1
प्रेरिताः 5:29
सत्यवेदः। Sanskrit NT in Devanagari
SAN-DN
ततः पितरोन्यप्रेरिताश्च प्रत्यवदन् मानुषस्याज्ञाग्रहणाद् ईश्वरस्याज्ञाग्रहणम् अस्माकमुचितम्।
Confronta
Esplora प्रेरिताः 5:29
2
प्रेरिताः 5:42
ततः परं प्रतिदिनं मन्दिरे गृहे गृहे चाविश्रामम् उपदिश्य यीशुख्रीष्टस्य सुसंवादं प्रचारितवन्तः।
Esplora प्रेरिताः 5:42
3
प्रेरिताः 5:3-5
तस्मात् पितरोकथयत् हे अनानिय भूमे र्मूल्यं किञ्चित् सङ्गोप्य स्थापयितुं पवित्रस्यात्मनः सन्निधौ मृषावाक्यं कथयितुञ्च शैतान् कुतस्तवान्तःकरणे प्रवृत्तिमजनयत्? सा भूमि र्यदा तव हस्तगता तदा किं तव स्वीया नासीत्? तर्हि स्वान्तःकरणे कुत एतादृशी कुकल्पना त्वया कृता? त्वं केवलमनुष्यस्य निकटे मृषावाक्यं नावादीः किन्त्वीश्वरस्य निकटेऽपि। एतां कथां श्रुत्वैव सोऽनानियो भूमौ पतन् प्राणान् अत्यजत्, तद्वृत्तान्तं यावन्तो लोका अशृण्वन् तेषां सर्व्वेषां महाभयम् अजायत्।
Esplora प्रेरिताः 5:3-5
4
प्रेरिताः 5:38-39
अधुना वदामि, यूयम् एतान् मनुष्यान् प्रति किमपि न कृत्वा क्षान्ता भवत, यत एष सङ्कल्प एतत् कर्म्म च यदि मनुष्यादभवत् तर्हि विफलं भविष्यति। यदीश्वरादभवत् तर्हि यूयं तस्यान्यथा कर्त्तुं न शक्ष्यथ, वरम् ईश्वररोधका भविष्यथ।
Esplora प्रेरिताः 5:38-39