Logo de YouVersion
Icono de búsqueda

लूका 4

4
प्रभोः येशोः परीक्षा
(मत्ती 4:1-11; मर 1:12-13)
1येशुः पवित्रात्‍मना परिपूर्णः भूत्‍वा यर्दनतीरतः प्रत्‍यागच्‍छत्‌। पथः मध्‍ये आत्‍मा तं निर्जनं स्‍थानं नीतवान्‌। 2तत्र सः चत्‍वारिंशत्‌ दिनानि निराहारः क्षुधया पिपासया च आकुलः अनिवसत्‌। तदा दुष्‍टात्‍मा तस्‍य परीक्षां गृहीतवान्‌।
येशुः तेषु दिवसे निराहारः आसीत्‌, अतः सः क्षुधया पीडितो अभवत्‌। 3तं दृष्‍ट्‌वा दुष्‍टात्‍मा अवदत्‌ - “त्‍वम्‌ परमेश्‍वरस्‍य पुत्रः च चेत्‌ प्रस्‍तरं रोटिकां कुरु। 4येशुः तम्‌ अपदूतम्‌ अवदत्‌, “लिखितमस्‍ति मनुष्‍यः रोटिकया एव केवलम्‌ जीवितो नास्‍ति।”
5अपदूतः येशुम्‌ गगने उत्‍थाप्‍य विश्‍वस्‍य समस्‍तराज्‍यं प्रदर्श्‍य 6अब्रवीत्‌ - “एतत्‌ समस्‍तं राज्‍यं तेषाम्‌ अधिकारान्‌ वैभवान्‌ च अहम्‌ तुभ्‍यम्‌ दास्‍यामि। 7एतानि सर्वाणि राज्‍यानि मह्‌यम्‌ प्रदत्तानि, अहं यम्‌ इच्‍छामि तस्‍मै ददामि। मम आराधनया तुभ्‍यम्‌ इमानि राज्‍यानि लप्‍स्‍यन्‍ते।” परन्‍तु येशुः तम्‌ प्रत्‍युत्तरत्‌ - 8“स्‍वस्‍य प्रभोः परमेश्‍वरस्‍य आराधनं कुरु, केवलं तम्‌ एव सेवस्‍व।”
9तत्‍पश्‍चात्‌ अपदूतः तं येरुसलेमस्‍य मन्‍दिरं नीत्‍वा, तस्‍य शिखरे समुत्‍थाप्‍य अवदत्‌, “परमेश्‍वरस्‍य सुतः चेत्‌ त्‍वम्‌ अत्रतः अधः कूर्दय; यतः लिखितमस्‍ति - 10“तव विषये सः स्‍वदूतान्‌ 11तव रक्षणाय प्रेषयिष्‍यति।” 12येशुः तं प्रत्‍युतरत्‌, “इदमपि लिखितम्‌ - प्रभोः परीक्षणं नैव कुर्याः।”
13एवं बहुविधं मसीहस्‍य परीक्षणम्‌ कृत्‍वा अपदूतः निश्‍चितसमये प्रत्‍यावर्तनाय तस्‍य सकाशात्‌ अगच्‍छत्‌।
14आत्‍मनः सामर्थ्‍येन सम्‍पन्‍नः भूत्‍वा येशुः गलीलियां प्रत्‍यागतः। तस्‍य ख्‍यातिः समस्‍तप्रदेशे प्रसारिता। 15सः तेषां सभागृहेषु उपदेशम्‌ अददात्‌। सर्वे जनाः तस्‍य अभिनन्‍दनं कुर्वन्‍ति स्‍म।
गृहनगरनासरेतस्‍य यात्रा
(मत्ती 13:53-58; मर 6:1-6)
16येशुः नासरेतम्‌ आगतः, यत्र सः परिपालितः आसीत्‌। विश्रामस्‍य दिने स्‍वस्‍वभावनुसारतः सभागृहं गत्‍वा पठितुम्‌ उत्‌तिष्‍ठत्‌ 17तस्‍मै यशायाहस्‍य पुस्‍तकं दत्तम्‌। पुस्‍तकं समुद्‌घाट्‌य वाचयितुम्‌ आरब्‍धवान्‌ -
18‘प्रभोः आत्‍मा मयि छायारूपेण तिष्‍ठति,
यतः तेन मम अभिषेकः कृतः
सः मां प्रेषितवान्‌, दरिद्रेभ्‍यः
शुभसमाचारं श्रावयितुम्‌,
बन्‍दिभ्‍यः मुक्‍तेः, अन्‍धेभ्‍यः
दृष्‍टिदानस्‍य सन्‍देशं दातुम्‌,
दलितान्‌ स्‍वतंत्रं कर्तुम्‌
19प्रभोः अनुग्रहस्‍य वत्‍सरं समुद्‌घोषयितुम्‌ च।
20वाचयित्‍वा येशुः पुस्‍तकं सेवकाधीनं कृत्‍वा स्‍वयम्‌ उपविष्‍टवान्‌। सभागृहस्‍य सर्वेषाम्‌ नेत्राणि तस्‍मिन्‌ स्‍थितानि आसन्‌। 21येशुः तान्‌ इदम्‌ अवदत्‌, ”धर्मग्रन्‍थस्‍य इयम्‌ वाणी, अद्यः युष्‍माकं समक्षं पूर्णतां गता।” 22सर्वे तस्‍य प्रशंसां कृतवन्‍तः। ते तस्‍य मनोहारिवचनानि श्रुत्‍वा विस्‍मिताः भूत्‍वा मिथः अवदन्‌ “अयं यूसुफस्‍य सुतो न किम्‌?”
23येशुः तान्‌ जगाद - “यूयं सर्वे माम्‌ इदं कथयिष्‍यथ - वैद्‌य! त्‍वं प्रथमं स्‍वस्‍य चिकित्‍सां कुरु।” ते ऊदुः कफरनहूमे यदपि अभवत्‌, अस्‍माभिः श्रुतम्‌। तत्‌ सर्वम्‌ अत्रापि मातृभूमौ प्रदर्शय। 24पुनः येशुः अब्रवीत्‌, “स्‍वदेशे कश्‍चित्‌ नबी जनैः न स्‍वागतीक्रियते। 25अहं युष्‍मान्‌ विश्‍वासं दापयामि यदा एलियाहस्‍य समये सार्द्धवर्षत्रयम्‌ अनावृष्‍टिः अभूत्‌, कृत्‍स्‍ने देशे दुर्भिक्षम्‌ अपतत्‌, तदा इस्राएले बहवः विधवाः स्‍त्रियः आसन्‌, 26तथापि एलियाहः काम्‌ अपि प्रति नैव प्रेषितः आसीत्‌ - सः सीदोने सारफतामिधे नगरे एव प्रेषितः आसीत्‌। 27नबिनः एलीशस्‍य समये इस्राएले अनेकाः कुष्‍ठरोगिणः अविद्‌यन्‍त, तथापि तेषु कोऽपि न, परन्‍तु केवलं सीरियादेशस्‍य नामानः नामकः जनः एव स्‍वस्‍थः कृतः आसीत्‌।”
28इदं श्रुत्‍वा सर्वे कुद्धाः भूत्‍वा, समुत्‍थाय येशुं नगरात्‌ बहिः अकारयन्‌। 29तेषां नगरस्‍य समीपे पर्वर्तः आसीत्‌, तस्‍य शिखरं नीत्‍वा, तं शिखरात्‌ पातयितुं व्‍यचारयन्‌। 30तेषां दुर्मतिम्‌ ज्ञात्‍वा येशुः तेषां मध्‍यात्‌ निर्गच्‍छत्‌।
कफरनहूमस्‍य अपदूतग्रस्‍तः जनः
(मर 1:21-28)
31सः गलीलप्रदेशस्‍य कफरनहूमनामकं नगरम्‌ आगतवान्‌। सः विश्रामस्‍य दिवसे अपि जनान्‌ उपदेशम्‌ अददात्‌। 32जनाः तस्‍य शिक्षां श्रुत्‍वा विस्‍मिताः जाताः, यतः सः अधिकारेण सह उपदिशति स्‍म।
33सभागृहे एकः मनुष्‍यः अपदूतस्‍य अधीने आसीत्‌, उत्‍थाय उच्‍चैः वक्‍तुम्‌ प्रचक्रमे - 34“येशो! नासरेतनिवासिन्‌! त्‍वया अस्‍माकम्‌ किम्‌ अस्‍ति? किं भवान्‌ अस्‍माकं सर्वनाशं कर्तुम्‌ इह आगतः? अहं जानामि भवान्‌ कोऽस्‍ति। भवान्‌ परमेश्‍वरेण प्रेषितः परमपावनः पुरुषः अस्‍ति।” येशुः इदं ब्रुवन्‌ तं प्राह - 35“तूष्‍णीम्‌ भव, अस्‍य मानवस्‍य देहात्‌ द्रुतमेव बहिः व्रज।” अपदूतस्‍तु सर्वेषां दृष्‍टीनाम्‌ मध्‍ये तं नरम्‌ भूमौ निपात्‍य निष्‍क्‍लेशं तस्‍य शरीरात्‌ विनिर्गतः। 36सर्वे विस्‍मिताः, भूत्‍वा मिथः अवदन्‌, “किमिदम्‌! अधिकारेण सामर्थ्‍येन च अयं दूषितान्‌ आत्‍मनः आदेशं ददाति, ते च त्‍वरितं निःसरन्‍ति।” 37तत्‍पश्‍चात्‌ येशोः ख्‍यातिः सर्वत्र प्रसरितवती।
सिमोनपतरसस्‍य श्‍वश्रूः
(मत्ती 8:14-15; मर 1:29-31)
38येशुः सभागृहात्‌ निर्गत्‍य सिमोनस्‍य गृहम्‌ आगतवान्‌। तस्‍य श्‍वश्रूः ज्‍वरेण अति पीडिता आसीत्‌। 39येशुः तस्‍याः स्‍वास्‍थ्‍याय जनैः अभ्‍यर्थितः। येशुः तस्‍याः पार्श्‍वे आगत्‍य ज्‍वरं निर्भर्त्‍सयामास। ज्‍वरः ताम्‌ द्रुतम्‌ अत्‍यजत्‌। सा तत्‍क्षणम्‌ उत्‍थाय सेवायां सत्‍क्रियायां तत्‍पराऽभवत्‌।
बहूनां स्‍वास्‍थ्‍यलाभः
(मत्ती 8:16-17; मर 1:32-34)
40अस्‍तमिते सूर्ये जनाः रोगग्रस्‍तान्‌ स्‍वकान्‌ जनान्‌ येशोः पार्श्‍वम्‌ आनीतवन्‍तः। येशुः स्‍वेन हस्‍तेन केवलम् तेषां शरीराणि स्‍पृष्‍ट्‌वा तान्‌ स्‍वस्‍थान्‌ अकरोत्‌। 41बहूनाम्‌ तु शरीरेभ्‍यः अपदूताः उच्‍चैः स्‍वरैः ब्रुवन्‍तः, “परमेश्‍वरस्‍य सुतो भवान्‌” निर्गच्‍छन्‍ति स्‍म। परन्‍तु येशुः सर्वान्‌ भर्त्‍सयन्‌ वक्‍तुं एव न अनुमतिम्‌ अददात्‌, यतः अपदूताः अजानन्‌ “सः मसीहः वर्तते।”
येशोः सभागृहेषु उपदेशः
(मर 1:35-39)
42येशुः प्रातःकाले गृहात्‌ निर्गत्‍य एकान्‍तम्‌ आश्रयत्‌। जनाः तं मृगयन्‍तः तत्रापि समागताः तं सविनयम्‌ अवदन्‌ - “येशो! त्‍वया नः विहाय कुत्रापि न गन्‍तव्‍यम्‌।” 43परन्‍तु येशुः तान्‌ प्रत्‍यब्रवीत्‌ - “मया अन्‍येषु नगरेषु अपि परमेश्‍वरस्‍य शुभसमाचारः श्रावयितव्‍यः अस्‍ति - 44अतएव अहं प्रेषितः अस्‍मि।” सः यहूदादेशस्‍य सभागृहेषु उपदेशम्‌ अददात्‌।

Actualmente seleccionado:

लूका 4: SANSKBSI

Destacar

Compartir

Copiar

None

¿Quieres tener guardados todos tus destacados en todos tus dispositivos? Regístrate o inicia sesión