Logo de YouVersion
Icono de búsqueda

लूका 7:7-9

लूका 7:7-9 SANSKBSI

अहं न योग्‍यः अस्‍मि यद्‌ भवान्‌ मम गृहम्‌ आगच्‍छेत्‌, अहं न योग्‍यः अस्‍मि भवतः दर्शनाय। अतः एकं शब्‍दम्‌ एव भवान्‌ वदेत्‌ मम दासः नीरोगः भविष्‍यति। अहं तुच्‍छः अधिकारी अस्‍मि। मम अधीने स्‍वल्‍पाः सैनिकाः सन्‍ति। यदा एकं गन्‍तुम्‌ आदिशामि तदा असौ गच्‍छति। अपरं चेत्‌ समायातुम्‌, सः आयाति। यदा दासम्‌ आदिशामि करोतु एतत्‌, सः करोति।” तस्‍य वचः श्रुत्‍वा येशुः विस्‍मयं ययौ। ततः परावृत्‍य अनुयायिनः सः अब्रवीत्‌, “अहं युष्‍मान्‌ ब्रवीमि, इस्राएले अपि न ईदृशः विश्‍वासः दृष्‍टिम्‌ आगतः।”