मत्ति 14

14
जलसंस्‍कारदातुः योहनस्‍य वधः
(मर 6:14-20; लूका 9:7-9; 3:19-20)
1तस्‍मिन्‌ काले नृपः हेरोदेसः येशोः ख्‍यातिम्‌ अशृणोत्, 2स्‍वसभासदान्‌ अवदत्‌, “एषः योहनः जलसंस्‍कारदाता, पुनः जीवितः अस्‍ति, अतः चमत्‍कारान्‌ दर्शयति।” 3हेरोदेसः स्‍वभ्रातुः पत्‍न्‍याः हेरोदियायाः कारणात्‌ योहनं बद्‌ध्‍वा तं कारागारे निक्षिप्‍तवान्‌; 4यतः योहनः तं कथितवान्‌, “सा न भवता उद्‌वाहिता।” 5-6हेरोदेसः योहनं हन्‍तुम्‌ इच्‍छति स्‍म, परन्‍तु जनेभ्‍यः अबिभेत्‌, यतः योहनः जनैः नबी मन्‍यते स्‍म। हेरोदेसस्‍य जन्‍मदिवसे हेरोदियात्‍मजा अतिथीनां समक्षम्‌ अनृत्‍यत्‌, नृत्‍येन हेरोदेसः मुग्‍धः जातः। 7अतः शपथेन सः उवाच, “यत्‌ त्‍वं याचिष्‍यसि, तत्‌ तुभ्‍यम्‌ अवश्‍यमेव दास्‍यामि।” 8पूर्वमेव स्‍वभात्रा सा विनिर्दिष्‍टा आसीत्‌। अतः सा अवदत्‌ - “अधुना एव योहनस्‍य शिरः स्‍थाल्‍यां निधाय मह्‌यम्‌ देहि।” 9अनेन वचनेन हेरोदेसः व्‍यथितोऽभवत्‌। स्‍वकात्‌ शपथात्‌, अतिथिभ्‍यश्‍च कारणात्‌, 10प्रेष्‍यान्‌ कारायां योहनस्‍य शिरच्‍छेदनाय आदिष्‍टवान्‌। 11योहनस्‍य शिरः स्‍थाल्‍याम्‌ आनीतम्‌, बालायै दत्तम्‌ च। सा तत्‌ मातुः समीपे समानयत्‌। 12योहनस्‍य शिष्‍याः आगत्‍य तस्‍य शवं नीतवन्‍तः। ते शवागारे निधाय, गत्‍वा अस्‍याः सूचनां येशुम्‌ अददुः।
रोटिकानां चमत्‍कारः
(मर 6:32-44; लूका 9:10-17; यूह 6:1-13)
13येशुः एतत्‌ आकर्ण्‍य तस्‍मात्‌ स्‍थानात्‌ निर्गम्‍य, नावि आरुह्‌य निर्जनं स्‍थानं प्रति प्रतस्‍थे। लोकाः एतत्‌ ज्ञात्‍वा नगरेभ्‍यः निर्गत्‍य पदातयः एव तस्‍य अन्‍वेषणे अगच्‍छन्‌। 14नावः अवतीर्य येशुना एकः विशालः जनसमूहः दृष्‍टः। तान्‌ दृष्‍ट्‌वा सः करुणान्‍वितः भूतवान्‌। अनेकाः रोगिणः तेन स्‍वस्‍थाः जाताः। 15सन्‍ध्‍यायाम्‌ उपस्‍थितायां शिष्‍याः तम्‌ अवदन्‌, “इदं निर्जनम्‌ स्‍थानम्‌, सूर्यश्‍च अस्‍तमुपैति, अतः इमान्‌ जनान्‌ प्रेषयतु भवान्‌। इमे जनाः ग्रामेषु गत्‍वा स्‍वार्थम्‌ खाद्‌यं क्रीणन्‍तु।” 16येशुः शिष्‍यान्‌ प्रत्‍युवाच, “इमे कुत्रचित्‌ न यास्‍यन्‍ति। यूयम्‌ एव तेभ्‍यः खाद्‌यं प्रयच्‍छत।” 17शिष्‍याः तम्‌ अवदन्‌, “पत्र्चरोटिकाः द्वौ मीनौ विहाय अत्र अस्‍माकं पार्श्‍वे किंचिदपि न वर्तते।” 18येशुः उवाच, “तान्‌ एव मम अन्‍तिकम्‌ आनयत।” 19येशुः लोकान्‌ तृणेषु उपवेष्‍टुम्‌ आदिष्‍टवान्‌, तत्‍पश्‍चात्‌ पत्र्च रोटिकाः द्वौ मीनौ स्‍वहस्‍ते गृहीतवान्‌। सः स्‍वर्गं प्रति उर्ध्‍वम्‌ अपश्‍यत्‌, आशिषः प्रार्थनाम्‌ पठित्‍वा, रोटिकाः भड्‌.क्‍त्‍वा भड्‌.क्‍त्‍वा शिष्‍येभ्‍यः दत्तवान्‌, शिष्‍याश्‍च जनेभ्‍यः। 20सर्वे खादित्‍वा तृप्‍ताः अभवन्‌। भग्‍नांशशेषैः द्वादश करण्‍डाः पूर्णाः अभवन्‌। 21भोक्‍तृषु स्‍त्रीः बालान्‌ च विहाय प्रायः पत्र्च सहस्राः पुरुषाः आसन्‌।
