Akara Njirimara YouVersion
Akara Eji Eme Ọchịchọ

मारकुस 1

1
जलसंस्‍कारदातुः योहनस्‍योपदेशः
(मत्ती 3:1-12; लूका 3:1-18; यूह 1:19-28)
1परमेश्‍वरस्‍य पुत्रस्‍य येशोः मसीहस्‍य शुभसमाचारस्‍य प्रारंभः। 2नबिनः यशायाहस्‍य ग्रन्‍थेषु लिखितमस्‍ति, परमेश्‍वरः कथयति -
पश्‍य, अहं स्‍वं दूतं तव पूर्वम्‌ प्रेषयामि।
यः तव पन्‍थानं प्रशस्‍तं करिष्‍यति।
3निर्जनप्रदेशे घोषयितुः स्‍वरः -
प्रभोर्मार्गम्‌ प्रस्‍तूयताम्‌;
तत्‍पथम्‌ ऋजुं कुरु च।
4अस्‍य अनुसारम्‌ एव जलसंस्‍कारदातायोहनः निर्जनप्रदेशे प्रकटः अभवत्‌। यः पापेभ्‍यो विमुक्‍त्‍यर्थम्‌, पश्‍चात्तापस्‍य जलसंस्‍कारस्‍य उपदेशम्‌ ददे। 5समस्‍तस्‍य यहूदाप्रदेशस्‍य तथा येरुसलेमस्‍य लोकाः योहनस्‍य अन्‍तिकम्‌ आगत्‍य स्‍वपापानि स्‍वीकुर्वाणाः यर्दननद्‌याम्‌ तेन जलसंस्‍कारं गृह्‌णन्‍ति स्‍म।
6योहनः उष्‍ट्रलोमविनिर्मितम्‌ वस्‍त्रम्‌ पर्यधात्‌, तथा तस्‍य कटौ चर्मपट्टिका बद्धा आसीत्‌। तस्‍य भोजनानि वन्‍यमधु, पतंगाश्‍च आसन्‌। 7सः स्‍वकीये उपदेशे अभाषत, “मत्‍पश्‍चाद्‌ यः समागन्‍ता, असौ मत्तः शक्‍तिमत्तरः। अहं तु तस्‍य उपानहस्‍य बन्‍धनीम्‌ अपि मोक्‍तुम्‌ अर्हः न अस्‍मि। 8अहं जलेन युष्‍मभ्‍यं जलसंस्‍कारम्‌ अददम्‌, सः युष्‍मभ्‍यम्‌ पवित्रात्‍मना दास्‍यति।”
प्रभोः येशोः जलसंस्‍कारः
(मत्ती 3:13-17; लूका 3:21-22)
9तेषु दिनेषु येशुः गलीलप्रदेशस्‍य नासरतात्‌ आगतवान्‌। तेन योहनेन यर्दननद्‌यां जलसंस्‍कारः गृहीतः। 10येशुः तोयात्‌ बहि निर्गच्‍छन्‌ एव आसीत्‌ तस्‍मिन्‍नेव क्षणे स्‍वर्गद्वारम्‌ अपावृतम्‌, तथा कपोतरूपे सः प्रभोः आत्‍मानम्‌ ऐच्‍छत। 11स्‍वर्गाद्‌ इयं श्रुतिः आगता, “त्‍वं मदीयः प्रियः पुत्रः, त्‍वयि अहम्‌ अति प्रसन्‍नोऽस्‍मि।”
प्रभोर्येशोः परीक्षा
(मत्ती 4:1-11; लूका 4:1-13)
12तत्‍पश्‍चात्‌ आत्‍मा येशुं निर्जनप्रदेशं नीतवान्‌। 13सः तत्र चत्‍वारिंशत्‌ दिनानि अनिवसत्‌। शातनः तस्‍य कठिनपरीक्षां चकार। येशुः वन्‍यपशुभिः सह अवसत्‌, स्‍वर्गदूताः असेवन्‍त च।
उपदेशानां प्रारंभः
(मत्ती 4:12-17; लूका 4:14-15)
14योहने निगृहीते येशुः गलीलप्रदेशेः आगच्‍छत्‌। इदं ब्रुवन्‌ परमेश्‍वरस्‍य शुभसमाचारस्‍य प्रचारम्‌ अकरोत्‌, 15“समयः पूर्णतां प्राप्‍तः, प्रभोः राज्‍यम्‌ उपस्‍थितम्‌, पश्‍चात्तापं कृत्‍वा शुभसमाचारे विश्‍वासं विधत्त च।”
