मत्ति 13
13
बीजवप्तुः दृष्टान्तः
(मर 4:1-9; लूका 8:4-8)
1कस्मिंश्चिद् दिवसे येशुः गेहात् निर्गत्य समुद्रतटम् आगत्य आस्त। 2तस्य समीपं लोकानां महान् निचयः उपायातः, अतः नावि अरोहितवान्, समूहः तटे एव अतिष्ठत्।
3ततः दृष्टान्तवचनैः सः बहुविधाः वार्ताः अकथयत्। तेन कथितम् - “शृणुत! बीजानां वप्ता बीजानि वप्तुं निर्गतः। 4वपनकाले कानिचित् बीजानि मार्गस्य पार्श्वे अपतन्, नभसः खगैः तानि बीजानि भक्षितानि। 5अन्यानि बीजानि प्रस्तरैः आकीर्णभूतले पतितानि। यत्र तेषां कृते प्राचुर्येण मृत्तिका न आसीत्। मृत्तिकायाः गंभीरत्वस्य अभावात्, तानि अचिरेण प्ररूढ़ानि। 6समारूढे़ तु भास्करे प्लुष्टानि, मूलाभावात् च सद्यः शोषं गतानि। 7अपराणि तु बीजानि कण्टकेषु च न्यपतन्। किन्तु तानि कण्टकैः निरुद्ध्वा पीडितानि च। 8कानिचित् तु उत्तमभूमौ अपतन्, फलितानि च, कानिचित् तु शतगुणम्, अन्यानि षष्टिगुणम् अपराणि त्रिंशदगुणम्। 9यस्य श्रोत्रे स्तः, असौ शृणोतु।”
दृष्टान्तानां प्रयोजनम्
(मर 4:10-12; लूका 8:9-10)
10येशोः शिष्याः समागत्य तं पृष्टवन्तः, “भवान् इमान् लोकान् दृष्टान्तेषु किमर्थम् शिक्षयते?” 11सः प्रत्युतरत्, “युष्मभ्यम् स्वर्गराज्यस्य भेदान् ज्ञातुं समर्थता दत्ता आस्ते, किन्तु न एतेभ्यः, 12यतः हि यस्य विद्यते, तस्मै प्रदास्यते, तस्य पार्श्वे अत्यधिकः भविष्यति। यस्य पार्श्वे किंचित् अस्ति तस्मात् तत् अपि नेष्यते। 13अहं तेभ्यः दृष्टान्तेषु शिक्षये, यतः पश्यन्तः अपि न पश्यन्ति, शृण्वन्तः अपि न शृण्वन्ति न तु बुध्यन्ते। 14यशायाहस्य भविष्योक्तिः तेषु सिध्यति -
‘यूयं श्रुत्वापि नहि भोत्स्यध्वे।
अवलोक्यापि न अवलोकयिष्यथ।
15यतो सर्वे हतबुद्धयः जनाः
इमे स्वश्रोत्रैः श्रोतुम् न इच्छन्ति।
एतैः स्वनेत्राणि निमीलितानि,
कुत्रचित् एवं न भवेत् स्वनेत्रैः द्रक्ष्यन्ति
कर्णैः श्रोष्यन्ति
बुद्ध्या ज्ञास्यन्ति
मत् प्रति प्रत्यगमिष्यन्ति च
मया ते स्वस्थाः भविष्यन्ति।’
16युष्माकं नेत्राणि धन्यानि, यतः पश्यन्ति, धन्याः युष्माकं कर्णाः यतः ते शृण्वन्ति। 17अहं युष्मान् वदामि यूयं यत् पश्यथ, यत् च युष्माभिः कर्णैः संश्रूयते, तानि सर्वाणि श्रोतुं द्रष्टुं च अनेकाः नबिनः धार्मिकाश्च ऐच्छन्, परन्तु तैः न दृष्टम् न श्रुतम् च।
बीजवप्तुः दृष्टान्तस्य व्याख्या
(मर 4:14-20; लूका 8:11-15)
18“इदानीं यूयं वप्तुः दृष्टान्तं शृणुत। 19कश्चित् राज्यस्य वाक्यं शृण्वन् अपि न बुध्यते, तदा तस्य मनसि यत् उप्तं, दुष्टः आगत्य, समादाय च गच्छति, ते ईदृशाः जनाः सन्ति, ये पथः पार्श्वे उप्ताः। 20यानि बीजानि पाषाणभूमौ उप्तानि, ते नराः सन्ति ये वचनं श्रुत्वा एव प्रसन्नतया तत् गृह्णन्ति, 21परन्तु मूलस्य अभावे क्षणस्थिराः। वचनस्य कारणात् संकटेषु विचलिताः भवन्ति। 22यानि बीजानि कंटकेषु उप्तानि, ते जनाः सन्ति ये वचनं शृण्वन्ति, परन्तु धनस्य मोहः तथा सांसारिकी चिन्ता तत् वचनं पीडयतः, अतः निष्फलाः भवन्ति। 23बीजानि यानि उत्तमभूमौ उप्तानि ते सम्यक् उप्ताः नराः, ये वचनानि शृण्वन्ति, अवबुध्यन्ते च, फलयुक्ताः भवन्ति - कश्चित् शतगुणं कश्चित् षष्ठिगुणं, कश्चित् त्रिंशत् गुणम्। यस्य कर्णौ स्तः सः शृणोतु।”
