च मनुजान् मंक्तुं स्वसमीपम् आगच्छ्तो विलोक्य स तान् अभिदधौ, रे रे भुजगवंशा आगामीनः कोपात् पलायितुं युष्मान् कश्चेतितवान्?
8मनःपरावर्त्तनस्य समुचितं फलं फलत।
9किन्त्वस्माकं तात इब्राहीम् अस्तीति स्वेषु मनःसु चीन्तयन्तो मा व्याहरत। यतो युष्मान् अहं वदामि, ईश्वर एतेभ्यः पाषाणेभ्य इब्राहीमः सन्तानान् उत्पादयितुं शक्नोति।
10अपरं पादपानां मूले कुठार इदानीमपि लगन् आस्ते, तस्माद् यस्मिन् पादपे उत्तमं फलं न भवति, स कृत्तो मध्येऽग्निं निक्षेप्स्यते।
11अपरम् अहं मनःपरावर्त्तनसूचकेन मज्जनेन युष्मान् मज्जयामीति सत्यं, किन्तु मम पश्चाद् य आगच्छति, स मत्तोपि महान्, अहं तदीयोपानहौ वोढुमपि नहि योग्योस्मि, स युष्मान् वह्निरूपे पवित्र आत्मनि संमज्जयिष्यति।
12तस्य कारे सूर्प आस्ते, स स्वीयशस्यानि सम्यक् प्रस्फोट्य निजान् सकलगोधूमान् संगृह्य भाण्डागारे स्थापयिष्यति, किंन्तु सर्व्वाणि वुषाण्यनिर्व्वाणवह्निना दाहयिष्यति।
13अनन्तरं यीशु र्योहना मज्जितो भवितुं गालील्प्रदेशाद् यर्द्दनि तस्य समीपम् आजगाम।
14किन्तु योहन् तं निषिध्य बभाषे, त्वं किं मम समीपम् आगच्छसि? वरं त्वया मज्जनं मम प्रयोजनम् आस्ते।
15तदानीं यीशुः प्रत्यवोचत्; ईदानीम् अनुमन्यस्व, यत इत्थं सर्व्वधर्म्मसाधनम् अस्माकं कर्त्तव्यं, ततः सोऽन्वमन्यत।
16अनन्तरं यीशुरम्मसि मज्जितुः सन् तत्क्षणात् तोयमध्याद् उत्थाय जगाम, तदा जीमूतद्वारे मुक्ते जाते, स ईश्वरस्यात्मानं कपोतवद् अवरुह्य स्वोपर्य्यागच्छन्तं वीक्षाञ्चक्रे।
17अपरम् एष मम प्रियः पुत्र एतस्मिन्नेव मम महासन्तोष एतादृशी व्योमजा वाग् बभूव।
Jelenleg kiválasztva:
मथिः 3: SAN-DN
Kiemelés
Megosztás
Összehasonlít
Másolás
Szeretnéd, hogy a kiemeléseid minden eszközödön megjelenjenek? Regisztrálj vagy jelentkezz be
© SanskritBible.in । Licensed under Creative Commons Attribution-ShareAlike 4.0 International License.