मथिः 9

9
1अनन्तरं यीशु र्नौकामारुह्य पुनः पारमागत्य निजग्रामम् आययौ।
2ततः कतिपया जना एकं पक्षाघातिनं स्वट्टोपरि शाययित्वा तत्समीपम् आनयन्; ततो यीशुस्तेषां प्रतीतिं विज्ञाय तं पक्षाघातिनं जगाद, हे पुत्र, सुस्थिरो भव, तव कलुषस्य मर्षणं जातम्।
3तां कथां निशम्य कियन्त उपाध्याया मनःसु चिन्तितवन्त एष मनुज ईश्वरं निन्दति।
4ततः स तेषाम् एतादृशीं चिन्तां विज्ञाय कथितवान्, यूयं मनःसु कृत एतादृशीं कुचिन्तां कुरुथ?
5तव पापमर्षणं जातं, यद्वा त्वमुत्थाय गच्छ, द्वयोरनयो र्वाक्ययोः किं वाक्यं वक्तुं सुगमं?
6किन्तु मेदिन्यां कलुषं क्षमितुं मनुजसुतस्य सामर्थ्यमस्तीति यूयं यथा जानीथ, तदर्थं स तं पक्षाघातिनं गदितवान्, उत्तिष्ठ, निजशयनीयं आदाय गेहं गच्छ।
7ततः स तत्क्षणाद् उत्थाय निजगेहं प्रस्थितवान्।
8मानवा इत्थं विलोक्य विस्मयं मेनिरे, ईश्वरेण मानवाय सामर्थ्यम् ईदृशं दत्तं इति कारणात् तं धन्यं बभाषिरे च।
9अनन्तरं यीशुस्तत्स्थानाद् गच्छन् गच्छन् करसंग्रहस्थाने समुपविष्टं मथिनामानम् एकं मनुजं विलोक्य तं बभाषे, मम पश्चाद् आगच्छ, ततः स उत्थाय तस्य पश्चाद् वव्राज।
10ततः परं यीशौ गृहे भोक्तुम् उपविष्टे बहवः करसंग्राहिणः कलुषिणश्च मानवा आगत्य तेन साकं तस्य शिष्यैश्च साकम् उपविविशुः।
11फिरूशिनस्तद् दृष्ट्वा तस्य शिष्यान् बभाषिरे, युष्माकं गुरुः किं निमित्तं करसंग्राहिभिः कलुषिभिश्च साकं भुंक्ते?
12यीशुस्तत् श्रुत्वा तान् प्रत्यवदत्, निरामयलोकानां चिकित्सकेन प्रयोजनं नास्ति, किन्तु सामयलोकानां प्रयोजनमास्ते।
13अतो यूयं यात्वा वचनस्यास्यार्थं शिक्षध्वम्, दयायां मे यथा प्रीति र्न तथा यज्ञकर्म्मणि।यतोऽहं धार्म्मिकान् आह्वातुं नागतोऽस्मि किन्तु मनः परिवर्त्तयितुं पापिन आह्वातुम् आगतोऽस्मि।
14अनन्तरं योहनः शिष्यास्तस्य समीपम् आगत्य कथयामासुः, फिरूशिनो वयञ्च पुनः पुनरुपवसामः, किन्तु तव शिष्या नोपवसन्ति, कुतः?
15तदा यीशुस्तान् अवोचत् यावत् सखीनां संङ्गे कन्याया वरस्तिष्ठति, तावत् किं ते विलापं कर्त्तुं शक्लुवन्ति? किन्तु यदा तेषां संङ्गाद् वरं नयन्ति, तादृशः समय आगमिष्यति, तदा ते उपवत्स्यन्ति।
16पुरातनवसने कोपि नवीनवस्त्रं न योजयति, यस्मात् तेन योजितेन पुरातनवसनं छिनत्ति तच्छिद्रञ्च बहुकुत्सितं दृश्यते।
17अन्यञ्च पुरातनकुत्वां कोपि नवानगोस्तनीरसं न निदधाति, यस्मात् तथा कृते कुतू र्विदीर्य्यते तेन गोस्तनीरसः पतति कुतूश्च नश्यति; तस्मात् नवीनायां कुत्वां नवीनो गोस्तनीरसः स्थाप्यते, तेन द्वयोरवनं भवति।
18अपरं तेनैतत्कथाकथनकाले एकोऽधिपतिस्तं प्रणम्य बभाषे, मम दुहिता प्रायेणैतावत्काले मृता, तस्माद् भवानागत्य तस्या गात्रे हस्तमर्पयतु, तेन सा जीविष्यति।