गोधूमवन्यबीजयोः दृष्टान्तः
24येशुः तेषां समक्षे एकम् अन्यं दृष्टान्तं प्रस्तुतवान्, “स्वर्गस्य राज्यं तस्य मनुष्यस्य सदृशः अस्ति, येन स्वक्षेत्रे सुबीजम् उप्तम्। 25किन्तु लोकेषु सुप्तेषु, तस्य शत्रुः आगच्छत्, गोधूमेषु च वन्यानि बीजानि उप्त्वा जगाम। 26ततः शस्यानि प्ररुह्य फलवन्त्यानि अभवन्, तदा वन्यानि बीजानि अपि दृष्टिगोचराणि अभवन्। 27दासाः ततः स्वामिनं समागत्य इदम् अवदन्, “स्वामिन्! किं भवान् क्षेत्रे सुबीजानि न उप्तवान्? क्षेत्रे वन्यबीजानि कथं जातानि सन्ति? 28स्वामी तान् अब्रवीत् - वैरिणा केनचित् कृतम्। दासाः तं पुनः अपृच्छन्, किं भवान् इच्छति वयं वन्यबीजानां संग्रहं कुर्याम? 29स्वामी तान् प्रत्युत्तरितवान् - मा एवम् स्यात् यतः एवं न सम्भवेत्, युष्माभिः वन्यबीजानि संग्रहणसमये तैः सह सकलाः गोधूमाः अपि उन्मूलिताः करिष्यन्ते। उभयोः कर्त्तनं यावत् सहवृद्धेः प्रतीक्ष्यध्वम्। 30कर्त्तनस्य समये अहं कर्त्तकान् कथयिष्यामि प्रथमं वन्यबीजानि संगृह्णीत, ततः परम् तानि कूर्चेषु दाहनार्थम् बध्नीत, ततः गोधूमान् मम कुशूलेषु संगृह्णीत।”
सर्षपबीजम्
(मर 4:30-32; लूका 13:18-19)
31पुनः तेषां समक्षे एकं दृष्टान्तम् अभाषत, स्वर्गराज्यं सर्षपबीजेन सदृशम् वर्तते, यत् आदाय कश्चित् नरः आत्मनः क्षेत्रे उप्तवान्। 32एतत् तु सर्वबीजेषु क्षोदीयः, परन्तु वृद्ध्वा सर्वेभ्यः शस्येभ्यः वृहत् जायते, यस्य शाखासु खगाः निवसन्ति।
किण्वम्
(मर 4:33-34)
33येशुः तान् एकम् अन्यं दृष्टान्तम् अश्रावयत् “स्वर्गस्य राज्यं तेन किण्वेन सदृशम् अस्ति, तत् आदाय कयाचिद् योषिता द्रोणत्रयमितैः गोधूमचूर्णकैः सह सम्यक्तया मिश्रितवती, सकलं चूर्णकम् किण्वरूपेण अभवत्।”
दृष्टान्तवचसां प्रयोगः
(मर 4:33-34)
34येशुः दृष्टान्तवचनैः सर्वम् सर्वान् व्यबोधयत्। विना दृष्टान्तवचनं तान् किञिचत् न जगाद, 35येन नबिना प्रोक्तम एतत् वाक्यं पूर्णं व्रजेत् “अहं सर्वदा दृष्टान्तवाक्यानि व्याहरिष्यामि। आ जगत्सृष्टितः यत् गूढं वर्तते, तम् अहं प्रकटं करिष्यामि।”
वन्यबीजानां दृष्टान्तस्य व्याख्या
