Λογότυπο YouVersion
Εικονίδιο αναζήτησης

मत्ति 15

15
परम्‍परापालनस्‍य प्रश्‍नः
(मर 7:1-13)
1येरुसलेमस्‍य केचित्‌ फरीसिनः शास्‍त्रिणश्‍च कस्‍मिंश्‍चिद्‌ दिने येशोः समीपम्‌ आगत्‍य एवं वक्‍तुम्‌ आरब्‍धवन्‍तः - 2“भवतः शिष्‍याः कथं धर्मवृद्धानां परम्‍पराम्‌ लड्‌.यन्‍ति? भोजनकाले ते स्‍वहस्‍तान्‌ न प्रक्षालयन्‍ति?” 3येशुः तान्‌ प्रत्‍यवोचत्‌, “यूयं स्‍वीयायाः परम्‍परायाः नाम्‍नि परमेश्‍वरस्‍य आज्ञां किमर्थम्‌ उल्‍लंघयथ? 4परमेश्‍वरेण कथितम्‌ - ʻत्‍वं स्‍वमातापितरौ मन्‍यस्‍व, तथा यस्‍तु स्‍वकं मातरं पितरं शपेत्‌, तस्‍मै प्राणदंडः दातव्‍यः।’ 5परन्‍तु यूयं कथयथ, यदि कश्‍चिद्‌ स्‍वमातरं पितरं वा वदेत्‌, - ʻयत्ते लाभो मया संभवितुम्‌ शक्‍नोति स्‍म, सः परमेश्‍वराय अर्पितः अस्‍ति,’ 6तदा सः पुनः स्‍वपित्रे मात्रे वा किंचिदपि दातुं न शक्‍नोति। इत्‍थं यूयं परम्‍परायाः नाम्‍नि परमेश्‍वराय वचनं निरस्‍तं कृतवन्‍तः। हे 7दम्‍भिनः ! युष्‍माकं विषये यशायाहनबिना उचितम्‌ एव निगदितम्‌ -
8इमे जनाः मौखिकमेव मदीयं सम्‍मानं कुर्वन्‍ति।
परन्‍तु एतेषां हृदयं मत्‌ तु सूदूरमास्‍ते।
9इमे मम पूजां व्‍यर्थमेव कुर्वन्‍ति
ये एवं शिक्षन्‍ते,
नृनिर्मितं सा विधिमात्रम्‌ एव।”
शुद्धाशुद्धयोर्व्‍याख्‍या
(मर 7:14-22)
10ततोऽसौ स्‍वान्‍तिकं सर्वान्‌ जनान्‌ आहूय कथितवान्‌; “युष्‍माभिः मद्‌वचः सर्वम्‌ श्रूयताम्‌, अथ बुध्‍यताम्‌। 11यत्‌ मुखे आगच्‍छति, तत्‌ मनुष्‍यम्‌ अशुद्धं न करोति, परन्‍तु यद्‌ मुखाद्‌ निर्गच्‍छति तत्‌ मनुष्‍यम्‌ अशुद्धं करोति।”
12तत्‍पश्‍चात्‌ शिष्‍याः आगत्‍य येशुम्‌ अवदन्‌, “किं भवान्‌ वेत्ति, यत्‌ फरीसिनः भवतः वचनं श्रुत्‍वा असन्‍तुष्‍टाः सन्‍ति।” 13येशुः तान्‌ प्रति अभासत, “यः वृक्षः मम पित्रा न रोपितः, सः उन्‍मूलयिष्‍यते। 14त्‍याज्‍यास्‍ते, ते तु अन्‍धानाम्‌ अन्‍धाः पथप्रर्दशकाः सन्‍ति। यदि अंधेन अंधः नीयते, तदा उभौ गर्त्ते पतिष्‍यतः।”
15एतत्‌ श्रुत्‍वा पतरसः येशुम्‌ अवदत्‌, “एतद्‌ दृष्‍टान्‍तम्‌ अस्‍मान्‌ बोधयतु।” 16येशुः अवदत्‌, “यूयम्‌ इदानीं यावत्‌ निर्बोधाः स्‍थ? 17किं यूयं न हि जानीथ, यत्‌ मुखे पतति, तत्‌ उदरे गत्‍वा शौचगृहे च निर्गच्‍छति। 18परन्‍तु यत्‌ मुखात्‌ निर्गच्‍छति, तत्‌ मनः अशुद्धयति। 19यतः अशुद्धः विचारः, हत्‍या, परगमनम्‌, व्‍यभिचारः, चौर्यम्‌, मृषासाक्ष्‍यं, विनिन्‍दनम्‌, 20एतानि सर्वाणि मनसः निर्गच्‍छन्‍ति, तानि सर्वाणि वचनानि मनुष्‍यम्‌ अशुद्धयन्‍ति। हस्‍थप्रच्‍छालनेन विना भोजनम्‌ मनुष्‍यम्‌ अशुद्धं न करोति।”
कनान्‍याः स्‍त्रियाः विश्‍वासः
(मर 7:24-30)