19तदानीं यीशुः शिष्यैः साकम् उत्थाय तस्य पश्चाद् वव्राज।
20इत्यनन्तरे द्वादशवत्सरान् यावत् प्रदरामयेन शीर्णैका नारी तस्य पश्चाद् आगत्य तस्य वसनस्य ग्रन्थिं पस्पर्श;
21यस्मात् मया केवलं तस्य वसनं स्पृष्ट्वा स्वास्थ्यं प्राप्स्यते, सा नारीति मनसि निश्चितवती।
22ततो यीशुर्वदनं परावर्त्त्य तां जगाद, हे कन्ये, त्वं सुस्थिरा भव, तव विश्वासस्त्वां स्वस्थामकार्षीत्। एतद्वाक्ये गदितएव सा योषित् स्वस्थाभूत्।
23अपरं यीशुस्तस्याध्यक्षस्य गेहं गत्वा वादकप्रभृतीन् बहून् लोकान् शब्दायमानान् विलोक्य तान् अवदत्,
24पन्थानं त्यज, कन्येयं नाम्रियत निद्रितास्ते; कथामेतां श्रुत्वा ते तमुपजहसुः।
25किन्तु सर्व्वेषु बहिष्कृतेषु सोऽभ्यन्तरं गत्वा कन्यायाः करं धृतवान्, तेन सोदतिष्ठत्;
26ततस्तत्कर्म्मणो यशः कृत्स्नं तं देशं व्याप्तवत्।
27ततः परं यीशुस्तस्मात् स्थानाद् यात्रां चकार; तदा हे दायूदः सन्तान, अस्मान् दयस्व, इति वदन्तौ द्वौ जनावन्धौ प्रोचैराहूयन्तौ तत्पश्चाद् वव्रजतुः।
28ततो यीशौ गेहमध्यं प्रविष्टं तावपि तस्य समीपम् उपस्थितवन्तौ, तदानीं स तौ पृष्टवान् कर्म्मैतत् कर्त्तुं मम सामर्थ्यम् आस्ते, युवां किमिति प्रतीथः? तदा तौ प्रत्यूचतुः, सत्यं प्रभो।
29तदानीं स तयो र्लोचनानि स्पृशन् बभाषे, युवयोः प्रतीत्यनुसाराद् युवयो र्मङ्गलं भूयात्। तेन तत्क्षणात् तयो र्नेत्राणि प्रसन्नान्यभवन्,
30पश्चाद् यीशुस्तौ दृढमाज्ञाप्य जगाद, अवधत्तम् एतां कथां कोपि मनुजो म जानीयात्।
31किन्तु तौ प्रस्थाय तस्मिन् कृत्स्ने देशे तस्य कीर्त्तिं प्रकाशयामासतुः।
32अपरं तौ बहिर्यात एतस्मिन्नन्तरे मनुजा एकं भूतग्रस्तमूकं तस्य समीपम् आनीतवन्तः।
33तेन भूते त्याजिते स मूकः कथां कथयितुं प्रारभत, तेन जना विस्मयं विज्ञाय कथयामासुः, इस्रायेलो वंशे कदापि नेदृगदृश्यत;
34किन्तु फिरूशिनः कथयाञ्चक्रुः भूताधिपतिना स भूतान् त्याजयति।
35ततः परं यीशुस्तेषां भजनभवन उपदिशन् राज्यस्य सुसंवादं प्रचारयन् लोकानां यस्य य आमयो या च पीडासीत्, तान् शमयन् शमयंश्च सर्व्वाणि नगराणि ग्रामांश्च बभ्राम।
36अन्यञ्च मनुजान् व्याकुलान् अरक्षकमेषानिव च त्यक्तान् निरीक्ष्य तेषु कारुणिकः सन् शिष्यान् अवदत्,
37शस्यानि प्रचुराणि सन्ति, किन्तु छेत्तारः स्तोकाः।
38क्षेत्रं प्रत्यपरान् छेदकान् प्रहेतुं शस्यस्वामिनं प्रार्थयध्वम्।

موجودہ انتخاب:

मथिः 9: SAN-DN

سرخی

شئیر

موازنہ

کاپی

None

کیا آپ جاہتے ہیں کہ آپ کی سرکیاں آپ کی devices پر محفوظ ہوں؟ Sign up or sign in