मत्ति 18
18
स्वर्गराज्ये कः महान्?
(मर 9:33-37; लूका 9:46-48)
1तस्मिन् समये शिष्याः उपागम्य येशुम् प्रपच्छुः, “स्वर्गराज्ये कः सर्वमहान् वर्तते?” 2एतद् श्रुत्वा येशुः एकं बालकम् आहूय, तेषां मध्ये तं स्थापयित्वा अब्रवीत्, 3“अहं युष्मान् सत्यं वदामि, यूयं चेत् लघुबालकाः यथा पुनः न भवथ तर्हि यूयं स्वर्गराज्ये प्रवेशं न प्राप्स्यथ। 4अतः यः कश्चित् आत्मानं लघुबालकं मन्यते, सः एव नरः स्वर्गराज्ये सर्वमहान् खलु। 5यः कश्चित् तु मदीयेन नाम्ना ईदृशम् बालकं स्वागतं करोति, सः तु मम स्वागतं करोति।”
अन्येभ्यः अनुचितमुदाहरणम्
(मर 9:42-47; लूका 17:1-2)
6ये मयि विश्वासं प्रकुर्वन्ति, लघवः बालकाः, यदि कश्चन तेषु कस्यचित् एकस्य कृतेऽपि पापस्य हेतुः भवति, तर्हि तस्मै उचितं भवेत्, पेषणीबन्धनं कंठे कृत्वा समुद्रे च निमज्जनम्। 7प्रलोभनानां हेत्वर्थम् जगत् धिक्कारम्। प्रलोभनं जगति अनिवार्यम् अस्ति, किन्तु धिक्कारः तं पुरुषम् यः प्रलोभनस्य कारणम् भवति।
8यदि तव हस्तः अथवा चरणम् तव अपराधस्य हेतुः स्यात्, तर्हि तं छित्त्वा सत्वरम् दूरं निक्षिप। प्रवेशः जीवने श्रेयान् ते खत्र्जस्य अथवा कुणेः। किन्तु हस्तद्वयोपेतस्य पादद्वयेन वा युक्तस्य ते निपातः न श्रेयान्, अग्नौ अनन्तके। 9तथैव ते अपराधस्य तव चक्षुः कारणं यदि, तर्हि तत् त्वं समुत्पाट्य दूरं सत्वरम् निक्षिप। प्रवेशो जीवने श्रेयान् काणस्य एव, नेत्रद्वयसम्पन्नस्य अग्नौ निपातः न श्रेयस्करः विद्यते। 10यूयं सदैव वर्तध्वं सावधानतया तथा न एकम् अपि अवमन्यध्वं लघुबालेषु अमीषु। अहं ब्रवीमि - तेषां दूताः स्वर्गे निरन्तरं मम स्वर्गिकपितुः दर्शनं कुर्वन्ति।”
भ्रान्तः मेषः
(लूका 15:3-4)
11“(नष्टस्य रक्षणार्थम् हि मानवपुत्रः आगतः)। 12युष्माकं कः विचारः वर्तते - कस्यचित् पुरुषस्य चेत् शतमेषाः भवन्तु, तेषु एकः अपि भ्रान्तः भवेत्, तदा किं सः एकोनशतं मेषान् गिरौ त्यक्त्वा, भ्रान्तं मेषम् अन्वेष्टुं न प्रयतिष्यते? 13यदि भ्रान्तं मेषं लभते, अहं विश्वासं दापयामि, तस्मै एकोनशतमेषेभ्यः अपि महत्तरः आनन्दः भविष्यति। 14इत्थम् एव मम स्वर्गस्थः पिता न इच्छति तेषु लघुबालेषु कोऽपि नष्टः भवेत्।”
भ्रातुः भगिन्याः च परिष्कारः
(लूका 17:3)
15“यदि तव भ्राता कश्चिदपराधं करोति चेत्, तर्हि तं निभृतं गत्वा प्रबोधय। सः चेत् तव वचनं मन्यते, तर्हि त्वया सः सुरक्षितः, 16परन्तु यदि असौ न मन्यते, तदा द्वित्रान् जनान् स्वेन सह गृहाण, येन द्वित्रैः साक्षिभिः सर्वम् प्रमाणितं स्यात्। 17यदि सः तेषाम् अपि वचनं न शृणोति, तदा कलीसियां ज्ञापय, यदि कलीसियायाः वचनमपि न मन्यते, तदा स्वजातितः पृथक् शुल्कग्राही जनः यथा मनस्व।
18“अहं युष्मान् ब्रवीमि - युष्माभिः यस्य भूतले निषेधः करिष्यते, सः स्वर्गलोके अपि निषेत्स्यते। तथैव पृथिव्यां यं जनम् अनुमतिं दास्यथ स्वर्गलोके अपि तस्य अनुमतिः भविष्यति।”