21येशुः तत्‌ स्‍थानं विसृज्‍य सोरसदोमाभ्‍याम्‌ प्रदेशेभ्‍यः प्रातिष्‍ठत्‌। 22तत्‍प्रान्‍तस्‍य काचित्‌ एका कनानी स्‍त्री समागता। सा च येशुं प्रोच्‍चैः समुद्दिश्‍य कथितवती, “प्रभो! दाऊदसन्‍तान! मयि दयां करोतु! मम दुहिता अपदूतेन ग्रस्‍ता पीडिता च अस्‍ति।” 23येशुः तस्‍यै किमपि उत्तरं न दत्तवान्‌। शिष्‍याः तम्‌ उपेत्‍य तस्‍मै न्‍यवेदयन्‌, “अस्‍याः वचांसि संश्रुत्‍य भवता इमं विसृज्‍यताम्‌, यतः इयं क्रोशन्‍ती दूरतः अस्‍माकं पश्‍चात्‌ आयाति।” 24येशुः प्रत्‍युवाच, “अहं केवलम्‌ इस्रायलस्‍य कुलस्‍य हारितेभ्‍यः मेषेभ्‍यः प्रेषितोऽस्‍मि।” 25अस्‍मिन्‍नेव काले सा स्‍त्री तम्‌ उपेत्‍य, प्रणिपत्‍य च तं कथितवती, “प्रभो! मे साहाय्‍यं करोतु।” 26येशुः ताम्‌ उवाच, “देवि! बालकानां रोटिकाः नीत्‍वा शुनाम्‌ अभिमुखं क्षेप्‍तुम्‌ न उचितम्‌।” 27सा जगाद, “प्रभो! सत्‍यं, स्‍वामिनां भोज्‍यमत्र्चतः पतिताः भक्ष्‍यफेलिकाः उच्‍छिष्‍टांशाः वा श्‍वानः तु भक्ष्‍यन्‍ति।” 28येशुः ताम्‌ उवाच, “नारि! तव विश्‍वासः मयि महान्‌ वर्तते। तव अभीष्‍टं पूर्णम्‌ भूयात्‌।” तस्‍मिन्‍नेव क्षणे तस्‍याः सुता स्‍वस्‍था अभवत्‌।
बहूनां स्‍वास्‍थ्‍यलाभः
29येशुः तस्‍माद्‌ स्‍थानात्‌ गतवान्‌। गलीलस्‍य समुद्रस्‍य तटम्‌ आगत्‍य एकं गिरिम्‌ आरुह्‌य समुपाविशत्‌। 30महान्‍तः जनसमूहः तत्‍समीपमुपस्‍थितः। ते खत्र्जान्‌, कुणीन्‌, अन्‍धान्‌, मूकान्‌, अन्‍यान्‌ च रोगिणः स्‍वेन सह समानीय येशुपादयोः न्‍यक्षिपन्‌। येशुः सर्वार्न्‌ रोगिनः निरामयान्‌ सद्यः अकरोत्‌। 31इत्‍थं मूकान्‌ वदतः, शुष्‍कहस्‍तजनान्‌ स्‍वस्‍थतां गतान्‌, खत्र्जान्‌ पर्यटतः, अन्‍धान्‌ प्राप्‍तदृष्‍टीन्‌ विलोक्‍य ते विस्‍मिताः इस्राएलस्‍य स्‍तुतिम्‌ अकुर्वन्‌।
रोटिकानाम्‌ अन्‍या चमत्‍कृतिः
(मर 8:1-10)
32येशुः स्‍वान्‌ शिष्‍यान्‌ निजस्‍य अन्‍तिकम्‌ आहूय कथितवान्‌, “एषु मानवेषु मयि कारुण्‍यं जायते। मया सार्द्धं इमे दिवसत्रयात्‌ अवस्‍थिताः। एतेषां पार्श्‍वे किमपि भक्ष्‍यं न वर्तते। अहम्‌ एतान्‌ अकृतभोजनान्‌ विस्रष्‍टुं न इच्‍छामि। कुत्रचित्‌ एवं न भवेत्‌, एते मार्गे मूर्च्‍छिताः भवेयुः।” 33शिष्‍याः तं कथितवन्‍तः, “अत्र निर्जने स्‍थाने अस्‍मभ्‍यम्‌ एतावत्‍यः रोटिकाः कुत्रतः लप्‍स्‍यन्‍ते, यत्‌ महान्‍तं लोकनिचयं वयं तर्पयिष्‍यामहे?”
34येशुः तान्‌ पप्रच्‍छ, “युष्‍माकं पार्श्‍वे कति रोटिकाः विद्‌यन्‍ते?” ते अवदन्‌, सप्‍तरोटिकाः, “स्‍तोकाश्‍च लघुमत्‍स्‍यकाः।” 35येशुः सर्वान्‌ जनान्‌ भूमौ उपवेष्‍टुम्‌ आदिशत्‌। 36ताः सप्‍तरोटिकाः, तान्‌ मत्‍स्‍यान्‌ च आदाय, धन्‍यवादस्‍य प्रार्थनां पठित्‍वा, ताः रोटिकाश्‍च भड्‌.क्‍त्‍वा शिष्‍येभ्‍यः अददात्‌, शिष्‍याश्‍च जनेभ्‍यः दत्तवन्‍तः। 37सर्वे रोटिकाः भुक्‍त्‍वा परां तृप्‍तिम्‌ आप्‍तवन्‍तः। भग्‍नांशानां च शेषेण सप्‍त करण्‍डाः पूरिताः। 38तस्‍मिन्‌ भोजने ये तत्र समुपस्‍थिताः अभवन्‌, तेषु नारीः बालांश्‍च विहाय पुरुषानाम्‌ संख्‍या चतुस्‍सहस्रा आसीत्‌। 39येशुः तान्‌ विसृज्‍य नावि आरुह्‌य मगदानप्रदेशम्‌ अगच्‍छत्‌।

Επιλέχθηκαν προς το παρόν:

मत्ति 15: SANSKBSI

Επισημάνσεις

Αντιγραφή

Σύγκριση

Κοινοποίηση

None

Θέλετε να αποθηκεύονται οι επισημάνσεις σας σε όλες τις συσκευές σας; Εγγραφείτε ή συνδεθείτε