Kisary famantarana ny YouVersion
Kisary fikarohana

मत्ति 12

12
विश्रामदिवसस्‍य प्रश्‍नः
(मर 2:23-28; लूका 6:1-5)
1येशुः विश्रामस्‍य एकस्‍मिन्‌ दिवसे गोधूमक्षेत्रेषु परिव्रजन्‌ आसीत्‌। तस्‍य शिष्‍याः क्षुधया अन्‍विताः जाताः, अतः ते गोधूममंजरीः भड्‌.क्‍त्‍वा भोजने सम्‍प्रवृत्ताः। 2एतत्‌ कार्यम्‌ समालोक्‍य फरीसिनः येशुम्‌ अकथयन्‌ - “भवान्‌ पश्‍यतु, यत्‌ कार्यम्‌ विश्रामदिवसे वर्जितम्‌, भवतः शिष्‍याः तत्‌ एव कार्यम्‌ कुर्वन्‍ति।” 3येशुः तान्‌ अब्रवीत्‌, “किं युष्‍माभिः इदम्‌ न पठितम्‌, यत्‌ यदा दाऊदः, तस्‍य संगिनश्‍च क्षुधाकुलाः आसन्‌, तदा दाऊदः किम्‌ अकरोत्‌? 4असौ प्रभुमन्‍दिरं गत्‍वा अर्पणस्‍य रोटिकाः खादितवान्‌। केवलं याजकेभ्‍यः रोटिकाः भोक्‍तुम्‌ अनुमतिः आसीत्‌। 5अथवा व्‍यवस्‍थायाम्‌ इदम्‌ न युष्‍माभिः पठितम्‌ यत्‌ याजकाः तस्‍य दिनस्‍य सर्वान्‌ नियमान्‌ लड्‌.घयित्‍वा अपि सर्वथा दोषरहिताः भवन्‍ति।
6”अहं त्‍वां ब्रवीमि - अत्र सः समुपस्‍थितः, यः मन्‍दिरात्‌ अपि महत्तरः वर्तते। 7अहं बलिदानं न, दयाम्‌ एव कामये - यदि यूयम्‌ अस्‍य तत्‍वम्‌ अज्ञास्‍यध्‍वम्‌, तदा निर्दोषिणः दोषिणः न अकरिष्‍यन्‍त, 8यतः मानवपुत्रः विश्रामदिवसस्‍य अपि स्‍वामी वर्तते।”
शुष्‍कहस्‍तः पुरुषः
(मर 3:1-7; लूका 6:6-11)
9तत्रतः अग्रे गत्‍वा येशुः फरीसिनाम्‌ सभागृहे अगच्‍छत्‌। 10तत्र एकः नरः आसीत्‌ यस्‍य हस्‍तः शुष्‍कः आसीत्‌। दोषारोपणकामिनः केचित्‌ जनाः येशुम्‌ अपृच्‍छन्‌, “किं विश्रामदिवसे कस्‍मै स्‍वास्‍थ्‍यदानस्‍य आज्ञा वर्तते?” 11येशुः तान्‌ अवदत्‌, “यदि युष्‍माकम्‌ एकः एव मेषः अस्‍ति, सोऽपि विश्रामवासरे गर्त्ते पतति चेत्‌, किं यूयं तं न निष्‍कासयिष्‍यथ? 12मानवः तु मेषात्‌ अपि विशिष्‍यते। अतः विश्रामदिवसे हितकरकार्यम्‌ कर्तुम्‌ अनुमतिः वर्तते।” 13अथ येशुः तं नरं प्रति उवाच “स्‍वं हस्‍तं प्रसारय”। सः स्‍वहस्‍तं प्रसारितवान्‌, तस्‍य हस्‍तः, अपरहस्‍त इव स्‍वस्‍थः अभवत्‌। 14सर्वे फरीसिनः इदं दृष्‍ट्‌वा मन्‍दिरात्‌ बहिः निर्गत्‍य येशोः सर्वनाशम्‌ अधिकृत्‍य मन्‍त्रणाम्‌ अकुर्वन्‌। 15येशुः एतत्‌ ज्ञात्‍वा तस्‍मात्‌ स्‍थानात्‌ प्रयातवान्‌।
मसीहस्‍य नम्रता
बहवः जनाः येशुना सह आसन्‌। 16सः सर्वान्‌ रोगग्रस्‍तान्‌ जनान्‌ निरामयान्‌ अकरोत्‌, परन्‍तु तान्‌ निर्दिशति स्‍म “युष्‍माभिः मम नाम न प्रसारितव्‍यम्‌।” 17इत्‍थं नबिनः यशायाहस्‍य इदं कथनं सिद्धम्‌ अभवत्‌ -
18“एषः मम सेवकः, एषः मया निर्वाचितः;
एषः मम परमप्रियः अस्‍ति, अहम्‌ अस्‍मिन्‌
अति प्रसन्‍नः अस्‍मि।
अहम्‌ अस्‍मै स्‍वात्‍मानम्‌ अर्पयिष्‍ये
अयम्‌ अयहूदिनां मध्‍ये सत्‍यधर्मस्‍य
प्रचारं करिष्‍यते।
