Logo YouVersion
Ikona vyhledávání

लूका 3

3
अग्रदूतो योहनो जलसंस्‍कारदाता
(मत्ती 3:1-12; मर 1:1-8; यूह 1:19-28)
1सम्राजः तिबेरियुसस्‍य शासनकालस्‍य पत्र्चदशवर्षे पोंतियुसः पिलातुसः यहूदियायाः राज्‍यपालः आसीत्‌; हेरोदेसः गलीलियायाः नृपः, तस्‍य भ्राता फिलिपः इतूरैयायाः तथा त्रखोनितिसस्‍य नृपः; लुसानियसः, अबिलेनेप्रदेशस्‍य राजा आसीत्‌। 2यदा अन्‍ना कैफसः च प्रधानपुरोहितौ आस्‍ताम्‌, तेषु दिनेषु जकर्याहस्‍य पुत्राय योहनाय निर्जनप्रदेशे प्रभोः वाणी अश्रूयत। 3ततः सः यर्दनस्‍यासन्‍नस्‍थानेषु परिभ्रमन्‌ पापक्षमायै पश्‍चात्तापं कर्तुं जलसंस्‍कारं ग्रहीतुम्‌ उपदिष्‍टवान्‌ च। 4यथा नबिनः यशायाहस्‍य पुस्‍तके लिखितमस्‍ति -
निर्जनप्रदेशे आह्‌वाहनकर्तुः स्‍वरः -
प्रभोः मार्गम्‌ प्रस्‍तुतं कुरुत;
तस्‍य पन्‍थानं ऋजुं कुरुत।
5सर्वाणि निम्‍नस्‍थानानि पूरयिष्‍यन्‍ते,
सर्वे पर्वताः शैलपादाश्‍च
निम्‍नाः कारिष्‍यन्‍ते,
कुटिलाः पन्‍थानः सरलाः च भविष्‍यन्‍ति
6सर्वे शरीरधारिणः परमेश्‍वरस्‍य
मुक्‍तिविधानं द्रक्ष्‍यन्‍ति।
7ये तस्‍मात्‌ जलसंस्‍कारं ग्रहीतुम्‌ आगतवन्‍तः, तान्‌ सः अवदत्‌ - “रे सर्पशावकाः! केन यूयं भावीक्रोधात्‌ पलायितुम्‌ विनिर्दिष्‍टाः? 8पश्‍चात्तापस्‍य उचितानि फलानि फलत। मनसि एतत्‌ न कथयत- ‘अब्राहमः अस्‍माकं पिता वर्तते।’ अहं युष्‍मान्‌ ब्रवीमि परमेश्‍वरः एतैः प्रस्‍तरैः अब्राहमाय पुत्रम्‌ उत्‍पन्‍नं कर्तुम्‌ शक्‍नोति। 9अधुना तरुणां मूलेषु कुठारः लग्‍नः वर्तते। अतः तरुणां यः सत्‍फलं न ददाति, सः समूलं समुच्‍छिद्‌य अग्‍नौ क्षिप्‍तः भविष्‍यति।”
10जनाः तम्‌ अपृच्‍छन्‌ - अस्‍माभिः किं कर्तव्‍यम्‌? 11तान्‌ प्रत्‍यभाषत - “यस्‍य परिधाने द्वे स्‍तः, असौ एकं तस्‍मै वस्‍त्रहीनाय दद्‌यात्‌। यस्‍य खाद्‌यानि वस्‍तूनि, सोऽपि तथैव कुर्यात्‌” 12शुल्‍कदायिनः अपि जलसंस्‍कारं गृहीतुम्‌ आगतवन्‍तः। ते तम्‌ अपृच्‍छन्‌, “गुरो! अस्‍माभिः किं कर्तव्‍यम्‌?” सः तान्‌ अकथयत्‌ - 13“युष्‍मदर्थम्‌ यथादिष्‍टं ततोऽधिकं न याचध्‍वम्‌।” 14सैनिकाः अपि तम्‌ अपृच्‍छन्‌ - “अस्‍माभिः किं कर्तव्‍यम्‌।” सः तान्‌ अब्रवीत्‌, “यूयं कमपि मा पीडयत। कस्‍मिंश्‍चित्‌ दोषारोपणं न कुरुध्‍वम्‌, स्‍वस्‍मिन्‌ वेतने सन्‍तोषेण तिष्‍ठत।”
15जनतासु औत्‍सुक्‍यम्‌ अवर्धत। सर्वे स्‍वस्‍मिन्‌ मनसि योहनस्‍य विषये अतर्कयन्‌, 16“एवं भाषमाणोऽयं मसीहः किं नु स्‍यादिति।” अतः तान्‌ योहनः प्राह - “अहं तु वः जलेन जलसंस्‍कारं ददामि परन्‍तु एकः मत्‍पश्‍चात्‌ आगमिष्‍यति, असौ मदधिकः शक्‍तिशाली वर्तते। अहम्‌ तु तस्‍य उपाहनयोः बन्‍धनमपि मोक्‍तुम्‌ अयोग्‍योऽस्‍मि। सः पवित्रात्‍मना तथा अग्‍निना जलसंस्‍कारं दास्‍यति। 17सः स्‍वीये करे शूर्पम्‌ गृहीतवान्‌ आस्‍ते, येन स्‍वकीयं खलु सम्‍यक्‌ संशोधयिष्‍यति। गोधूमान्‌ कुशूले संग्रहीष्‍यति, तुषान्‌ च अनिर्वाणस्‍य अग्‍नौ दाहयिष्‍यति।” 18इत्‍थम्‌ अन्‍यैः उपदेशैः योहनः सर्वान्‌ जनान्‌ शुभसमाचारम्‌ अश्रावयत्‌।