येशुः समुद्रोपरि गच्‍छति
(मर 6:45-52; यूह 6:16-21)
22तत्‍पश्‍चात्‌ शीघ्रम्‌ एव येशुः नावि आरुह्‌य, जनानां प्राक्‌ एव पारं गन्‍तुं शिष्‍यान्‌ आदिष्‍टवान्‌। 23येशुः जनान्‌ प्रेष्‍य एकान्‍ते प्रार्थनार्थम्‌ निभृतं गिरिम्‌ आरोहत्‌। उपस्‍थितायां सन्‍ध्‍यायां येशुः तत्र एकलः आसीत्‌।
24तस्‍मिन्‌ काले तु नौका तटात्‌ दूरगता अभवत्‌। सा तरी प्रचलदूर्मिभिः हता प्रकम्‍पितुम्‌ आरब्‍धवती, यतः वायुः प्रतिकूलः आसीत्‌। 25रात्रेः चतुर्थे प्रहरे समुद्रस्‍य उपरि व्रजन्‌ येशुः स्‍वकीय- शिष्‍याणाम्‌ अन्‍तिकं द्रुतम्‌ आगच्‍छत्‌। 26यदा ते येशुम्‌ समुद्रे व्रजन्‌ अपश्‍यन्‌ शिष्‍याः उद्विग्‍नाः भूत्‍वा एवं कथयन्‍तः, “अयं कोऽपि प्रेतः वर्तते,” भयात्‌ चीत्‍कारम्‌ अकुर्वन्‌। 27येशुः तत्‍क्षणमेव तान्‌ अकथयत्‌, “मा बिभीत, समाश्‍वासित, अहम्‌ एव अस्‍मि।”
28पतरसः उक्‍तवान्‌, “प्रभो! भवान्‌ एव चेत्‌ मां तोयस्‍य उपरि भवतः पार्श्‍वम्‌ आयातुम्‌ आज्ञां ददातु।” 29येशुः अवदत्‌, “एहि।” पतरसः नावः अवतीर्य, तोयस्‍य उपरि व्रजन्‌ येशोः पार्श्‍वम्‌ प्रतस्‍थे। 30परन्‍तु प्रचण्‍डं वायुम्‌ आलोक्‍य अबिभेत्‌। यदा निमज्‍जितुम्‌ आरेभे तदा उच्‍चैः अवदत्‌ “प्रभो! मां त्राहि।” तत्‍क्षणमेव 31येशुः स्‍वहस्‍तं प्रसार्य तं अगृह्‌णीत, जगाद च “रे अल्‍पविश्‍वासिन्‌। कथं ते संशयः अभवत्‌?” 32नावि आरुह्‌य वायोः वेगं शशाम। 33नौकास्‍थिताः जनाः प्रणिपत्‍य इदम्‌ अब्रुवन्‌ - “भवान्‌ सत्‍यमेव परमेश्‍वरस्‍य सुतः आस्‍ते।”
गिनेसरेतनगरे रोगिभ्‍यः स्‍वास्‍थ्‍यलाभः
(मर 6:53-56)
34पारमुत्तीर्य ते सर्वे गिनेसरेतमागताः। 35तत्रत्‍याः जनाः तं पर्यचिन्‍वन्‌, समीपस्‍थेषु कृत्‍स्‍नेषु ग्रामेषु नगरेषु अस्‍य संवादं प्रचारयन्‌। स्‍वान्‌ स्‍वान्‌ रोगातुरान्‌ जनान्‌ येशोः समीपम्‌ आनीत्‍वा, 36प्रार्थनात्र्चक्रिरे यत्‌ सः तेभ्‍यः स्‍ववस्‍त्रस्‍य अंचलस्‍य केवलम्‌ स्‍पर्शस्‍य अनुमतिं दद्‌यात्‌। यावन्‍तः तस्‍य वस्‍त्रस्‍य अंचलस्‍य स्‍पर्शम्‌ अकुर्वन्‌ तावन्‍तो हि जनाः सर्वथा स्‍वस्‍थतां प्राप्‍तवन्‍तः।

Okuqokiwe okwamanje:

मत्ति 14: SANSKBSI

Qhakambisa

Kopisha

Qhathanisa

Dlulisela

None

Ufuna ukuthi okuvelele kwakho kugcinwe kuwo wonke amadivayisi akho? Bhalisa noma ngena ngemvume