मत्ति 4

4
प्रभोः परीक्षा
(मर 1:12-13; लूका 4:1-13)
1तदानीम्‌ आत्‍मा येशुम्‌ अतिनिर्जनस्‍थानं नीतवान्‌, येन शातनः येशोः परीक्षणम्‌ कुर्यात्‌। 2सः चत्‍वारिंशत्‌ दिवसान्‌ रात्रीः च अपि तथैव तत्र तस्‍थौ निराहारः क्षुधार्तः अभवत्‌। 3-4तदा परीक्षकः येशुम्‌ उपागम्‍य इदम्‌ अब्रवीत्‌ - “चेत्‌ ईश्‍वरस्‍य पुत्रः अस्‍ति भवान्‌ एतत्‌ ब्रवीतु यत्‌ अत्र ये प्रस्‍तराः, सर्वे ते सुरोटिकाः भवेयुः।” एतत्‌ आकर्ण्‍य येशुः तं परीक्षकम्‌ प्रति अवोचत्‌ - “लिखितम्‌ अस्‍ति यत्‌ मनुष्‍यः रोटिकया मात्रेण न जीवति। सः ईश्‍वरस्‍य मुखात्‌ निर्गतेन प्रत्‍येकेन वचनेन जीवति।”
5-6अथ सः शातनः येशुं पवित्रं नगरं निन्‍ये, मन्‍दिरस्‍य शिखरे च स्‍थापयित्‍वा तम्‌ इदम्‌ अब्रवीत्‌, भवान्‌ चेत्‌ ईश्‍वरस्‍य पुत्रः, अधः पततु। तव विषये लिखितम्‌ अस्‍ति - “सः स्‍वदूतान्‌ आदेक्ष्‍यति। ते करैः त्‍वां वक्ष्‍यन्‍ति, येन तव पादौ प्रस्‍तरैः आहतौ न स्‍याताम्‌।” 7येशुः तम्‌ आह “तत्र इदमपि लिखितम्‌ - “स्‍वप्रभोः ईश्‍वरस्‍य त्‍वं नैव परीक्षणम्‌ कुर्याः।”
8पुनः सः शातनः येशुम्‌ उन्‍नतगिरिम्‌ अनैषीत्‌। तं जगतः सर्वम्‌ राज्‍यं तस्‍य वैभवम्‌ च दर्शयन्‌ तं परीक्षितुम्‌ इच्‍छया इत्‍थं अब्रवीत्‌, 9“यदि भवान्‌ प्रणिपत्‍य माम्‌ आराधयति, तदा भवते सर्वराज्‍यानि तथा तेषां च वैभवम्‌ सर्वम्‌ एतत्‌ अहं प्रदास्‍ये।” 10तदा येशुः तं जगाद- “दूरम्‌ उत्‍सर शातन! यतो लिखितमस्‍ति यत्‌ स्‍वं प्रभुम्‌ ईश्‍वरं भज। तस्‍य एव केवलं श्रद्धया आराधनं कुर्याः।” 11एतत्‌ श्रुत्‍वा शातनः तं त्‍यक्‍त्‍वा दूरं गतवान्‌, स्‍वर्गदूताः आगत्‍य तम्‌ असेवन्‍त।
गलीले सेवाकार्यस्‍य आरंभः
(मर 1:14-15; लूका 4:14-15)
12येशुः यदा एतद्‌ अशृणोत्‌ यत्‌ योहनः निगृहीतोऽस्‍ति, तदा तस्‍मात्‌ प्रदेशात्‌ गलीलप्रदेशम्‌ आगतवान्‌। 13नासरतनगरं परित्‍यज्‍य जूबूलूनस्‍य तथा नेफ्‍तालिनः प्रान्‍ते समुद्रतटे स्‍थिते कफरनहूमनगरे वासम्‌ अकरोत्‌। 