Kisary famantarana ny YouVersion
Kisary fikarohana

मत्ति 19

19
1येशुः स्‍वीयम्‌ उपदेशं समाप्‍य गलीलप्रदेशात्‌ प्रस्‍थाय, यर्दनं पारे यहूदाप्रदेशम्‌ आगतवान्‌। 2एकः विशालः जनसमूहः तम्‌ अनुजगाम, येशुः तत्र आगतान्‌ सर्वान्‌ जनान्‌ निरामयान्‌ कृतवान्‌।
विवाहस्‍य बन्‍धनम्‌
(मर 10:1-12)
3ततः फरीसिनः येशोः पार्श्‍वम्‌ आगतवन्‍तः। ते तं परीक्षमाणाः एतत्‌ प्रश्‍नम्‌ अकुर्वन्‌, “किं केनापि मनुष्‍येण येन केनापि हेतुना पत्‍नीत्‍यागः विधातव्‍यः?” 4इदं श्रुत्‍वा येशुः अब्रवीत्‌, “इदं युष्‍माभिः न पठितं, यत्‌ आदितः सृष्‍टिकर्ता नरं नारीं च निर्मितवान्‌ 5जगाद च, एतद्‌ हेतोः मनुष्‍यः स्‍वकौ पितरौ त्‍यक्ष्‍यति, स्‍वपत्‍न्‍या सह स्‍थास्‍यति, तथा च उभौ एककायौ भविष्‍यथ? 6इत्‍थं तौ न पुनर्द्वौ अपितु एकशरीरं स्‍तः। अतः परमेश्‍वरेण यत्‌ संयोजितं, तत्‌ मनुष्‍येण कदापि कुत्रापि मा वियोज्‍यताम्‌।” 7ते येशुम्‌ अवदन्‌ “तदा मूसा कथम्‌ एताम्‌ आज्ञां प्रदत्तवान्‌ त्‍यागपत्रं प्रदायैव पत्‍न्‍याः त्‍यागः विधीयते?” 8येशुः तान्‌ प्रत्‍युवाच, “युष्‍माकं हृदयस्‍य कठोरतायाः कारणात्‌ मूसा युष्‍मभ्‍यम्‌ युष्‍मान्‌ पत्‍नीत्‍यागस्‍य अनुमतिम्‌ अददात्‌, परन्‍तु प्रारम्‍भात्‌ एवं न आसीत्‌। 9अहं युष्‍मान्‌ ब्रवीमि, कश्‍चित्‌ तु व्‍यभिचारतः केनचित्‌ अन्‍यकारणात्‌, पत्‍नीत्‍यागं करोति चेत्‌, अन्‍यां नारीं च उद्‌वहति, सः व्‍यभिचारं करोति।”
10शिष्‍याः तम्‌ ऊदुः “यदि पतिपत्‍न्‍योः ईदृशः सम्‍बन्‍धः तदा उद्‌वाहः न हितावहः वर्तते।” 11येशुः तान्‌ उवाच, “सर्वैः वार्ता इयं न अवबुध्‍यते, परन्‍तु ते एव बुध्‍यन्‍ते येभ्‍यः वरः प्राप्‍तः। 12यतः केचित्‌ आ मातुः जठरात्‌ नपुंसकाः जाताः सन्‍ति। केचित्‌ मनुष्‍यैः नंपुसकीकृताः, केचित्‌ तु स्‍वर्गराज्‍यस्‍य कृते नपुंसकाः अभवन्‌। यस्‍य अस्‍ति खलु सामर्थ्‍यम्‌ सः एतद्‌ अवबुध्‍यताम्‌।”
शिशुभ्‍यः आशीर्वचनम्‌
(मर 10:13-16; लूका 18:15-17)
13तस्‍मिन्‌ काले जनाः येशोः पार्श्‍वम्‌ स्‍वबालकान्‌ आनीतवन्‍तः, येन येशुः तेषु स्‍वं हस्‍तं निधाय प्रार्थयेत्‌। शिष्‍याः तान्‌ भर्त्‍सयामास, 14परन्‍तु येशुः तान्‌ अवदत्‌, “बालकान्‌ मम अन्‍तिकम्‌ आगमने मा वारयत, यतः स्‍वर्गराज्‍यं शिशुजनानाम्‌ एव वर्तते।” 15तेषु स्‍वहस्‍तकं हस्‍तं निधाय तत्रतः प्रयातवान्‌ च।
धनसम्‍पत्तिः शाश्‍वतजीवनम्‌ वा
(मर 10:17-22; लूका 18:18-23)
