Akara Njirimara YouVersion
Akara Eji Eme Ọchịchọ

मारकुस 2

2
अर्धांड्‌.गरोगिणः स्‍वास्‍थ्‍यलाभः
(मत्ती 9:1-2; लूका 9:17-20)
1केषुचित्‌ दिवसेषु व्‍यतीतेषु येशुः कफ़रनहूमं प्रत्‍यागच्‍छत्‌। अयं सुसंवादः प्रसरितवान्‌ “येशुः गृहे विद्‌यते।” 2जनसम्‍मर्दः तथाऽभवत्‌ यत्‌ द्वारदेशे किंचिदपि स्‍थानं न अवशिष्‍टम्‌। येशुः शुभसमाचारं कथयन्‌ एव आसीत्‌, 3तस्‍मिन्‌ एव क्षणे केचित्‌ जनाः चतुर्भिः नरैः उह्‌यमानं पक्षाघातपीडितम्‌ एकं रुग्‍णं जनम्‌ आनयन्‌। 4निवहस्‍य कारणात्‌ येशोः सम्‍मुखम्‌ आनेतुं न अशक्‍नुवन्‌। अतः यत्र येशुः आसीत्‌, तस्‍य गृहपृष्‍ठस्‍य भित्तम्‌ उदपाटयन्‌। तेन एव छिद्रेण रोगिणः खट्‌वां नीचैः उत्तारयामासुः। 5तेषां विश्‍वासं वीक्ष्‍य येशुः अर्धांगरोगिणम्‌ उवाच, “वत्‍स! ते पापानां क्षमा समजायत्‌।”
6तत्र शास्‍त्रिणः समासीनाः आसन्‌। ते अचिन्‍तयन्‌ - अयं कि वदति? 7अयम्‌ ईशनिन्‍दां करोति। परमेश्‍वरात्‌ अन्‍यः कः पापं क्षन्‍तुम्‌ अर्हति? 8येशुः इदम्‌ अजानत्‌ यत्‌ एते किं चिन्‍तयन्‍ति। सः शास्‍त्रिणः अवदत्‌ - “युष्‍माकं मानसे किम्‌ अस्‍ति? 9किमस्‍ति सुकरम्‌ अर्धांगरोगिणम्‌ एतत्‌ वक्‍तुम्‌ पापानां तव क्षमा जाता, अथवा उत्‍थाय स्‍वीयां खट्‌वाम्‌ वहन्‌ विहरस्‍व? 10परन्‍तु यूयं जानीत मानवपुत्राय भूतले पापानि क्षन्‍तुम्‌ अधिकारः प्राप्‍तः अस्‍ति।” येशुः अर्द्धांगरोगिणम्‌ उवाच, “अहं त्‍वां वदामि, उत्‍थाय स्‍वीयां खट्‌वां नीत्‍वा गृहं गच्‍छ।” 11-12सः तु सद्‌यः उत्‍थाय, खट्‌वाम्‌ आदाय च सर्वेषाम्‌ समक्षे बहिः निर्गच्‍छत्‌। सर्वे परमं विस्‍मयं प्राप्‍ताः, परमेश्‍वरम्‌ अस्‍तुवन्‌। मिथः च अवदन्‌ अस्‍माभिः एतादृशं चमत्‍कारकार्यम्‌ कदाचन न दृष्‍टम्‌।
शुल्‍कसमाहर्तुः आह्‌वानम्‌
(मत्ती 9:7-13; लूका 5:27-32)
13येशुः पुनः निर्गत्‍य समुद्रतटं जगाम। सर्वे जनाः तम्‌ अजग्‍मुः। सः च सर्वान्‌ अशिक्षयत्‌। 14मार्गे येशुः शुल्‍कादानस्‍थले स्‍थितम्‌ हलफईसुतं लेवीं दृष्‍ट्‌वा तम्‌ उवाच, “त्‍वं माम्‌ अनुव्रज।” सः सद्‌यः समुत्‍थाय येशुम्‌ अनुजगाम।
15एकस्‍मिन्‌ दिवसे येशुः शिष्‍यैः सह शुल्‍कदातुः गृहे भोजनार्थम्‌ उपविष्‍टवान्‌। अनेके शुल्‍कसंग्रहिणः, पापिनश्‍च तेन सह भोजनम्‌ प्रकुर्वन्‍ति स्‍म, यतः ते सर्वे बहुसंख्‍यायाम्‌ येशोः अनुयायिनः आसन्‌। 16यदा फरीसिनः दलस्‍य शास्‍त्रिणः अपश्‍यन्‌ यत्‌ येशुः पापिभिः, शुल्‍कसंग्रहिभिः सह भोजनं करोति, तदा येशोः शिष्‍यान्‌ बभाषिरे, “सः पापिभिः, शुल्‍कसंग्रहिभिः च साद्‌र्धम्‌ कथं भुड्‌.क्‍ते?” 17येशुः एतत्‌ श्रुत्‍वा तान्‌ इदम्‌ अकथयत्‌, “स्‍वस्‍थैः वैद्‌यः नापेक्षयते, किन्‍तु अस्‍वस्‍थैः अपेक्ष्‍यते। अहं तु धार्मिकान्‌ न किन्‍तु पापिनः आह्‌वातुम्‌ आगतोऽस्‍मि।”