सामूहिकी प्रार्थना
19“अहं युष्मान् इदम् अपि ब्रवीमि - युष्मासु द्वौ नरौ यदि पृथिव्यां एकमतौ भूत्वा किंचित् वस्तु याचेथे, तत् ताभ्यां मम स्वर्गस्थात् पितृतः अवश्यमेव लप्स्यते; 20यतः यत्र कुत्र अपि द्वौ जनौ वा त्रयः मम नाम्नि समुपस्थिताः भवन्ति, तत्र तेषां मध्ये अहं तिष्ठामि।”
अपराधक्षमा
(लूका 17:4)
21तदा पतरसः येशुम् एवम् अवदत्, “प्रभो! यदि मम भ्राता स्वसा वा मत्प्रतिकूलं चेत् अपराध्यति, मया असौ कतिवारं क्षन्तव्यः, किं सप्तवारं यावत्?” 22येशुः तं प्रति अभाषत, “अहं त्वां ब्रवीमि - न सप्तवारम्, परन्तु सप्ततिगुणं सप्तवारम् इति।”
निर्दयसवेकस्य दृष्टान्तः
23“इदं च कारणम् अस्ति यत् स्वर्गराज्यं तेन नृपेण सदृशम् अस्ति, यः स्वसेवकैः गणनां प्राप्तुम् ऐच्छत्। 24तस्मिन् गणनां कर्तुम् आरब्धवति, सेवकः लक्षमुद्राणां ऋणी, तस्य स्वामिनः अन्तिकम् आनीतः, 25परन्तु तत्पार्श्वे ऋणम् परिशोधयितुम् किंचित् साधनं न आसीत्। अतः स्वामी समादिशत् तस्य, तस्य च भार्यायाः, तथा तस्य च सन्ततेः सर्वस्वस्य अपि द्रुतम् विक्रयं विधाय, तस्य तेन एव मूल्येन ऋणशोधः विधीयताम्। 26ततः सः प्रभोः पादयोः निपत्य अनुनयं चक्रे, समयं देहि, येन अहं तव सकलं ऋणं प्रत्यर्ययिष्यामि। 27प्रभुः तं सेवकम् अनुकम्पय तस्य ऋणम् अक्षमत, तम् व्यसृजत च। 28असौ सेवकः विर्निगत्य स्वसेवकम् अपश्यत् यः तस्य शतस्य मुद्राणां ऋणप्रदः आसीत्। सः तं धृत्वा, तस्य कण्ठदेशं न्यपीडयत्, जगाद च, त्वं महयम् यत् धार्यते, प्रयच्छ। 29सः सेवकः तस्य चरणयोः निपत्य सानुनयं तं बभाषे - समयः मे ददीत। अहं यद् तव धारयामि सर्वम् प्रत्यर्पयिष्यामि। 30परन्तु तस्य अनुनयं निरादृत्य सः सेवकः तं कारायां निचिक्षेप, यावत् ऋणशोधनम् स्यात्। 31तस्य आचारं दृष्ट्वा ते च अन्ये सहसेवकाः विषण्णाः जाताः स्वामिनः पार्श्वम् गत्वा सर्वम् न्यवेदयन्। 32तदा स्वामी तं सेवकं प्रोक्तवान्, दुष्टसेवक! तव अनुनयं विनयं श्रुत्वा तव ऋणं सर्वम् अहम् अक्षमे। 33तत् किं त्वया तथा कर्तव्यः न आसीत् सह-सेवके यथा कृपा मया पूर्वम् कृतः आसीत् त्वयि सेवके? 34ततः सः स्वामी तं सेवकाय अक्रुध्यत्, यावद् यद् धारितं तेनं सर्वम् सर्वांशतः न तत् परिशोधयते तावद् वधकानां समर्पयत्। 35यदि युष्मासु हृदयेन प्रत्येकं स्वं भ्रातरं अपराधं न क्षमते, तर्हि मे स्वर्गस्थः पिता स्वभ्रात्रृन् प्रति युष्माभिः यथा व्यवहारः कृतः तथैव युष्मान् प्रति अपि व्यवहारं करिष्यति।”
Valið núna:
मत्ति 18: SANSKBSI
Áherslumerki
Afrita
Bera saman
Deildu
Viltu vista áherslurnar þínar í öllum tækjunum þínum? Skráðu þig eða skráðu þig inn
Sanskrit New Testament
Copyright © 2015 by The Bible Society of India
Used by permission. All rights reserved worldwide.