19न तु विवादं करिष्‍यते, न तु
कोलाहलम्‌।
न तु विपणीषु कश्‍चित्‌ अस्‍य शब्‍दान्‌ श्रोष्‍यति।
20असौ न तु खंडवेतसं त्रुटिष्‍यति
न तु धूमायितदीपवर्त्तिम्‌ निर्वापयिष्‍यति,
यावत्‌ सत्‍यधर्मम्‌ विजयान्‍तिकं न नेष्‍यति।
21अस्‍य नाम्‍नि अयहूदीनाम्‌ जातयः आस्‍थां
विधास्‍यन्‍ति।”
येशौ आरोपः
(मर 3:22-27; लूका 11:14-23)
22कस्‍मिंश्‍चिद्‌ दिवसे जनाः एकम्‌ अन्‍धं तथा भूताविष्‍टं मूकं मनुष्‍यं येशोः समीपे आनयन्‌। येशुः सद्‌यः तं स्‍वस्‍थं चकार, सोऽपि तत्‍क्षणमेव द्रष्‍टुं वक्‍तुम्‌ च आरब्‍धवान्‌। 23सर्वे साश्‍चर्यम्‌ इदम्‌ अब्रुवन्‌, “किं दाऊदस्‍य पुत्रः असौ अयम्‌ एव हि वर्तते? 24तत्‌ श्रुत्‍वा फरीसिनः अवदन्‌, “असौ नरकदूतानां नायकस्‍य बअलजबुलस्‍य साहाय्‍येन भूतान्‌ निःसारयति।”
25येशुः तेषां मनोभावं ज्ञात्‍वा अवदत्‌, “यस्‍मिन्‌ राज्‍ये भिन्‍नत्‍वम्‌ आगच्‍छति, तत्‌ नष्‍टं भवति। 26यस्‍मिन्‌ गृहे, नगरे वा भिन्‍नत्‍वम्‌ आयाति, तत्‌ न स्‍थास्‍यते। 27चेत्‌ अहं बअलजबूलस्‍य साहाय्‍येन भूतान्‌ निःसारयामि तर्हि युष्‍माकम्‌ आत्‍मजाः कस्‍य साहाय्‍यम्‌ आश्रिताः तान्‌ भूतान्‌ निःसारयन्‍ति? अतः ते युष्‍माकं न्‍यायं करिष्‍यन्‍ति। 28परन्‍तु यदि अहं परमेश्‍वरस्‍य आत्‍मना भूतान्‌ निःसारयामि, तदा अवश्‍यम्‌ एव परमेश्‍वरस्‍य राज्‍यं युष्‍माकं समीपं समुपस्‍थितम्‌।
29“कः कस्‍यचिद्‌ बलिष्‍ठस्‍य गेहं प्रविश्‍य सर्ववस्‍तूनि लुण्‍ठितं शक्‍नोति, यावत्‌ सः तं न बध्‍नाति, तावत्‌ स तथा कर्तुम्‌ न शक्ष्‍यति।
30“यः मया सह न वर्तते, सः मम विरोधी अस्‍ति, यः मया सह न चिनोति, सः विकीर्यते।
पवित्रात्‍मनः विरुद्धं पापम्‌
(मर 3:28-30; लूका 12:10)
31“अतः युष्‍मान्‌ अहं ब्रवीमि - मनुष्‍याणां सर्वविधं पापं, प्रभोः निन्‍दा अपि क्षमिष्‍यते, परन्‍तु पूतात्‍मनः निन्‍दा न कदापि क्षमिष्‍यते। 32कश्‍चित्‌ मानवपुत्रस्‍य विरुद्धं यदि भाषते, असौ अपि क्षमिष्‍यते, परन्‍तु यः पवित्रात्‍मनः प्रतिकूले वदिष्‍यति, सः कदापि न क्षमिष्‍यते - न तु इहलोके न परलोके च।
फलेन तरोः अभिज्ञानम्‌
(लूका 6:43-45)
33“वृक्षं साधुः मन्‍यताम्‌, तस्‍य फलानि अपि, अथवा वृक्षम्‌ असाधुः मन्‍यताम्‌, तस्‍य फलानि च अपि। वृक्षः फलेन विज्ञायते। 34रे सर्पशावकाः ! यूयं दुष्‍टाः पुनः साधुः वचः वक्‍तुं कथं क्षमाः? यत्‌ हृदये वर्तते, तत्‌ एव मुखात्‌ बहिः निःसरति। 35साधुः स्‍वसाधुभांडारात्‌ सत्‌ वस्‍तु निःसारयति, असाधुः स्‍व असाधुतः भाण्‍डारात्‌ असत्‌ वस्‍तु च।
36“अहं युष्‍मान्‌ वदामि -न्‍यायस्‍य दिवसे मनुष्‍यैः स्‍वस्‍य वचसः एकैकस्‍य समुत्तरम्‌ प्रदातव्‍यं भविष्‍यति, 37यतः यूयं स्‍वकीयैः वचनैः एव निर्दोषाः अथवा दोषिणः भविष्‍यथ।”
