YouVersion 標識
搜索圖示

मथिः 23

23
1अनन्तरं यीशु र्जननिवहं शिष्यांश्चावदत्,
2अध्यापकाः फिरूशिनश्च मूसासने उपविशन्ति,
3अतस्ते युष्मान् यद्यत् मन्तुम् आज्ञापयन्ति, तत् मन्यध्वं पालयध्वञ्च, किन्तु तेषां कर्म्मानुरूपं कर्म्म न कुरुध्वं; यतस्तेषां वाक्यमात्रं सारं कार्य्ये किमपि नास्ति।
4ते दुर्व्वहान् गुरुतरान् भारान् बद्व्वा मनुष्याणां स्कन्धेपरि समर्पयन्ति, किन्तु स्वयमङ्गुल्यैकयापि न चालयन्ति।
5केवलं लोकदर्शनाय सर्व्वकर्म्माणि कुर्व्वन्ति; फलतः पट्टबन्धान् प्रसार्य्य धारयन्ति, स्ववस्त्रेषु च दीर्घग्रन्थीन् धारयन्ति;
6भोजनभवन उच्चस्थानं, भजनभवने प्रधानमासनं,
7हट्ठे नमस्कारं गुरुरिति सम्बोधनञ्चैतानि सर्व्वाणि वाञ्छन्ति।
8किन्तु यूयं गुरव इति सम्बोधनीया मा भवत, यतो युष्माकम् एकः ख्रीष्टएव गुरु
9र्यूयं सर्व्वे मिथो भ्रातरश्च। पुनः पृथिव्यां कमपि पितेति मा सम्बुध्यध्वं, यतो युष्माकमेकः स्वर्गस्थएव पिता।
10यूयं नायकेति सम्भाषिता मा भवत, यतो युष्माकमेकः ख्रीष्टएव नायकः।
11अपरं युष्माकं मध्ये यः पुमान् श्रेष्ठः स युष्मान् सेविष्यते।
12यतो यः स्वमुन्नमति, स नतः करिष्यते; किन्तु यः कश्चित् स्वमवनतं करोति, स उन्नतः करिष्यते।
13हन्त कपटिन उपाध्यायाः फिरूशिनश्च, यूयं मनुजानां समक्षं स्वर्गद्वारं रुन्ध, यूयं स्वयं तेन न प्रविशथ, प्रविविक्षूनपि वारयथ। वत कपटिन उपाध्यायाः फिरूशिनश्च यूयं छलाद् दीर्घं प्रार्थ्य विधवानां सर्व्वस्वं ग्रसथ, युष्माकं घोरतरदण्डो भविष्यति।
14हन्त कपटिन उपाध्यायाः फिरूशिनश्च, यूयमेकं स्वधर्म्मावलम्बिनं कर्त्तुं सागरं भूमण्डलञ्च प्रदक्षिणीकुरुथ,
15कञ्चन प्राप्य स्वतो द्विगुणनरकभाजनं तं कुरुथ।
16वत अन्धपथदर्शकाः सर्व्वे, यूयं वदथ, मन्दिरस्य शपथकरणात् किमपि न देयं; किन्तु मन्दिरस्थसुवर्णस्य शपथकरणाद् देयं।
17हे मूढा हे अन्धाः सुवर्णं तत्सुवर्णपावकमन्दिरम् एतयोरुभयो र्मध्ये किं श्रेयः?
18अन्यच्च वदथ, यज्ञवेद्याः शपथकरणात् किमपि न देयं, किन्तु तदुपरिस्थितस्य नैवेद्यस्य शपथकरणाद् देयं।
19हे मूढा हे अन्धाः, नैवेद्यं तन्नैवेद्यपावकवेदिरेतयोरुभयो र्मध्ये किं श्रेयः?
20अतः केनचिद् यज्ञवेद्याः शपथे कृते तदुपरिस्थस्य सर्व्वस्य शपथः क्रियते।
21केनचित् मन्दिरस्य शपथे कृते मन्दिरतन्निवासिनोः शपथः क्रियते।
22केनचित् स्वर्गस्य शपथे कृते ईश्वरीयसिंहासनतदुपर्य्युपविष्टयोः शपथः क्रियते।