36सकलान् लोकान् विसृज्य येशुः गृहम् आगच्छत्। तस्य शिष्याः तम् उपेत्य बभाषिरे, प्रभो! क्षेत्रे वन्यबीजानां दृष्टान्तम् अस्मान् बोधय। 37येशुः तान् अब्रवीत् - “सुबीजानां वप्ता मानवपुत्रः, 38क्षेत्रं जगत्, 39वन्यबीजं वैरी दुष्टः; कर्त्तनम् जगतः अन्तः अस्ति, कर्त्तितारश्च स्वर्गस्य दूताः सन्ति। 40यथा जनाः वन्यानि बीजानि संगृह्य अग्नौ दाहयन्ति, तथैव जगतः अन्ते भविष्यति। 41मानवपुत्रः स्वीयान् स्वर्गदूतान् प्रेषयिष्यति। ते तस्य राज्यस्य सर्वान् अधार्मिकान् जनान् बाधकद्रव्यानि च संगृह्य अग्निकुण्डे प्रक्षेप्स्यन्ति। 42तत्र ते रोदनं दन्तघर्षणम् करिष्यन्ति। 43तदा धार्मिकाः स्वपितुः राज्ये सूर्यवत् भास्यन्ति। यस्य श्रोत्रे स्तः, सः शृणोतु।
गुप्तधनम्
44“स्वर्गराज्यं क्षेत्रे निगूढ़धनेन सदृशं वर्तते, यत् कश्चित् जनः लभते, पुनः तत्र निगूढ़यति। सः आनन्देन सह गच्छति, सर्वस्वं विक्रीय तत् क्षेत्रं क्रीणाति च।
बहुमूल्यमुक्ता
45“स्वर्गराज्यं पुनः तस्य वणिजः इव अस्ति, यः उत्तममुक्तानाम् अनुसंधाने आसीत्। 46यः एकां बहुमूल्यकाम् मुक्तामासाद्य सानन्दः प्रतिगच्छति। स्वं सर्वस्वं विक्रीय ताम् मुक्तां क्रीणाति।
जालस्य दृष्टान्तः
47“पुनः स्वर्गराज्यं तेन जालेन सदृशम् अस्ति, यत् सर्वविधान् मत्स्यकान् गृह्णाति। 48तस्य जाले पूर्णे सति मत्स्यजीविनः तत् तटम् आनयन्ति। तत्र ते उपविश्य सुमत्स्यकान् पात्रेषु संग्रह कुर्वन्ति, कुत्सितान् बहिः क्षिपन्ति। 49संसारस्य अन्ते एवमेव भविष्यति। स्वर्गदूताः गत्वा धार्मिकाणाम् मध्यतः दुष्टान् जनान् पृथक्कृत्य 50अग्निकुण्डके क्षेप्स्यन्ति। तत्र ते जनाः दन्तकान् दन्तैः धर्षिष्यन्ति रोदिष्यन्ति च।
प्राचीना तथा नूतना शिक्षा
51“किं यूयं सर्वम् एतद् अबुध्यध्वम्? शिष्याः तम् अकथयन् - “अस्माभिः ज्ञातं सर्वम्।” 52येशुः तान् उवाच - “प्रत्येकः शास्त्री यः स्वर्गराज्यस्य विषये शिक्षितः, असौ तेन गृहस्थेन सदृशः यः निजकोषतः पुराणानि नवानि च वस्तूनि निःसारयति।” 53दृष्टान्तेषु समाप्ते येशुः तत्रतः जगाम।
गृहनगरनासरतस्य यात्रा
(मर 6:1-6; लूका 4:16-30)
54येशुः स्वकं नगरम् आगतवान्, यत्र सः जनान् तेषां सभागृहे उपदिशति स्म। जनाः विस्मयभूताः अकथयन्, “अस्मै इदं ज्ञानम् सामर्थ्यञच कुत्रतः अलभेताम्? 55किम् असौ तक्ष्णः पुत्रः न वर्तते? किं मरिया अस्य माता न? किं याकूबः, यूसुफः, सिमोनः, यूदसः अस्य भ्रातरः न सन्ति? 56किं अस्य सर्वाः भगिन्यश्च अस्माकं मध्ये न सन्ति? तद् एतत् सर्वम् अस्मै कुत्रतः प्राप्तम्?” 57सर्वे येशौ विश्वासं कर्तुम् न अशक्नुवन्। येशुः तान् अवदत् - “स्वस्मिन् नगरे स्वके गेहे च नबिनः सम्मानः न भवति।” 58जनानाम् अविश्वासकारणात् बहवः चमत्काराः तेन न दर्शिताः।
Voafantina amin'izao fotoana izao:
मत्ति 13: SANSKBSI
Asongadina
Dika mitovy
Mampitaha
Hizara
Tianao hovoatahiry amin'ireo fitaovana ampiasainao rehetra ve ireo nasongadina? Hisoratra na Hiditra
Sanskrit New Testament
Copyright © 2015 by The Bible Society of India
Used by permission. All rights reserved worldwide.