मथिः 21
21
1अनन्तरं तेषु यिरूशालम्नगरस्य समीपवेर्त्तिनो जैतुननामकधराधरस्य समीपस्थ्तिं बैत्फगिग्रामम् आगतेषु, यीशुः शिष्यद्वयं प्रेषयन् जगाद,
2युवां सम्मुखस्थग्रामं गत्वा बद्धां यां सवत्सां गर्द्दभीं हठात् प्राप्स्यथः, तां मोचयित्वा मदन्तिकम् आनयतं।
3तत्र यदि कश्चित् किञ्चिद् वक्ष्यति, तर्हि वदिष्यथः, एतस्यां प्रभोः प्रयोजनमास्ते, तेन स तत्क्षणात् प्रहेष्यति।
4सीयोनः कन्यकां यूयं भाषध्वमिति भारतीं। पश्य ते नम्रशीलः सन् नृप आरुह्य गर्दभीं। अर्थादारुह्य तद्वत्समायास्यति त्वदन्तिकं।
5भविष्यद्वादिनोक्तं वचनमिदं तदा सफलमभूत्।
6अनन्तरं तौ श्ष्यिौ यीशो र्यथानिदेशं तं ग्रामं गत्वा
7गर्दभीं तद्वत्सञ्च समानीतवन्तौ, पश्चात् तदुपरि स्वीयवसनानी पातयित्वा तमारोहयामासतुः।
8ततो बहवो लोका निजवसनानि पथि प्रसारयितुमारेभिरे, कतिपया जनाश्च पादपपर्णादिकं छित्वा पथि विस्तारयामासुः।
9अग्रगामिनः पश्चाद्गामिनश्च मनुजा उच्चैर्जय जय दायूदः सन्तानेति जगदुः परमेश्वरस्य नाम्ना य आयाति स धन्यः, सर्व्वोपरिस्थस्वर्गेपि जयति।
10इत्थं तस्मिन् यिरूशालमं प्रविष्टे कोऽयमिति कथनात् कृत्स्नं नगरं चञ्चलमभवत्।
11तत्र लोकोः कथयामासुः, एष गालील्प्रदेशीय-नासरतीय-भविष्यद्वादी यीशुः।
12अनन्तरं यीशुरीश्वरस्य मन्दिरं प्रविश्य तन्मध्यात् क्रयविक्रयिणो वहिश्चकार; वणिजां मुद्रासनानी कपोतविक्रयिणाञ्चसनानी च न्युव्जयामास।
13अपरं तानुवाच, एषा लिपिरास्ते, "मम गृहं प्रार्थनागृहमिति विख्यास्यति", किन्तु यूयं तद् दस्यूनां गह्वरं कृतवन्तः।
14तदनन्तरम् अन्धखञ्चलोकास्तस्य समीपमागताः, स तान् निरामयान् कृतवान्।
15यदा प्रधानयाजका अध्यापकाश्च तेन कृतान्येतानि चित्रकर्म्माणि ददृशुः, जय जय दायूदः सन्तान, मन्दिरे बालकानाम् एतादृशम् उच्चध्वनिं शुश्रुवुश्च, तदा महाक्रुद्धा बभूवः,
16तं पप्रच्छुश्च, इमे यद् वदन्ति, तत् किं त्वं शृणोषि? ततो यीशुस्तान् अवोचत्, सत्यम्; स्तन्यपायिशिशूनाञ्च बालकानाञ्च वक्त्रतः। स्वकीयं महिमानं त्वं संप्रकाशयसि स्वयं। एतद्वाक्यं यूयं किं नापठत?
17ततस्तान् विहाय स नगराद् बैथनियाग्रामं गत्वा तत्र रजनीं यापयामास।
18अनन्तरं प्रभाते सति यीशुः पुनरपि नगरमागच्छन् क्षुधार्त्तो बभूव।
19ततो मार्गपार्श्व उडुम्बरवृक्षमेकं विलोक्य तत्समीपं गत्वा पत्राणि विना किमपि न प्राप्य तं पादपं प्रोवाच, अद्यारभ्य कदापि त्वयि फलं न भवतु; तेन तत्क्षणात् स उडुम्बरमाहीरुहः शुष्कतां गतः।
20तद् दृष्ट्वा शिष्या आश्चर्य्यं विज्ञाय कथयामासुः, आः, उडुम्वरपादपोऽतितूर्णं शुष्कोऽभवत्।
21ततो यीशुस्तानुवाच, युष्मानहं सत्यं वदामि, यदि यूयमसन्दिग्धाः प्रतीथ, तर्हि यूयमपि केवलोडुम्वरपादपं प्रतीत्थं कर्त्तुं शक्ष्यथ, तन्न, त्वं चलित्वा सागरे पतेति वाक्यं युष्माभिरस्मिन शैले प्रोक्तेपि तदैव तद् घटिष्यते।
22तथा विश्वस्य प्रार्थ्य युष्माभि र्यद् याचिष्यते, तदेव प्राप्स्यते।
23अनन्तरं मन्दिरं प्रविश्योपदेशनसमये तत्समीपं प्रधानयाजकाः प्राचीनलोकाश्चागत्य पप्रच्छुः, त्वया केन सामर्थ्यनैतानि कर्म्माणि क्रियन्ते? केन वा तुभ्यमेतानि सामर्थ्यानि दत्तानि?
