Kisary famantarana ny YouVersion
Kisary fikarohana

मत्ति 25

25
दशकुमारिकाणां दृष्‍टान्‍तः
1तदा स्‍वर्गराज्‍यं ताभिः दशभिः कन्‍याभिः समम्‌ भविष्‍यति, याः स्‍वान्‌ प्रदीपान्‌ समादाय प्रत्‍युद्‌गन्‍तुं वरं निर्गताः। 2यासु पत्र्च आसन्‌ बुद्धिसंयुक्‍ताः, अन्‍याश्‍च पत्र्चकन्‍याः अतः अल्‍पबुद्धयः आसन्‌। 3अत्‍यल्‍पबुद्धयः स्‍वप्रदीपान्‌ समानयन्‌, किन्‍तु पात्रेषु तैलं ताः स्‍वसार्धम्‌ न समानयन्‌। 4बुद्धिमत्‍यस्‍तु पात्रेषु तैलं चापि समानयन्‌। 5वरे विलम्‍बमाने ताः सर्वाः निद्रावशं गताः। 6अर्द्धरात्रौ शब्‍दः अभूत्‌ - “पश्‍यत आयाति असौ वरः। 7यूयं तु स्‍वागतं कर्तुम्‌ द्रुतम्‌ प्रस्‍तुताः भवत।” तं शब्‍दं श्रुत्‍वा सर्वाः ताः दशकन्‍यकाः उत्‍थाय स्‍वदीपकान्‌ सज्‍जीकर्तुम्‌ प्रावर्त्तन्‍त। 8बुद्धिहीनाः कुमार्यः बुद्धिसंयुताः जगदुः, “यूयं स्‍वकीयतैलान्‍नः किंचित्‌ किंचित्‌ प्रयच्‍छत, यतः अस्‍माकं प्रदीपाः निर्वाणाय समुद्यताः। 9बुद्धिमत्‍यः उक्‍तवत्‍यः, “नैवं भवितुमर्हति, यतो हि तैलं पर्याप्‍तं वश्‍च, नश्‍च कृते नास्‍ति। 10वरं यूयं समीपतः विक्रेत्रृणां क्रीणीतैतद्‌। यावत्‌ ताः क्रेतुं गच्‍छन्‍ति, तावद्‌ वरः समागतः। सज्‍जीकृतप्रदीपास्‍तु कन्‍याः तेन वरेण सार्द्धम्‌ विवाहभवनं प्राविशन्‌, विवाहभवनद्वारं च आवृतम्‌ अभवत्‌। 11पश्‍चात्‌ ताः अपराः कन्‍याः आगत्‍य इदं बभाषिरे - प्रभो! अस्‍मत्‍कृते अपि द्वारमनावृतम्‌ देहि। 12सः तु ताः इत्‍थं प्रत्‍युवाच, “अहं युष्‍मान्‌ सत्‍यं ब्रवीमि, अहं युष्‍मान्‌ न जानामि।” 13अतः यूयं प्रजागृत सावधानाश्‍च तिष्‍ठत। यतो यूयं न तत्‌ दिवसं, न क्षणं जानीथ।
स्‍वर्णमुद्राणां दृष्‍टान्‍तः
(लूका 19:11-27)
14“स्‍वर्गराज्‍यं तेन मनुष्‍येण सदृशं वर्तते, यः विदेशप्रस्‍थानकाले भृत्‍यान्‌ समाह्‌वयत्‌, तेषां हस्‍तेषु स्‍वां सम्‍पत्तिं अर्पितवान्‌। 15असौ सर्वेषां प्रत्‍येकस्‍य योग्‍यताम्‌ समीक्ष्‍य एकस्‍मै पत्र्चसहस्रकम्‌ स्‍वर्णमुद्रां प्रयच्‍छत्‌, द्वितीयाय द्विसहस्र्रं, तृतीयाय सहस्रकम्‌। तत्‍पश्‍चात्‌ सः परदेशं गतवान्‌। 16यः पत्र्चसहस्रमुद्राम्‌ प्राप्‍तवान्‌, असौ ताभिः एव वाणिज्‍यं प्रकुर्वाणः द्विगुणं धनम्‌ उपार्जयद्‌, 17द्वितीयोऽपि वाणिज्‍येन तथैव तस्‍य धनस्‍य द्विगुणं चक्रे, 18किन्‍तु तृतीयकः स्‍वामिनो धनम्‌ भूमिं खनित्‍वा तत्रैव न्‍यगूहत्‌। 19काले गते सेवकानाम्‌ असौ प्रभुः, आगत्‍य सेवकैः सह ताः मुद्राः गणयामास। 