23हन्त कपटिन उपाध्यायाः फिरूशिनश्च, यूयं पोदिनायाः सितच्छत्राया जीरकस्य च दशमांशान् दत्थ, किन्तु व्यवस्थाया गुरुतरान् न्यायदयाविश्वासान् परित्यजथ; इमे युष्माभिराचरणीया अमी च न लंघनीयाः।
24हे अन्धपथदर्शका यूयं मशकान् अपसारयथ, किन्तु महाङ्गान् ग्रसथ।
25हन्त कपटिन उपाध्यायाः फिरूशिनश्च, यूयं पानपात्राणां भोजनपात्राणाञ्च बहिः परिष्कुरुथ; किन्तु तदभ्यन्तरं दुरात्मतया कलुषेण च परिपूर्णमास्ते।
26हे अन्धाः फिरूशिलोका आदौ पानपात्राणां भोजनपात्राणाञ्चाभ्यन्तरं परिष्कुरुत, तेन तेषां बहिरपि परिष्कारिष्यते।
27हन्त कपटिन उपाध्यायाः फिरूशिनश्च, यूयं शुक्लीकृतश्मशानस्वरूपा भवथ, यथा श्मशानभवनस्य बहिश्चारु, किन्त्वभ्यन्तरं मृतलोकानां कीकशैः सर्व्वप्रकारमलेन च परिपूर्णम्;
28तथैव यूयमपि लोकानां समक्षं बहिर्धार्म्मिकाः किन्त्वन्तःकरणेषु केवलकापट्याधर्म्माभ्यां परिपूर्णाः।
29हा हा कपटिन उपाध्यायाः फिरूशिनश्च, यूयं भविष्यद्वादिनां श्मशानगेहं निर्म्माथ, साधूनां श्मशाननिकेतनं शोभयथ
30वदथ च यदि वयं स्वेषां पूर्व्वपुरुषाणां काल अस्थास्याम, तर्हि भविष्यद्वादिनां शोणितपातने तेषां सहभागिनो नाभविष्याम।
31अतो यूयं भविष्यद्वादिघातकानां सन्ताना इति स्वयमेव स्वेषां साक्ष्यं दत्थ।
32अतो यूयं निजपूर्व्वपुरुषाणां परिमाणपात्रं परिपूरयत।
33रे भुजगाः कृष्णभुजगवंशाः, यूयं कथं नरकदण्डाद् रक्षिष्यध्वे।
34पश्यत, युष्माकमन्तिकम् अहं भविष्यद्वादिनो बुद्धिमत उपाध्यायांश्च प्रेषयिष्यामि, किन्तु तेषां कतिपया युष्माभि र्घानिष्यन्ते, क्रुशे च घानिष्यन्ते, केचिद् भजनभवने कषाभिराघानिष्यन्ते, नगरे नगरे ताडिष्यन्ते च;
35तेन सत्पुरुषस्य हाबिलो रक्तपातमारभ्य बेरिखियः पुत्रं यं सिखरियं यूयं मन्दिरयज्ञवेद्यो र्मध्ये हतवन्तः, तदीयशोणितपातं यावद् अस्मिन् देशे यावतां साधुपुरुषाणां शोणितपातो ऽभवत् तत् सर्व्वेषामागसां दण्डा युष्मासु वर्त्तिष्यन्ते।
36अहं युष्मान्त तथ्यं वदामि, विद्यमानेऽस्मिन् पुरुषे सर्व्वे वर्त्तिष्यन्ते।
37हे यिरूशालम् हे यिरूशालम् नगरि त्वं भविष्यद्वादिनो हतवती, तव समीपं प्रेरितांश्च पाषाणैराहतवती, यथा कुक्कुटी शावकान् पक्षाधः संगृह्लाति, तथा तव सन्तानान् संग्रहीतुं अहं बहुवारम् ऐच्छं; किन्तु त्वं न सममन्यथाः।
38पश्यत यष्माकं वासस्थानम् उच्छिन्नं त्यक्ष्यते।
39अहं युष्मान् तथ्यं वदामि, यः परमेश्वरस्य नाम्नागच्छति, स धन्य इति वाणीं यावन्न वदिष्यथ, तावत् मां पुन र्न द्रक्ष्यथ।

醒目顯示

複製

對照

分享

None

想要在所有設備上保存你的醒目顯示嗎? 註冊或登入