Kisary famantarana ny YouVersion
Kisary fikarohana

मत्ति 10

10
द्वादशानां प्रेरितानां नामानि
(मर 3:13-19; लूका 6:13-16)
1येशुः निजद्वादशशिष्‍यान्‌ स्‍वान्‍तिकम्‌ आहूय, अशुद्धात्‍मनः निःसारणाय, सर्वरोगाणां, दौर्बल्‍यस्‍य प्रतीकाराय च तेभ्‍यः अधिकारम्‌ प्रदत्तवान्‌।
2द्वादशशिष्‍याणां नामानि ईदृशानि सन्‍ति - प्रथमः, सिमोनः यः पतरसः कथ्‍यते, तस्‍य भ्राता च अन्‍द्रेयासः; जेबेदीपुत्र याकुबः तस्‍य भ्राता च योहनः, 3फिलिपः बरतोलोमी च; थोमसः, शुल्‍कसमाहर्ता मत्ती; हलफईसुतयाकुबः, थद्देयुसः, 4सिमोनः कनानी, यूदसः इस्‍करियोती यः येशुम्‌ शत्रवे अर्पयत्‌।
द्वादशानां प्रेषणम्‌
(मर 6:7-13; लूका 9:1-6)
5येशुः तान्‌ द्वादशप्रेरितान्‌ अनुदिश्‍य प्रेषितवान्‌, “युष्‍माभिः अन्‍यराष्‍ट्राणि न गन्‍तव्‍यानि, तथैव सामरिणाम्‌ नगरं न गन्‍तव्‍यम्‌, 6अपितु इस्राएलकुलस्‍य ये मेषाः हारिताः सन्‍ति, तेषां गृहे यूयं गच्‍छत। 7पथि गच्‍छद्‌भिः युष्‍माभिः उपदेशः दातव्‍यम्‌ स्‍वर्गराज्‍यं समीपस्‍थं वर्तते। 8कुष्‍ठिनः शुद्धान्‌ कुरुत, मृतान्‌ जीवयत, अपदूतान्‌ निःसारयत; लब्‍धं मूल्‍यं विना एव दत्त। 9स्‍वे कटिबन्‍धे स्‍वर्णम्‌, रजकं रुप्‍यकं वा न निधायत। 10यात्रायाः कृते न शाणपुटः, न द्वे वस्‍त्रे, न उपानहौ, न यष्‍टिः वा नयत, यतः श्रमिकाय भोजनस्‍य अधिकारः अस्‍ति।”
11किचिंत्‌ नगरं किचिंत्‌ ग्रामम्‌ वा आसाद्‌य, कश्‍चिद्‌ सम्‍मानितः नरः युष्‍माभिः अन्‍वेष्‍टव्‍यः, नगरात्‌ प्रस्‍थानं यावत्‌ तस्‍य एव गृहे तिष्‍ठत। 12तस्‍मिन्‌ गृहे प्रवेशसमये तस्‍मै शान्‍त्‍याः आशिषम्‌ दत्त। 13यदि तत्‌ गृहं योग्‍यं स्‍यात्‌, तव शान्‍तिः तस्‍मिन्‌ अवतरिष्‍यति। यदि तत्‌ गृहम्‌ अयोग्‍यं स्‍यात्‌, तव शान्‍तिः पुनः तव समीपे प्रत्‍यागमिष्‍यति। 14यदि कश्‍चिद्‌ जनः युष्‍माकं स्‍वागतं न विदधाति, युष्‍माकं वचनानि न शृणोति, तदा तस्‍मात्‌ गृहात्‌, नगरात्‌ वा निर्गत्‍य स्‍वीयेभ्‍यः चरणेभ्‍यः धूलिम्‌ अवधूनुत। 15अहं युष्‍मान्‌ ब्रवीमि - न्‍यायस्‍य दिने, तस्‍य दशायाः सोदोमस्‍य तथैव गोमोरायाः नगराणां दशा सहनीयतरा भविष्‍यति।
भाविसंकटम्‌
(मर 13:9-13; लूका 21:12-19)
16“पश्‍यत! अहं युष्‍मान्‌ वृकाणां मध्‍ये मेषानाम्‌ इव प्रेषयामि। अतः भुजंगानाम्‌ इव चतुराः, कपोता इव निश्‍छलाः भवत। 17मनुष्‍येभ्‍यः अवहिताः भवत, ते युष्‍मान्‌ न्‍यायालयेषु समर्पयिष्‍यन्‍ति, स्‍वसभागृहेषु कशाभिः प्रहरिष्‍यन्‍ति। 18मत्‌ कारणात्‌ युष्‍मान्‌ शासकानां सन्‍निधौ नेष्‍यन्‍ति, येन मम विषये यूयं तेभ्‍यः यहूदिभ्‍यः इतरेषां कृते च साक्ष्‍यं दास्‍यथ।
19यदा ते युष्‍मान्‌ न्‍यायालये समर्पयिष्‍यन्‍ति, मा चिन्‍तयिष्‍यथ यत्‌ वयं कथं वदिष्‍यामः, किं वदिष्‍यामः। समये आगते सति युष्‍मभ्‍यम्‌ वक्‍तुं शब्‍दाः दास्‍यन्‍ते, 20यतः यूयं न वक्‍तारः, वरन्‌ पितुः आत्‍मा वर्तते, यः युष्‍माभिः वदति। 21भ्राता तु भ्रातरं, जनकः स्‍वपुत्रं मृत्‍यवे अर्पयिष्‍यति। सन्‍तानः पित्रोः विरुद्धे उत्‍थास्‍यति, घातयिष्‍यति च। 22मम नाम हेतुना यूयं सर्वे सर्वेषां द्वेषपात्राणि भविष्‍यथ, परन्‍तु यः अन्‍तं यावत्‌ स्‍थिरः स्‍थास्‍यति, तस्‍मै मुक्‍तिः लप्‍स्‍यते।