14इत्‍थम्‌ नबिनः यशायाहस्‍य इदं वाक्‍यं सिद्धम्‌ अभवत्‌ - 15“जूबूलूनस्‍य प्रदेशस्‍य नेफताल्‍यः कुलानां भूमिक्षेत्र! सागरतीरस्‍थे यर्दनस्‍य उत्तरे स्‍थिते स्‍थाने अयहूदिनां गलील! 16अन्‍धकारे स्‍थितैः लोकैः एका महाद्युतिः दृष्‍टा, मृत्‍योः तमोभये देशे ये मानवाः निवसन्‍ति, तेषाम्‌ उपरि ज्‍योतेः उदयः अभवत्‌।” 17ततः परं येशुः एभिः वचनैः जनान्‌ उपादिशत्‌ - “पश्‍चात्तापो विधीयताम्‌, स्‍वर्गस्‍य राज्‍यं पार्श्‍वे अस्‍ति।”
चतुर्णाम्‌ मत्‍स्‍यजीविनाम्‌ आह्‌वानम्‌
(मर 1:16-29; लूका 5:1-11)
18गलीलियास्‍थाब्‍धेः तटे परिभ्रमन्‌ येशुः सिमोनं पतरसम्‌ अमिधं, तथा तस्‍य सहोदरं अन्‍द्रेयसं द्वौ भ्रातरौ ददर्श। तौ जलधौ जालं क्षिपन्‍तौ, यतः तौ मत्‍स्‍यजीविनौ आस्‍ताम्‌। 19येशुः तौ भ्रातरौ प्राह - “युवाम्‌ माम्‌ अनुव्रजतम्‌, अहं युवां मनुजानां धीवरौ विधास्‍यामि।” 20ततो जालं विहाय तौ शीघ्रं तमनुजग्‍मतुः।
21अथ अग्रे गत्‍वा येशुः अन्‍यौ च बान्‍धवौ जे़बेदीपुत्रं याकूबं, योहनं तत्‍सहोदरम्‌ अपश्‍यत्‌। तौ उभौ पित्रा जेबेदिना सह नौकायां स्‍वीयजालानां जीर्णोद्धारस्‍य कर्मणि व्‍यापृतौ आस्‍ताम्‌। येशुः तौ आह्‌वयत्‌। 22तौ च सद्‌यः स्‍वकं कर्म, नावं च पितरं विहाय तम्‌ अनुजग्‍मतुः।
गलीलप्रदेशे सेवाकार्याय भ्रमणम्‌
(लूका 6:17-19)
23येशुः गलीलप्रदेशे इतस्‍ततः परिभ्रमन्‌ सभागृहेषु तत्रत्‍यान्‌ जनान्‌ सर्वान्‌ उपादिशत्‌। जनेषु राज्‍यस्‍य शुभसमाचारान्‌ प्रचारयत्‌, तेषां रोगान्‌ अशेषान्‌ दौर्बल्‍यं च अपि अनशयत्‌। 24तस्‍य ख्‍यातिः समस्‍तसीरियादेशे अवर्धत। नानारोगप्रपीडिता जनाश्‍च तम्‌ उपागच्‍छन्‌। अस्‍वस्‍थाः विविधैः रोगैस्‍तथा कष्‍टैः कदर्थिताः जनाः तस्‍य अन्‍तिकं जग्‍मुः, तेन ते स्‍वस्‍थीकृताः च। 25गलीलप्रदेशात्‌, दिकापोलिसात्‌, येरुसलेमात्‌ यहूदाप्रदेशात्‌ तथा यर्द्दनपारस्‍थाः जनाः येशोः अन्‍तिकम्‌ आगतवन्‍तः।

Jelenleg kiválasztva:

मत्ति 4: SANSKBSI

Kiemelés

Másolás

Összehasonlít

Megosztás

None

Szeretnéd, hogy a kiemeléseid minden eszközödön megjelenjenek? Regisztrálj vagy jelentkezz be