20पत्र्चसहस्राणि मुद्राः यस्‍मै दत्ता, सः सेवकः द्विगुणामुद्राः आनीय, न्‍यवेदयत्‌, “प्रभो! पत्र्चसहस्रमुद्राः मयि समर्पिताः, पश्‍य, ताभिः मया तासां द्वैगुण्‍यं समुपार्जितम्‌।” 21स्‍वामी तं सेवकं प्राह, “साधु, विश्‍वस्‍तसेवक! त्‍वं भद्रः आसीः, स्‍वल्‍पे वित्ते समर्पिते त्‍वं विश्‍वस्‍तः असि। तुभ्‍यं बहुषु वस्‍तूनाम्‌ अधिकारं दास्‍यमि। स्‍वप्रभोः मुदः सहभागी भव।” 22ततो द्वितीयः आगत्‍य स्‍वामिनं प्रोक्‍तवान्‌ “मया अपि तासां मुद्राणां द्वैगुण्‍यं समुपार्जितम्‌।” 23स्‍वामी तं सेवकं प्राह, - साधु, विश्‍वस्‍त सेवक! आसीः त्‍वं भद्र! विश्‍वस्‍तः स्‍वल्‍पे वित्ते समर्पिते। इदानीं त्‍वां सुबहुषु वित्तेषु अधिकरोमि अहम्‌। गच्‍छ स्‍वप्रभोः मुदः सहभागी भव।” 24ततः यस्‍मिन्‌ सहस्रकम्‌ मुद्राः समर्पिता आसन्‌, सः एत्‍य स्‍वामिनं प्राह, “प्रभो! मया विदितः यत्‌ त्‍वं कठोरचित्तोऽसि, यत्र वीजानि न उप्‍तवान्‌ तत्र कृन्‍तसि शस्‍यानि, तत्रैव संचिनोषि च यत्र त्‍वया न विकीर्णम्‌। 25तस्‍माद्‌ भवतः धनात्‌ भीतः, गत्‍वा भूमिं खनित्‍वा तत्र एव अहं निगूढवान्‌। त्‍वदीया ताः मुद्राः तुभ्‍यमेव समर्पये। स्‍वामी तम्‌ इदम्‌ अब्रवीत्‌, 26“रे दुष्‍ट आलसिन्‌ दास! त्‍वया इदं ज्ञातम्‌ आसीत्‌ यत्‌ मया कर्तनं क्रियते तत्र, यत्र बीजं न उप्‍यते। न विकीर्णम्‌ं यत्र तत्र संचीयते मया। 27ततः त्‍वया कथं मुद्राः ताः वणिग्‍भ्‍यः न अर्पिताः। तथा कृतेऽहमागत्‍य तं धनम्‌ व्‍याजेन सह अग्रहीष्‍यम्‌। 28अतो यूयं सहस्रं ताः मुद्राः अस्‍मात्‌ नरात्‌ आदाय दत्त, तस्‍मै यः आस्‍ते दशसहस्रवान्‌। 29यतो हि यस्‍य आस्‍ते किंचित्‌ तस्‍मात्‌ एव प्रदास्‍यते। तस्‍य नरस्‍य तत्‌ धनस्‍य प्राचुर्यम्‌ं भविष्‍यति। परन्‍तु यस्‍य पार्श्‍वे किंचन न वर्तते, तस्‍य यत्‌ अस्‍ति तत्‌ अपि तस्‍मात्‌ अपहरिष्‍यते। 30इमं निष्‍क्रियं दासं बहिः क्षेपय, यत्र ये जनाः रोदिष्‍यन्‍ति, दन्‍तकान्‌ घर्षिष्‍यन्‍ति च।
अंतिमः न्‍यायस्‍य दिवसः
31“यदा मानवपुत्रः स्‍वमहिम्‍ना समन्‍वितः सकलैः स्‍वर्गदूतैः परिवृतः आयास्‍यति, तदा महिम्‍ना उपेतं स्‍वं सिंहासनम्‌ आरोक्ष्‍यति। 32सर्वाणि राष्‍ट्राणि तस्‍य सम्‍मुखम्‌ आनीष्‍यन्‍ते। 33यथा मेषपालकः मेषान्‌ छागेभ्‍यः पृथक्‌ कुरुते तथा मनुजान्‌ विभज्‍य पृथक्‌ करिष्‍यति, स्‍वदक्षिणे भागे मेषान्‌, वामभागे छागान्‌ स्‍थापयिष्‍यति।