16कश्‍चित्‌ जनः येशोः अन्‍तिकम्‌ आगत्‍य उक्‍तवान्‌, “गुरो! अनन्‍तजीवनस्‍य प्राप्‍तये मया किं भद्रकार्यम्‌ करणीयम्‌ अस्‍ति?” 17येशुः अब्रवीत्‌, “कथं त्‍वं मां भद्रकार्यम्‌ हि पृच्‍छसि? एकम्‌ एव भद्रकार्यम्‌ अस्‍ति। यदि त्‍वं जीवनं प्रवेष्‍टुम्‌ इच्‍छसि, तदा आज्ञां परिपालय।” 18सः पृष्‍टवान्‌ “काः आज्ञाः? येशुः तम्‌ इदम्‌ अब्रवीत्‌, “हत्‍यां, व्‍यभिचारं, मृषासाक्ष्‍यं चौर्यम्‌ च मा कुरु” 19स्‍वपितरौ आद्रियस्‍व तथा एवं प्रतिवेशिनम्‌ प्रति आत्‍मवत्‌ त्‍वया प्रेम सर्वदा एव विधीयताम्‌।” 20युवा तम्‌ जगाद, “सर्वम्‌ मया एतत्‌ परिपालितम्‌। तर्हि मेऽपूर्णता कस्‍य वस्‍तुनः अधुना वर्तते?” 21येशुः तम्‌ आह, “पूर्णश्‍चेत्‌ त्‍वं भवितुम्‌ इच्‍छसि, तर्हि सर्वस्‍वं विक्रीय तत्‌ दरिद्रेभ्‍यः देहि, तव कृते स्‍वर्गे च अवश्‍यं धनराशिः निधास्‍यते। ततः परं समागत्‍य मम अनुसरणं कुरु।” 22एतत्‌ आकर्ण्‍य सः नवयुवकः परमं विषादं ययौ। सः स्‍वकं गेहं जगाम, यतः सः महाधनी आसीत्‌।
धनेन अवरोधः
(मर 10:23-27; लूका 18:24-27)
23तदा येशुः स्‍वान्‌ शिष्‍यान्‌ आह, “अहं युष्‍मान्‌ ब्रवीमि-धनिनां स्‍वर्गराज्‍ये प्रवेशः अति दुष्‍करः भविष्‍यति। 24अहं पुनः युष्‍मान्‌ वदामि “सूचीछिद्रेण उष्‍ट्राणाम्‌ निर्गमः अति साध्‍योऽस्‍ति, परन्‍तु धनिनाम्‌ स्‍वर्गराज्‍ये प्रवेशः महान्‌ दुष्‍करः वर्तते।” 25एतत्‌ आकर्ण्‍य शिष्‍याः परमं विस्‍मयं ययुः उक्‍तवन्‍तश्‍च, “प्रभो! कः तर्हि तरितुं शक्‍नोति?” 26येशुः तान्‌ स्‍थिरया दृष्‍ट्‌या पश्‍यन्‌ एव अभाषत, “मनुष्‍याणां तु इदं सर्वम्‌ असंभवम्‌ वर्तते, परन्‍तु परमेश्‍वराय तु सर्वम्‌ संभवं खलु वर्तते।”
स्‍वैच्‍छिकी निर्धनता
(लूका 18:28-30)
27तदानीं पतरसः येशुं प्राह, “भवान्‌ पश्‍येत्‌ वयं सर्वम्‌ परित्‍यज्‍य भवतः अनुयायिनः स्‍मः। एवं कृते अस्‍मभ्‍यम्‌ किं लप्‍स्‍यते?” 28येशुः तान्‌ अब्रवीत्‌, “अहं युष्‍मान्‌, अनुयायिनः वच्‍मि-मानवपुत्रः, पुनरुत्‍थाने आत्‍मनः महिमामयं सिंहासनम्‌ आरूढ़ः भविष्‍यति, तदा यूयम्‌ अपि द्वादशानां सिंहासनेषु उपविश्‍य, इस्राएलस्‍य द्वादशानां वंशानां न्‍यायं विधास्‍यथ। 29तथा यः कश्‍चित्‌ मत्‍कृते मातरं पितरं तथा भ्रातरं भगिनीं चापि गृहं च, स्‍वकं अतिप्रियं भार्याम्‌, भूमिं, सन्‍तानान्‌ च त्‍यक्‍तवान्‌ अस्‍ति, असौ शतगुणं लप्‍स्‍यते तथा अनन्‍तजीवनस्‍य अधिकारी भविष्‍यति।
30बहवः जनाः ये प्रथमे सन्‍ति, ते अन्‍तिमाः भविष्‍यन्‍ति, ये अन्‍तिमाः सन्‍ति ते प्राथम्‍यं च लप्‍स्‍यन्‍ते।”

Voafantina amin'izao fotoana izao:

मत्ति 19: SANSKBSI

Asongadina

Dika mitovy

Mampitaha

Hizara

None

Tianao hovoatahiry amin'ireo fitaovana ampiasainao rehetra ve ireo nasongadina? Hisoratra na Hiditra

Horonantsary ho an'i मत्ति 19