मारकुस 3
3
शुष्कहस्तः पुरुषः
(मत्ती 12:9-14; लूका 6:6-11)
1येशुः पुनः सभागृहम् प्रविवेश। कश्चित् शुष्ककरः नरः तत्र समासीनः आसीत्। 2जनाः एतद् पश्यन्तः आसन् यत् येशुः विश्रामदिने इमं शुष्कहस्तं रुग्णं नीरोगं कुरुते न वा। एतेन कार्येण येशुम् अपराधिनम् मत्वा तम् अभियोक्तुम् ऐच्छन्। 3येशुः तं रोगिणम् अवदत्, “मध्यस्थाने उत्तिष्ठ।” 4येशुः तान् अपृच्छत् “विश्रामदिवसे खलु हितं कर्तव्यम्, किमु अहितं कर्तव्यम्? प्राणरक्षा समुचिता किं वा प्राणविनाशनम्?” ते मौनाः अतिष्ठन्। 5तेषां हृदयस्य कठोरतां दृष्ट्वा, येशुः दुखितः भूत्वा, तान् सक्रोधं विलोकयन् तं नरम् अवदत्, “स्वहस्तं प्रसारय।” तेन हस्तः प्रसारितः, तस्य हस्तः स्वस्थः अभवत्। 6ततः फरीसिनः मन्दिरात् निर्गत्य हेरोदेसस्य दलेन सह येशोः विरोधे मन्त्रणां कृतवन्तः, कथं तस्यः वधः भवेत्।
सरसः तीरे महान् जनसमूहः
(मत्ती 4:23-25; 12:15-16; लूका 6:17-19)
7येशुः स्वशिष्यैः साकम् सरसः तटं ययौ। गलीलप्रदेशात् एकः विशालः जनसमूहः अनुयातवान्। 8येरुसलेमतः, इदूमियातः, यर्दनपारस्थात्, सोरसीदोनयोः पार्श्वतः बहवः जनाः तस्य समीपं समागताः, यतः ते तस्य कार्याणां विषये अशृण्वन्। 9जनानां सम्मर्दात् आत्मनः रक्षणाय, सः शिष्यान् अवदत्, द्रुतम् एकां नौकां प्रस्तुताम् कुरुत, 10यतः असौ रोगिणः अनेकान् व्याधिमुक्तान् अकरोत्, सर्वे व्याधिप्रपीडिताः तं स्प्रष्टुं तस्मिन् अपतन्। 11-12अशुद्धात्मानः येशुं पश्यन्तः एव दण्डवद् कृत्वा भूमौ निपत्य क्रोशन्ति स्म “भवान् ईशपुत्रः विद्यते’’; तान् रोगिणः निर्दिष्टवान्, “यूयं मां नैव व्यक्तीकुरुत कदाचन।”
द्वादशप्रेरितानां चयनम्
(मत्ती 10:1-4; लूका 12:16)
13येशुः गिरिम् आरोहितवान्। सः यान् ऐच्छत्, तान् स्वयं समीपम् आह्वयत्। ते तस्य समीपे आगच्छन्। 14-15तेषु सर्वेषु द्वादशान् नियुक्तवान्, येन ते तेन साद्र्धम् वर्त्तेरन्, सः तेभ्यः भूतान् अपसारणाय च अधिकृत्य, शुभसमाचारस्य प्रचारार्थम् लोकेषु प्रेषयेत्।
16येशुना द्वादशैतान् नियुक्ताः - सिमोनः, यस्य नाम तेन पतरसः दत्तम्, 17जेबेदिनः पुत्रः याकूबः, तस्य भ्राता योहनः, तयोः नाम सः बुअनेरगिसः अर्थात् गर्जनस्य पुत्रौ इति अददात्; 18अन्द्रेयसः, फिलिपः, बरतोलोमी, मत्ती, थोमसः, हलफईपुत्रः याकूबः, थद्देयुसः, सिमोनः यः उत्साही कथ्यते, 19यूदसः इस्करियोती यः येशुम् अग्राहयत् च।
येशोः सम्बन्धिनः
20गृहे प्रत्यागते पुनः तत्र जनानां निवहः अभवत्, येन ते भोक्तुम् अपि न शेकुः। 21यदा येशोः सम्बन्धिनः एतत् अशृण्वन्, तदा ते येशुम् बलात् धर्तुम् समायाताः, यतः इदम् कथ्यते स्म येशुः स्वचिन्तां न करोति स्म।
पवित्रात्मा अथवा दुष्टस्य आत्मा?
(मत्ती 12:24-29; लूका 11:14-22)
22येरुसलेमतः आगताः शास्त्रिणः वदन्ति स्म, “तस्मै बेलज़ेबुलः सिद्धः वर्तते।” अयं च अपदूतानां नायकस्य सहायतया नरकदूतान् निःसारयति। 23येशुः तान् समाहूय इदं दृष्टान्तम् अश्रावयत्, “दुष्टः हि दुष्टं कथं निःसारणे क्षमः?”
24यदि कस्मिन् राज्ये भेदगतं स्यात्, तदा तत् राज्यं स्थातुं न शक्नोति। 25तथा गृहम् अपि भिदां गतम् न स्थातुं शक्नोति। 26यदि दुष्टः आत्मविरुद्धं विद्रोहं कुरुते, तत्र भेदः अभवत्, तदा सः स्थातुं न शक्नोति, तस्य सर्वनाशः भवति।
27कश्चित् कस्यापि बलिनः गृहं प्रविश्य तस्य धनं हर्तुम् न शक्नोति, यावत् तं न बध्नाति।
पवित्रात्मनः विरुद्धे पापम्
(मत्ती 12:31-32; लूका 1:2-10)
28“अहं युष्मान् वदामि, मानवाः यानि पापानि, ईशनिन्दां वा कुर्वन्ति, क्षंस्यन्ते। 29किन्तु यः मानवः पूतात्मनः निन्दां करोति, नासौ कदापि क्षंस्यते, असौ अनन्तं दण्डमेष्यति।” 30यतः केचन् एषः अपदूतस्य सिद्धिमान् इति कथयन्ति स्म, अतः येशुः एतद् अभाषत।
येशोः वास्तविकाः सम्बन्धिनः
(मत्ती 12:46-50; लूका 8:19-21)
31एकस्मिन् दिने येशोः माता, भ्रातरश्च आगतवन्तः। 32जनाः तं परितः समासीनाः आसन्। ते येशुम् अवदन्, “वीक्षतां, भवतः माता भ्रातरश्च बहिः स्थिताः, अन्विष्यन्ति च। 33येशुः तान् उवाच, “का मे माता, के मम भ्रातारश्च?” 34ततः तं परितः सर्वान् आसीनान् वीक्ष्य सोऽब्रवीत्, “इमे सन्ति मम माता भ्रातरश्च। 35यः परमेश्वरस्य इच्छां परिपालयते, सः एव मे भ्राता, मम भगिनी, मम माता च।”
Actualmente seleccionado:
मारकुस 3: SANSKBSI
Destacar
Compartir
Copiar

¿Quieres tener guardados todos tus destacados en todos tus dispositivos? Regístrate o inicia sesión
Sanskrit New Testament
Copyright © 2015 by The Bible Society of India
Used by permission. All rights reserved worldwide.

: