Λογότυπο YouVersion
Εικονίδιο αναζήτησης

मत्ति 24

24
मन्‍दिरस्‍य विनाशस्‍य भविष्‍यवाणी
(मर 13:1-4; लूका 21:5-7)
1येशुः मन्‍दिराद्‌ बहिः विनिष्‍क्रम्‍य गच्‍छन्‌ आसीत्‌। शिष्‍याः तम्‌ एत्‍य मन्‍दिरस्‍य भवनानि अदर्शयन्‌। 2येशुः तान्‌ आह, “यूयं सर्वम्‌ पश्‍यथ? अहं युष्‍मान्‌ ब्रवीमि - न अत्र एकः प्रस्‍तरस्‍य उपरि प्रस्‍तरः स्‍थातुं शक्ष्‍यति - सर्वे हि पातयिष्‍यन्‍ते।”
3यदा येशुः जैतूनगिरिम्‌ एत्‍य उपविष्‍टवान्‌, शिष्‍याः तम्‌ एकान्‍तम्‌ आसाद्‌य इदं बभाषिरे, “अस्‍मान्‌ ब्रवीतु कदा तत्‌ सम्‍भविष्‍यति? भवतः आगमनस्‍य, तथा युगान्‍तस्‍यापि अभिज्ञानं किं भविष्‍यति?”
विपदां प्रारम्‍भः
(मर 13:5-13; लूका 21:8-19)
4येशुः तान्‌ प्रति उवाच, “यूयं सावधानतया स्‍थिताः वर्तध्‍वं, येन न हि अत्र युष्‍मान्‌ कोऽपि वञ्‌चयेत्‌। 5यतो मदीयं नाम गृहीत्‍वा बहवः जनाः आगत्‍य कथयिष्‍यन्‍ति “मसीहोऽहमेव”, इति भाषमाणाश्‍च ते बहून्‌ वत्र्चयिष्‍यन्‍ति। 6युद्धस्‍य कथाः, तस्‍य किंवदन्‍तीश्‍च श्रोष्‍यथ। यूयम्‌ एतत्‌ निशम्‍य अपि न उदि्‌वजध्‍वं कथंचन। यतः अनिवार्यतः सर्वमेतत्‌ हि सम्‍भविष्‍यति। परन्‍तु अयं न अन्‍तिमः परिणामः वर्तते। 7राष्‍ट्रं राष्‍ट्रस्‍य, राज्‍यं राज्‍यस्‍य अपि विरोधे भविष्‍यति। स्‍थाने स्‍थाने दुर्भिक्षः, रोगमयः, भूकम्‍पः आदयः भविष्‍यन्‍ति। 8एतासाम्‌ विपत्तीनाम्‌ आरंभः मात्रम्‌ भविष्‍यति।
9तस्‍मिन्‌ काले जनाः युष्‍मान्‌ ग्राहयित्‍वा अतियन्‍त्रणाम्‌ प्रदाय पीडयिष्‍यन्‍ति मारयिष्‍यन्‍ति च। 10मम नामतः सर्वराष्‍ट्राणि युष्‍मान्‌ द्वेक्ष्‍यन्‍ति। बहवः लोकाः स्‍वकर्मतः स्‍खलिष्‍यन्‍ति। एके अन्‍यान्‌ ग्राहयिष्‍यन्‍ति, ते मिथः विद्वेक्ष्‍यन्‍ति। 11बहवः दम्‍भिनः नबिनः प्रकटाः भविष्‍यन्‍ति। 12अधर्मस्‍य वार्धक्‍यात्‌ जनेषु मध्‍ये प्रेमभावः च ह्रासम्‌ एष्‍यति। परन्‍तु यः अन्‍तं यावत्‌ धैर्यात्‌ न विचलिष्‍यति, 13सः एव मुक्‍तिम्‌ एष्‍यति। 14अस्‍मिन्‌ कृत्‍स्‍ने संसारे राज्‍यस्‍य अस्‍य शुभसंवादस्‍य प्रचारः करिष्‍यते, येन सर्वेभ्‍यः राष्‍ट्रेभ्‍यः अस्‍य साक्ष्‍यं लप्‍स्‍यते, तदा अन्‍तः आगमिष्‍यति।
महत्‌ संकटम्‌
(मर 13:14-23; लूका 21:20-24)
15“यदा यूयं ध्‍वंसकारि वीभत्‍स दृश्‍यं द्रक्ष्‍यथ, यथा नबिना दानियेलेन भाषितम्‌ - पाठकः जानीयात्‌, 16ये जनाः यहूदाप्रदेशे स्‍युः, द्रुतम्‌ गिरिम्‌ पलायनं कुर्युः, 17यश्‍च प्रासादपृष्‍ठे स्‍यात्‌ सः तस्‍मात्‌ न अवरोहतु स्‍वगृहात्‌ किंचिद्‌ आदातुम्‌। 18यः स्‍वक्षेत्रे च स्‍थितस्‍तु, असौ स्‍वोत्तरीयं समादातुं न प्रत्‍यावर्त्तेत्‌। 19ताः स्‍त्रियश्‍च सन्‍तापभाजनानि सन्‍ति, याः तेषु दिनेषु गर्भिण्‍यः अथवा स्‍तन्‍यप्रदायिकाः भविष्‍यन्‍ति। 20प्रार्थयध्‍वं यूयं यथा युष्‍मत्‍पलायनम्‌ शीतकाले अथवा विश्रामदिवसे न सम्‍भवेत्‌। 21यतो तेषु दिवसेषु एतादृक्‌ महत्‌ संकटं भविष्‍यति, आजगतः आरम्‍भात्‌ अद्य अवधि अपि न कदापि अभवत्‌ न भविष्‍यति। 22तानि दिनानि न्‍यूनानि न व्‍यधास्‍यन्‍त चेत्‌ तदा नाऽभविष्‍यद्‌ ध्रुवं कश्‍चित्‌ प्राणी जगतीतले; परन्‍तु वृतानां जनानां कारणात्‌ तानि दिनानि न्‍यूनानि करिष्‍यन्‍ते।
23“तस्‍मिन्‌ काले कश्‍चित्‌ नरः युष्‍मान्‌ एवं ब्रवीति चेत्‌, “पश्‍यत अत्र मसीहः अस्‍ति, तत्र वा असौ वर्तते, तर्हि तत्र न विश्‍वासः विधातव्‍यः; 24यतः तदा मिथ्‍यामसीहाः नबिनश्‍च दृक्‌पथम्‌ आयास्‍यन्‍ति ते तथा चिह्नानि, चमत्‍कारान्‌ दर्शयिष्‍यन्‍ति। यदि साध्‍यं स्‍यात्‌ ते वृणीतान्‌ अपि प्रथभ्रष्‍टान्‌ कर्तुम्‌ यतिष्‍यन्‍ते। 25पश्‍यत, मया पूर्वमेव यूयं प्रबोधिताः।
मानवपुत्रस्‍य पुनरागमनम्‌
(मर 13:24-27; लूका 17:23-27)
26“यदि ते युष्‍मान्‌ कथयेयुः, पश्‍यत! सः निर्जनप्रदेशे वर्तते, तदा तत्र युष्‍माभिः न गन्‍तव्‍यम्‌; अथवा सः तत्र गृहाभ्‍यन्‍तरे स्‍थितः, युष्‍माभिः विश्‍वासः न कर्तव्‍यः 27यथा क्षणप्रभा पूर्वदिक्‍तः निर्गत्‍य पश्‍चिमाम्‌ दिशां यावत्‌ सुप्रकाशं वितरति, तथैव मानवपुत्रस्‍य आगमनं भविष्‍यति।
28“यत्र शवः, तत्रैव गृध्राणां चयः भविष्‍यति।
29“तेषां दिनानां संकटस्‍य अनन्‍तरं, त्‍वरितं रविः अन्‍धकारमयः भविष्‍यति, चन्‍द्रः निष्‍प्रभः भविष्‍यति, नक्षत्राणि नभसः पतिष्‍यन्‍ति, गगनस्‍य शक्‍तयः विचलिष्‍यन्‍ति। 30तदा व्‍योम्‍नि मानवपुत्रस्‍य चिह्नम्‌ आलोकयिष्‍यते। पृथिवीतलस्‍य सकलानि राष्‍ट्राणि स्‍व वक्षांसि ताडयिष्‍यन्‍ति, मानवपुत्रम्‌ अमितया शक्‍त्‍या अन्‍वितम्‌ वारिवाहस्‍य रथस्‍य उपरि आयान्‍तं द्रक्ष्‍यन्‍ति। 31महातूर्यरवैः सह स्‍वान्‌ दूतान्‌ प्रहेष्‍यति। ते च चतसृभ्‍यः दिग्‍भ्‍यः च, व्‍योम्‍नः एकप्रदेशतः अपरं प्रदेशं यावद्‌ तस्‍य वृणीतान्‌ मानवान्‌ एकत्र संग्रहीष्‍यन्‍ति।
इदं कदा भविष्‍यति
(मर 13:23-32; लूका 21:29-33)
32“अंजीरवृक्षतो यूयं शिक्षाम्‌ आदातुम्‌ अर्हथ। यदा तस्‍य प्रशाखासु कोमलत्‍वं प्रजायते, तथा तासु कोमलानि पत्राणि प्रस्‍फुटन्‍ति, तदा यूयं विजानीथ, ग्रीष्‍मकालः समागतः। 33एवमेव यदा यूयं सर्वाणि एतानि द्रक्ष्‍यथ, तदा सः समीपे स्‍थितः द्वारस्‍थः च इति वेत्‍स्‍यथ। 34अहं युष्‍मान्‌ ब्रवीमि - एतद्‌ युगीनमर्त्‍यानां समाप्‍तेः पूर्वमेव एतद्‌ सर्वम्‌ घटिष्‍यते। 35स्‍यात्‌ इयं विचलेद्‌ भूमिः नभः च चलितं भवेत्‌, परन्‍तु मद्‌ वाक्‍यानि कदापि न विचलिष्‍यन्‍ति।
36“तस्‍य दिनस्‍य, दण्‍डस्‍यापि च विषये कोऽपि न जानाति - न तु स्‍वर्गदूतगणाः न पुत्रः, केवलं पिता एव विजानाति।
जागरुकता
(मर 13:32-37; लूका 17:26-30,34-36)
37“नूहस्‍य दिनेषु यत्‌ किंचित्‌ अभवत्‌, तत्‌ सर्वम्‌ मानवपुत्रस्‍यापि समये भविष्‍यति। 38जलप्‍लावनतः पूर्वम्‌, यावत्‌ नूहः न प्राविशत्‌ पोते, तावत्‌ जनाः भोजनपानयोः रताः आसन्‌, विवाहादेरामोदे व्‍यापृताश्‍च, ते न अजानन्‌ किंचित्‌। 39यावत्‌ तत्‌ प्‍लावनम्‌ समागत्‍य च सर्वान्‌ तान्‌ समाहृत्‍य न्‍यमज्‍जयत्‌। तथैव मानवपुत्रस्‍य आगमने अपि भविष्‍यति। 40तस्‍मिन्‌ समये क्षेत्रे नरद्वयोः तिष्‍ठतः, एकः ग्राहिष्‍यते, अन्‍यश्‍च तत्रैव त्‍यक्ष्‍यते। 41तथा पेषणकर्मणि नियुक्‍तयोः द्वयोः नार्योः, एका उत्‍थापयिष्‍यते, अपरा तत्रेव त्‍यक्ष्‍यते।
42“अतो यूयं प्रजागृत, युष्‍माभिः न ज्ञायते, यत्‌ युष्‍माकं प्रभुः कस्‍मिन्‌ दिने समेष्‍यति। 43यूयमेतद्‌ अवगच्‍छत, यदि अज्ञास्‍यत्‌ गृहप्रभुः यामिन्‍याः कस्‍मिन्‌ प्रहरे तस्‍करः आयाति, अजागरिष्‍यत्‌ स्‍वामी तस्‍मिन्‌ क्षणे तथा च सन्‍धिभेदं स्‍वगृहे न अदास्‍यत्‌। 44युष्‍माभिः अपि सर्वैः प्रस्‍तुतैः स्‍थातव्‍यम्‌ सदा। यतो मानवपुत्रः तस्‍मिन्‍नेव क्षणे खलु आयास्‍यति, यस्‍तु क्षणो युष्‍माभिः न अवगंस्‍यते यत्‌ अयं मानवपुत्रस्‍य आगमनस्‍य वर्तते।
विश्‍वस्‍तोऽविश्‍वस्‍तश्‍च सेवकः (लूका 12:42-46)
45“को असौ विश्‍वासपात्रः बुद्धिमान्‌ च सेवकः अस्‍ति, यं तदीयः प्रभुः स्‍वेषु भृत्‍येषु नियुक्‍तवान्‌। यो यथासमयं तस्‍य भृत्‍येभ्‍यो भक्ष्‍यवस्‍तुनः यथोचितं वितरणं कुर्यात्‌? 46धन्‍योऽसौ सेवकः यस्‍य स्‍वामी तं सेवकम्‌ यथादिष्‍टं कुर्वाणं प्राप्‍य सन्‍तोषम्‌ एष्‍यति। 47अहं युष्‍मान्‌ ब्रवीमि, स्‍वामी तं सेवकं स्‍वाधिकारस्‍थिते कृत्‍स्‍ने सर्वस्‍वे अधिकरिष्‍यति।
48“परन्‍तु यदि “स्‍वामी आगमने विलम्‍बं कुरुते” इति मनसि निगद्‌य, 49सः दुष्‍टसेवकः अपरान्‌ सेवकान्‌ ताडयितुं प्रवर्तते, प्रमत्तैः मानवैः सह भोक्‍तुं सुरापानं करोति, 50तदा तदीयः स्‍वामी तस्‍मिन्‌ दिने समेष्‍यति, यदा सः सेवकः तस्‍य प्रतीक्षां न करिष्‍यति, तस्‍मिन्‌ क्षणे आयास्‍यति, यत्‌ सः न ज्ञास्‍यते। 51आगत्‍य सः कशाघातैः सेवकं ताडयिष्‍यति, दम्‍भिनां योग्‍यैः दण्‍डैः दण्‍डयिष्‍यति च। तत्र जनाः रोदिष्‍यन्‍ति, दन्‍तकान्‌ च घर्षिष्‍यन्‍ति।

Επιλέχθηκαν προς το παρόν:

मत्ति 24: SANSKBSI

Επισημάνσεις

Αντιγραφή

Σύγκριση

Κοινοποίηση

None

Θέλετε να αποθηκεύονται οι επισημάνσεις σας σε όλες τις συσκευές σας; Εγγραφείτε ή συνδεθείτε