24ततो यीशुः प्रत्यवदत्, अहमपि युष्मान् वाचमेकां पृच्छामि, यदि यूयं तदुत्तरं दातुं शक्ष्यथ, तदा केन सामर्थ्येन कर्म्माण्येतानि करोमि, तदहं युष्मान् वक्ष्यामि।
25योहनो मज्जनं कस्याज्ञयाभवत्? किमीश्वरस्य मनुष्यस्य वा? ततस्ते परस्परं विविच्य कथयामासुः, यदीश्वरस्येति वदामस्तर्हि यूयं तं कुतो न प्रत्यैत? वाचमेतां वक्ष्यति।
26मनुष्यस्येति वक्तुमपि लोकेभ्यो बिभीमः, यतः सर्व्वैरपि योहन् भविष्यद्वादीति ज्ञायते।
27तस्मात् ते यीशुं प्रत्यवदन्, तद् वयं न विद्मः। तदा स तानुक्तवान्, तर्हि केन सामरथ्येन कर्म्माण्येतान्यहं करोमि, तदप्यहं युष्मान् न वक्ष्यामि।
28कस्यचिज्जनस्य द्वौ सुतावास्तां स एकस्य सुतस्य समीपं गत्वा जगाद, हे सुत, त्वमद्य मम द्राक्षाक्षेत्रे कर्म्म कर्तुं व्रज।
29ततः स उक्तवान्, न यास्यामि, किन्तु शेषेऽनुतप्य जगाम।
30अनन्तरं सोन्यसुतस्य समीपं गत्वा तथैव कथ्तिवान्; ततः स प्रत्युवाच, महेच्छ यामि, किन्तु न गतः।
31एतयोः पुत्रयो र्मध्ये पितुरभिमतं केन पालितं? युष्माभिः किं बुध्यते? ततस्ते प्रत्यूचुः, प्रथमेन पुुत्रेण। तदानीं यीशुस्तानुवाच, अहं युष्मान् तथ्यं वदामि, चण्डाला गणिकाश्च युष्माकमग्रत ईश्वरस्य राज्यं प्रविशन्ति।
32यतो युष्माकं समीपं योहनि धर्म्मपथेनागते यूयं तं न प्रतीथ, किन्तु चण्डाला गणिकाश्च तं प्रत्यायन्, तद् विलोक्यापि यूयं प्रत्येतुं नाखिद्यध्वं।
33अपरमेकं दृष्टान्तं शृणुत, कश्चिद् गृहस्थः क्षेत्रे द्राक्षालता रोपयित्वा तच्चतुर्दिक्षु वारणीं विधाय तन्मध्ये द्राक्षायन्त्रं स्थापितवान्, माञ्चञ्च निर्म्मितवान्, ततः कृषकेषु तत् क्षेत्रं समर्प्य स्वयं दूरदेशं जगाम।
34तदनन्तरं फलसमय उपस्थिते स फलानि प्राप्तुं कृषीवलानां समीपं निजदासान् प्रेषयामास।
35किन्तु कृषीवलास्तस्य तान् दासेयान् धृत्वा कञ्चन प्रहृतवन्तः, कञ्चन पाषाणैराहतवन्तः, कञ्चन च हतवन्तः।
36पुनरपि स प्रभुः प्रथमतोऽधिकदासेयान् प्रेषयामास, किन्तु ते तान् प्रत्यपि तथैव चक्रुः।
37अनन्तरं मम सुते गते तं समादरिष्यन्ते, इत्युक्त्वा शेषे स निजसुतं तेषां सन्निधिं प्रेषयामास।
38किन्तु ते कृषीवलाः सुतं वीक्ष्य परस्परम् इति मन्त्रयितुम् आरेभिरे, अयमुत्तराधिकारी वयमेनं निहत्यास्याधिकारं स्ववशीकरिष्यामः।
39पश्चात् ते तं धृत्वा द्राक्षाक्षेत्राद् बहिः पातयित्वाबधिषुः।
40यदा स द्राक्षाक्षेत्रपतिरागमिष्यति, तदा तान् कृषीवलान् किं करिष्यति?
41ततस्ते प्रत्यवदन्, तान् कलुषिणो दारुणयातनाभिराहनिष्यति, ये च समयानुक्रमात् फलानि दास्यन्ति, तादृशेषु कृषीवलेषु क्षेत्रं समर्पयिष्यति।
42तदा यीशुना ते गदिताः, ग्रहणं न कृतं यस्य पाषाणस्य निचायकैः। प्रधानप्रस्तरः कोणे सएव संभविष्यति। एतत् परेशितुः कर्म्मास्मदृष्टावद्भुतं भवेत्। धर्म्मग्रन्थे लिखितमेतद्वचनं युष्माभिः किं नापाठि?
43तस्मादहं युष्मान् वदामि, युष्मत्त ईश्वरीयराज्यमपनीय फलोत्पादयित्रन्यजातये दायिष्यते।
44यो जन एतत्पाषाणोपरि पतिष्यति, तं स भंक्ष्यते, किन्त्वयं पाषाणो यस्योपरि पतिष्यति, तं स धूलिवत् चूर्णीकरिष्यति।
45तदानीं प्राधनयाजकाः फिरूशिनश्च तस्येमां दृष्टान्तकथां श्रुत्वा सोऽस्मानुद्दिश्य कथितवान्, इति विज्ञाय तं धर्त्तुं चेष्टितवन्तः;
46किन्तु लोकेभ्यो बिभ्युः, यतो लोकैः स भविष्यद्वादीत्यज्ञायि।
Nke Ahọpụtara Ugbu A:
मथिः 21: SAN-DN
Mee ka ọ bụrụ isi
Kesaa
Mapịa
Ịchọrọ ka echekwaara gị ihe ndị gasị ị mere ka ha pụta ìhè ná ngwaọrụ gị niile? Debanye aha gị ma ọ bụ mee mbanye
© SanskritBible.in । Licensed under Creative Commons Attribution-ShareAlike 4.0 International License.