जलसंस्‍कारदातुः योहनस्‍य बन्‍धनम्‌
(मत्ती 14:3-14; मर 6:17-18)
19परन्‍तु यदा योहनः शासकं हेरोदेसं तस्‍य भ्रातुः पत्‍न्‍याः कारणात्‌ तथा तस्‍य सर्वेषाम्‌ कुकर्मणाम्‌ कारणात्‌ - “धिक्‌ त्‍वाम्‌” इति अकथयत्‌, 20तदा हेरोदेसः योहनं कारायां निरुध्‍य कुकर्मणाम्‌ पराकाष्‍ठां प्रापयत्‌।
प्रभोः येशोः जलसंस्‍कारः
(मत्ती 3:13-17; मर 1:9-11; यूह 1:32-34)
21सर्वेषु जलसंस्‍कारे गृहीतेषु येशुः अपि जलसंस्‍कारं गृहीतवान्‌। जलसंस्‍कारस्‍य अनन्‍तरं प्रभुः प्रार्थनां कुर्वन्‌ आसीत्‌, तस्‍मिन्‌ क्षणे स्‍वर्गद्वारम्‌ अपावृतम्‌। 22पवित्रात्‍मा कपोतरूपे मसीहस्‍य उपरि अवतीर्य अतिष्‍ठत्‌। स्‍वर्गतः इयं वाणी अश्रूयत - “त्‍वं मम प्रियपुत्रः असि, अहं त्‍वयि अति प्रसन्‍नोऽस्‍मि।”
वंशावली
(मत्ती 1:1-17)
23येशुः तदानीं त्रिंशवर्षकः युवकः आसीत्‌ यदा सः शुभसमाचारं श्रावयितुम्‌ आरब्‍धवान्‌। सर्वे जनाः तं यूसुफपुत्रम्‌ अवगच्‍छन्‌। 24यूसुफः एलीपुत्रः आसीत्‌, स च मत्तातस्‍य, सः लेबिनः, सः मलकिनः, सः यन्‍नईतः, सः यूसुफस्‍य, 25सः मत्तित्‍याहस्‍य, सः अमोसस्‍य, सः नहूमस्‍य, सः असल्‍याहस्‍य, सः नग्‍गईतः, 26सः महतस्‍य, सः मत्तित्‍याहस्‍य, सः शिमिनः, सः योसेरवस्‍य, सः योदाहस्‍य, 27सः योहानानस्‍य, सः रेसापुत्रः आसीत्‌, सः जरुब्‍वाबेलस्‍य, सः शालतिएलस्‍य, सः नेरीपुत्रः आसीत्‌, 28सः मलकिनः, सः अदि्‌दयः, सः कोसामस्‍य, सः एलम्‌दामस्‍य, सः एरस्‍य, 29सः यहोशुअस्‍य, सः एलीएजरस्‍य, सः योरीमस्‍य, सः मत्तातस्‍य, सः लेवीपुत्रः आसीत्‌, 30सः सिमोनस्‍य, सः यहूदापुत्रः आसीत्‌, सः यूसुफस्‍य, सः योनासस्‍य, सः एलयाकीमस्‍य 31सः मेलेआहस्‍य, सः मिन्‍नाहस्‍य, सः यत्ततापुत्रः आसीत्‌, सः नातानस्‍य, सः दाऊदस्‍य, 32सः यिशयस्‍य, सः ओबेदस्‍य, सः बोअजस्‍य, सः शेलहस्‍य, सः नहशोसस्‍य, 33सः अम्‍मीनादाबस्‍य, सः अदमीनस्‍य, सः अरनीपुत्रः आसीत्‌, सः हेस्रोनस्‍य, सः पेरेसस्‍य, सः यहूदापुत्रः आसीत्‌, 34सः याकूबस्‍य, सः इसहाकस्‍य, सः अब्राहमस्‍य, सः तेरहस्‍य, सः नाहोरस्‍य, 35सः सरुगस्‍य, सः रउवः, सः पेलगस्‍य, सः एबरस्‍य, सः शेलहस्‍य, 36सः केनानस्‍य, सः अर्पक्षदस्‍य, सः शेमस्‍य, सः नूहस्‍य, सः लामेकस्‍य, 37सः मथूशेलहस्‍य, सः हनोकस्‍य, सः यारेदस्‍य, स महल्‍लेलस्‍य, सः केनानस्‍य, 38सः एनोसस्‍य, सः शेतस्‍य, सः आदमस्‍य, स च परमेश्‍वरस्‍य पुत्रः आसीत्‌।

Právě zvoleno:

लूका 3: SANSKBSI

Zvýraznění

Sdílet

Kopírovat

None

Chceš mít své zvýrazněné verše uložené na všech zařízeních? Zaregistruj se nebo se přihlas