23यदि ते युष्‍मान्‌ एकस्‍मात्‌ नगरात्‌ बहिष्‍कुर्वन्‍ति, तदा अन्‍यस्‍मिन्‌ नगरे पलायध्‍वम्‌। अहं युष्‍मान्‌ ब्रवीमि - इस्रायलप्रदेशेषु युष्‍माकं कार्यावसानतः प्रागेव मानवपुत्रः एष्‍यति।
24शिष्‍यः गुरोः न श्रेयान्‌, सेवकः स्‍वामितो न। 25शिष्‍याय स्‍व गुरोः इव, सेवकाय स्‍वामिनः इव भवनम्‌ एव पर्याप्‍तम्‌। जनाः चेत्‌ स्‍वं गृहस्‍य अधिपम्‌ “बअलजबुल” (अपदूतानां नायकः) इत्‍याहुः, तदा तस्‍य गृहवासिनः अधिकं किम्‌ न अभिधास्‍यन्‍ति?
शिष्‍याणां निर्भीकतया येशोः स्‍वीकरणम्‌
(लूका 12:2-9)
26“अतः तेभ्‍यो युष्‍माभिः न भेतव्‍यम्‌। न एतादृशं किंचित्‌ गुप्‍तं यत्‌ प्रकाशे न आनेष्‍यते, ईदृशं किंचित्‌ गूढं न, यत्‌, विज्ञातं न भविष्‍यति। 27अहं यत्‌ तमसि वदामि, तत्‌ प्रकाशे श्रावयथ। यत्‌ युष्‍मभ्‍यम्‌ श्रवणेषु कथयते तत्‌ उच्‍चैः स्‍वरैः कथयथ। 28तेभ्‍यः मा बिभीत ये केवलं देहं ध्‍नन्‍ति। परन्‍तु तस्‍मात्‌ बिभीत, यः शरीरस्‍य आत्‍मनः च अपि नरके नाशं कर्तुम्‌ समर्थो अस्‍ति। 29किं एकेन ताम्रस्‍य खण्‍डेन चटकद्वयम्‌ न विक्रीयते? तथापि युष्‍माकं पितुः अनुमत्‍या विना तेषु चटकेषु एकोऽपि भूमौ न पतति। 30युष्‍माकं शिरसां शिरोरुहाः सर्वे गणिताः सन्‍ति। 31अतएव मा बिभीत। यूयं चटकेभ्‍यः विशिष्‍यध्‍वे। 32यः मनुष्‍याणां समक्षं माम्‌ स्‍वीकरोति, तमहं स्‍वर्गस्‍थस्‍य पितुः पुरः स्‍वीकरिष्‍यामि, 33यः मां मनुष्‍याणां समक्षं न स्‍वीकरोति, तमहं स्‍वर्गस्‍थस्‍य पिुतुः पुरः अस्‍वीकरिष्‍यामि।
भेदस्‍य कारणम्‌
(लूका 12:51-55)
34यूयं स्‍वमनसि इत्‍थं कदापि न अवगच्‍छत, अहं भुवि शान्‍तिं नीत्‍वा आगच्‍छम्‌। अहं शान्‍तिं न, अपितु खड्‌गम्‌ आदाय आगतोऽस्‍मि। 35अहं पुत्रं, पितुः विरोधे, पुत्रीं मातुः विरोधे, स्‍नुषां श्‍वश्रोः विरुद्धे कर्तुमागतोऽस्‍मि। 36मनुष्‍यस्‍य स्‍वगृहे् एव तस्‍य शत्रवः भविष्‍यन्‍ति।
आत्‍मत्‍यागः
(लूका 14:26-27; 9:23-24; मर 8:34-35)
37-38“यस्‍तु स्‍वपितरं मातरं वा मत्तः अधिकं प्रेम विदधाति, सः मम योग्‍यः न वर्तते। यः स्‍वं क्रूसमादाय माम्‌ न अनुयाति, सः मम योग्‍यः न अस्‍ति। यस्‍तु निजजीवनम्‌ रक्षितुं प्रयतते, सः मनुष्‍यः स्‍वीयं जीवनं नाशयिष्‍यति। 39किन्‍तु यः मत्‍कृते स्‍वजीवनम्‌ अनशत्‌ सैव स्‍वीयं जीवनं रक्षितुं शक्ष्‍यति।
पुरस्‍कारः
40“यः युष्‍मान्‌ गृह्‌णाति सः मां गृह्‌णाति, यः मां गृह्‌णाति, सः मम प्रेषकम्‌ एव गृह्‌णाति। 41यः नबिनः स्‍वागतं करोति, यतः नबी सः वर्तते, सः नबिनः पुरस्‍कारं लप्‍स्‍यते। धर्म इति प्रत्‍ययाद्‌ यः धर्मिनं गृह्‌णाति, सः धर्मिणः पुरस्‍कारं लप्‍स्‍यते।
42यः एतेषां लघूनां कंचित्‌ एकं सुशीतलम्‌ सलिलं पूर्णचषकम्‌ एकं पाययते, मम शिष्‍यः अस्‍ति इति विश्‍वासात्‌, सः स्‍वस्‍मात्‌ पुरस्‍कारात्‌ वंचितः न भविष्‍यति।”

Voafantina amin'izao fotoana izao:

मत्ति 10: SANSKBSI

Asongadina

Dika mitovy

Mampitaha

Hizara

None

Tianao hovoatahiry amin'ireo fitaovana ampiasainao rehetra ve ireo nasongadina? Hisoratra na Hiditra

Horonantsary ho an'i मत्ति 10