34“तदा स्‍वदक्षिणे स्‍थितान्‌ जनान्‌ भाषिष्‍यते, हे मम पितुः कृपापात्राः ! यूयम्‌ आयात भुड्‌.क्‍त च, तद्‌ राज्‍यं, यत्‌ युष्‍मदर्थम्‌ सृष्‍टेः आरभ्‍यः कल्‍पितम्‌ 35यतः मह्यं क्षुधार्त्ताय युष्‍माभिः भक्ष्‍यम्‌ अर्पितम्‌, तथा मे तृषार्त्ताय दत्तं तोयम्‌, मे परदेशिने यूयं गृहे वासं दत्तवन्‍तः, 36मे विवस्‍त्राय युष्‍माभिः वस्‍त्राणि अर्पितानि च, अस्‍वस्‍थोऽहं यदा अभवम्‌, यूयं मां पर्यपश्‍यत, कारागारे बद्धं मां यूयं द्रष्‍टुम्‌ आगताः, 37“एवं प्रभाषमाणं तं धार्मिकाः प्रतिवक्ष्‍यन्‍ति, कदा त्‍वम्‌ अस्‍माभिः क्षुत्तृषार्दितः दृष्‍टोऽसि, यदा त्‍वं अस्‍माभिः भक्ष्‍येण अथ जलेन च तर्पितः? 38प्रभो! कदा त्‍वम्‌ अस्‍माभिः परदेशी दृष्‍टः, यदा तुभ्‍यं कृपापूर्वम्‌ अस्‍माभिः वासो समर्पितः? 39कदा दृष्‍टो विवस्‍त्रः त्‍वं वस्‍त्रं च परिधापितः। कदा दृष्‍टो रुजाक्रान्‍तो बद्धो कारागृहे अथवा, कदा वयं द्रष्‍टुं त्‍वां तथाविधम्‌ आगताः?” 40एवम्‌ आकर्ण्‍य राजा तान्‌ इत्‍थं प्रतिवदिष्‍यति, “अहं युष्‍मान्‌ व्रवीमि, युष्‍माभिः मम लघुषु अपि भ्रातृषु एतेषु कम्‌ अपि प्रति किंचित्‌ अनुष्‍ठितम्‌ यत्‌ तत्‌ सर्वम्‌ हि युष्‍माभिः मां प्रति एव कृतम्‌।”
41“ततो वामे स्‍थितान्‌ सर्वान्‌ जनान्‌ इत्‍थं सः वक्ष्‍यति, ‘अरे अभिशप्‍ताः! मद्‌ दूरं यूयं सर्वे अपगच्‍छत, अनन्‍तम्‌ अग्‍निं तं यः तु शातनस्‍य तथा तस्‍य दूतानां च कृते उपकल्‍पितः वर्तते। 42यतो मह्यं क्षुधार्त्ताय यूयं भोजनम्‌ न अदत्त। तथा मह्यं तृषार्त्ताय युष्‍माभिः जलम्‌ नार्पितम्‌, 43मे परदेशिने युष्‍माभिः वासो न प्रदत्तश्‍च। वस्‍त्रहीनाय युष्‍माभिः वस्‍त्रं न समर्पितम्‌। रुग्‍णं बद्धं च कारायां मां द्रष्‍टुं न समागताः।” 44ततः ते अपि तं प्रक्ष्‍यन्‍ति, ‘प्रभो! कदा क्षुधाक्रान्‍तः आकुलः वा पिपासया, अतिथिः वस्‍त्रहीनो वा व्‍याधिना वा प्रपीडितः, बद्धः कारागारे वा त्‍वम्‌ अस्‍माभिः अवलोकितः, यदा विजानदि्‌भः अस्‍माभिः तव उपेक्षणं कृतम्‌? तदा त्‍वदीया न अस्‍माभिः परिचर्या कृता।” 45सः राजा तान्‌ सर्वान्‌ इत्‍थं वदिष्‍यति, “अहं ब्रवीमि युष्‍माभिः यत्‌ न कृतम्‌ क्षोदिष्‍ठेषु अपि मे भ्रातृषु एकं च कमपि प्रति, तन्‍न खलु युष्‍माभिः विहितं माम्‌ अपि प्रति।’ तथा च एते गमिष्‍यन्‍ति दण्‍डं भोक्‍तुम्‌ अनन्‍तकम्‌। 46धार्मिकास्‍तु मुदा शाश्‍वतं जीवनं प्रवेक्ष्‍यन्‍ति।”

Voafantina amin'izao fotoana izao:

मत्ति 25: SANSKBSI

Asongadina

Dika mitovy

Mampitaha

Hizara

None

Tianao hovoatahiry amin'ireo fitaovana ampiasainao rehetra ve ireo nasongadina? Hisoratra na Hiditra