उपवासस्‍य प्रश्‍नः
(मत्ती 9:14-17; लूका 5:33-39)
18योहनस्‍य शिष्‍याः, फरीसिनश्‍च किस्‍ंमश्‍चित्‌ दिवसे उपवासम्‌ अकुर्वन्‌। केचित्‌ जनाः आगत्‍य येशुम्‌ अवदन्‌, “योहनस्‍य शिष्‍याः फरीसिनश्‍च उपवासं कुर्वन्‍ति। भवतः शिष्‍याः न कुर्वन्‍ति?” 19येशुः अवदत्‌, “यावत्‌ कन्‍यावरः वरयात्रिभिः साद्‌र्धम्‌ विद्‌यते, ते तावत्‍कालं यावत्‌ उपवासं कर्तुम्‌ न शक्‍यन्‍ते। 20परन्‍तु तानि दिनानि आगमिष्‍यन्‍ति यदा वरः तेभ्‍यः वियोक्ष्‍यते, तेषु दिवसेषु ते उपवासं करिष्‍यन्‍ति।
21कश्‍चित्‌ जीर्णे वस्‍त्रे वाससोऽनाहतस्‍य खण्‍डं न सीव्‍यति। यतः खण्‍डम्‌ अकुत्र्चितं भवेत्‌ तथा नवेन खण्‍डेन तेन जीर्णं वस्‍त्रं विदीर्यते, तत्‌ छिद्रं जायते महत्‌। 22कोऽपि जीर्णषु कुतूपेषु नवं द्राक्षारसं न हि निधत्ते। येन रसः कुतूपम्‌ विदार्य असौ नवः रसः स्‍वयं विनिःस्रवेद्‌, भूमौ कुतूपाः नष्‍टाः भवन्‍तु च। अतः जनः नवकुतूपेषु नवद्राक्षारसं स्‍थापयन्‍ति।
विश्रामदिवसस्‍य प्रश्‍नः
(मत्ती 12:1-8; लूका 6:1-5)
23येशुः एकदा विश्रामदिवसे गोधूमक्षेत्रेभ्‍यो गच्‍छन्‌ आसीत्‌। तस्‍य शिष्‍याः गन्‍छन्‍तः गोधूममंजरीः भड्‌.क्‍त्‍वा भक्षितुम्‌ आरब्‍धवन्‍तः। 24फरीसिनः येशुम्‌ अवदन्‌, “पश्‍यतु! यत्‌ कार्यम्‌ विश्रामदिवसे निषिद्‌धम्‌, तत्‌ एव कार्यम्‌ एतैः कथम्‌ क्रियते।” 25येशुः तान्‌ अवदत्‌, “किं युष्‍माभिः इदम्‌ न पठितम्‌ यत्‌ दाऊदः तस्‍य संगिनः यदा क्षुधार्ताः आसन्‌, तेषां पार्श्‍वे भोक्‍तुम्‌ किमपि न आसीत्‌, तदा दाऊदेन किं कृतम्‌? 26महापुरोहितस्‍य एबयातरस्‍य समये ईशमन्‍दिरे गत्‍वा सः सर्वान्‌ समर्पितान्‌ पूपान्‌ अभक्षयत्‌, स्‍वसंगिभ्‍यः अपि भोक्‍तुम्‌ अददात्‌। पूपाः पुरोहितैः एव भोक्‍तव्‍या आसन्‌, नापरैः।”
27येशुः तान्‌ अवदत्‌, “विश्रामदिवसः, मनुष्‍याय निर्मितः अस्‍ति, न तु मनुष्‍यः विश्रामदिवसाय। 28अतः मानवपुत्रः विश्रामवारस्‍य अपि प्रभुः विद्‌यते।”

Nke Ahọpụtara Ugbu A:

मारकुस 2: SANSKBSI

Mee ka ọ bụrụ isi

Kesaa

Mapịa

None

Ịchọrọ ka echekwaara gị ihe ndị gasị ị mere ka ha pụta ìhè ná ngwaọrụ gị niile? Debanye aha gị ma ọ bụ mee mbanye