नबिनः योनः चिह्‌नम्‌
(मर 8:11-12; लूका 11:29-32)
38तदानीं केचित्‌ शास्‍त्रिणः फरीसिनश्‍च येशुम्‌ अवदन्‌, “गुरो! किंचित्‌ तव अभिज्ञानं वयं द्रष्‍टुमुत्‍सुकाः।” 39येशुः तान्‌ प्रत्‍युवाच, “अयं दुष्‍टः अधार्मिकश्‍च अयं वंशः किंचित्‌ अभिज्ञानं द्रष्‍टुम्‌ इच्‍छति, किन्‍तु नबिनः योनः अभिज्ञानतः, किंचित्‌ अन्‍यम्‌ अभिज्ञानं न दास्‍यते। 40यथा दिनत्रयं रात्रित्रयं च योनाः मत्‍स्‍यस्‍य उदरस्‍य अभ्‍यन्‍तरे अवस्‍थितः आसीत्‌, तथा मानवपुत्रः अपि दिनत्रयं, रात्रित्रयं च भूमेः गर्भे स्‍थास्‍यति। 41न्‍यायस्‍य दिवसे नीनिवेस्‍थानवासिनः अनेन वंशेन सह उत्‍थास्‍यन्‍ति, तं दोषिणं करिष्‍यन्‍ति, यतः ते योनः उपदेशं श्रुत्‍वा पश्‍चात्तापम्‌ चक्रुः, पश्‍यतु च - अत्र सः वर्तते, यः योनः अपि महत्तरः। 42न्‍यायस्‍य दिवसे दक्षिणस्‍य राज्ञी, अनेन वंशेन सहैव पुनजीर्विता भविष्‍यति, तं च वंशं दोषिणं करिष्‍यति; यतः सा सुलेमानस्‍य प्रज्ञां श्रोतुं भुवः सीमान्‍तेभ्‍यः आगच्‍छत्‌, पश्‍यतु च - अत्र सः वर्तते यः सुलेमानात्‌ अपि महत्तरः।
अशुद्धात्‍मनः आक्रमणम्‌
(लूका 11:24-26)
43“यदि अशुद्धात्‍मा कस्‍यापि शरीरात्‌ निःसरति, तदा निर्जलस्‍थले पर्यटन्‌ विश्रामं अन्‍विष्‍यति; किन्‍तु तस्‍मै विश्रामः न लभते। 44तदा असौ वदति - यस्‍मात्‌ गृहात्‌ निर्गतः अहं तत्र पुनः प्रतिगच्‍छामि। प्रतिगत्‍य सः तत्‌ गेहं सुमार्जितम्‌, शून्‍यं सुसज्‍जितं वीक्षते। 45तदा असौ गत्‍वा आत्‍मनः अपि अपरान्‌ सप्‍त दुष्‍टतरान्‌ आनयति। ते तत्रैव प्रविश्‍य निवसन्‍ति। इत्‍थं तस्‍य मनुष्‍यस्‍य इयम्‌ अन्‍तिमा दशा, पूर्वदशायाः अपि निकृष्‍टा भवति। एतस्‍य दुष्‍टस्‍य वंशस्‍य अपि दशा तादृशी भविष्‍यति।”
येशोः वास्‍तविकाः सम्‍बन्‍धिनः
(मर 3:31-35; लूका 8:19-21)
46येशुः जनान्‌ उपदिशन्‌ आसीत्‌, तदा तं तस्‍य माता, भ्राता च द्रष्‍टुम्‌ आगतवन्‍तौ, तौ गेहात्‌ बहिः स्‍थितौ, तं मिलितुम्‌ ऐच्‍छताम्‌। 47कश्‍चिद्‌ येशुम्‌ उपगम्‍य इमां सूचनाम्‌ अददात्‌, “पश्‍य, भवतः माता, भ्राता च बहिः उपस्‍थितौ। तौ भवन्‍तं दिदृक्षेते।” 48इदं श्रुत्‍वा येशुः अब्रवीत्‌ “का मे माता अथवा कः भ्राता? 49हस्‍तेन शिष्‍यान्‌ उद्दिश्‍य असौ अवदत्‌, “पश्‍यत! इमे जनाः मम माता, भ्राता च सन्‍ति! 50यतः यः मम स्‍वर्गिकपितुः आज्ञां पालयति, सः एव मम भ्राता, मम भगिनी मम माता च अस्‍ति।”

Voafantina amin'izao fotoana izao:

मत्ति 12: SANSKBSI

Asongadina

Dika mitovy

Mampitaha

Hizara

None

Tianao hovoatahiry amin'ireo fitaovana ampiasainao rehetra ve ireo nasongadina? Hisoratra na Hiditra

Horonantsary ho an'i मत्ति 12