चतुर्णाम्‌ मत्‍स्‍यजीविनाम्‌ आह्‌वानम्‌
16गलीलस्‍य समुद्रस्‍य तटेन व्रजन्‌, येशुः सिमोनं, तस्‍य बन्‍धुम्‌ अन्‍दे्रयसम्‌ च अपश्‍यत्‌। तौ सागरे जालं क्षिपन्‍तौ आस्‍ताम्‌, यतः तौ धीवरौ आस्‍ताम्‌। 17येशुः तौ भ्रातरौ प्राह, “युवां माम्‌ अनुव्रजतम्‌, अहं युवां मानवग्राहिधीवरौ विधास्‍यामि।” 18तौ सद्‌यः जालं त्‍यक्‍त्‍वा तम्‌ अनुजग्‍मतुः।
19अग्रे गत्‍वा येशुः जेबेदिपुत्रं याकूबं, तत्‍सहोदरम्‌ योहनम्‌ अपि अपश्‍यत्‌। तौ नौकायां स्‍वीयजालानां जीर्णोद्धारस्‍य कर्मणि व्‍यापृतौ आस्‍ताम्‌। 20तस्‍मिन्‍नेव क्षणे येशुः तौ भ्रातरौ समाह्‌वयत्‌। तौ पितरं जेबेदिनम्‌ वेतनभोगिभिः सह नौकायामेव विहाय येशुम्‌ अनुगतवन्‍तौ।
कफ़रनहूमस्‍य अपदूतग्रस्‍तः मनुष्‍यः
(लूका 4:31-37)
21ततः सर्वे कफ़रनहूमम्‌ आगच्‍छन्‌। विश्रामदिवसे प्राप्‍ते, येशुः सभागृहम्‌ प्राविशत्‌, 22जनान्‌ उपदेष्‍टुम्‌ आरब्‍धवान्‌। तस्‍य उपदेशं श्रुत्‍वा सर्वे विस्‍मिताः अभवन्‌; यतः सः शास्‍त्रिणः इव न, परन्‍तु अधिकारेण सह उपदिष्‍टवान्‌।
23सभागृहे एकः अपदूतग्रस्‍तः जनोऽपि आसीत्‌। सः उत्‍क्रोशन्‌ अभाषत, 24“येशो नासरिन्‌! तवऽस्‍माभिः किं प्रयोजनम्‌? अस्‍माकं सर्वनाशाय किं त्‍वमत्र समागतः? अहं जानामि कस्‍त्‍वम्‌ - “त्‍वम्‌ ईश्‍वरेण प्रेषितः परमः पावनो नरः।” 25येशुः तम्‌ इदम्‌ ब्रुवन्‌ अभर्त्‍सयत्‌, “त्‍वया मौनम्‌ अश्रीयताम्‌, अस्‍मात्‌ नरात्‌ शीघ्रं विनिःसर।” 26अपदूतः तं धुन्‍वन्‌ चीत्‍कारं कुर्वन्‌ तस्‍मात्‌ नरात्‌ बहिः आगतः। 27सर्वे जनाः विस्‍मिताः मिथः अवदन्‌, “किमिदम्‌? सः अधिकारेण सह ब्रवीति। सः अपवित्रात्‍मनः अपि आज्ञापयति, ते तस्‍य आदेशं पालयन्‍ति च।”
28येशोः ख्‍यातिः शीघ्रमेव गलीलियाप्रान्‍तस्‍य कोणे-कोणे प्रसारिता।
सिमोन पतरसस्‍य श्‍वश्रूः
(मत्ती 8:14-15; लूका 4:38-39)
29सभागृहात्‌ विनिःसृत्‍य याकूबयोहनौ नीत्‍वा सिमोनान्‍द्रेयसयोः गृहम्‌ आगतवान्‌। 30सिमोनस्‍य श्‍वश्रूः ज्‍वरेण प्रपीडिता आसीत्‌। जनाः शीघ्रमेव तस्‍याः अवस्‍थां विन्‍यवेदयन्‌। 31येशुः तामुपेत्‍य तस्‍याः हस्‍तं धृत्‍वा ताम्‌ उत्‍थापयत्‌। सा च सद्‌यः ज्‍वरात्‌ मुक्‍ता पूर्ववत्‌ तान्‌ असेवत।
बहूनां स्‍वास्‍थ्‍यलाभः
(मत्ती 8:16-17; लूका 4:40-41)
32सन्‍ध्‍याकाले समायाते, सूर्ये चास्‍ताचलं गते, जनाः तस्‍य अन्‍तिकं रुग्‍णान्‌ अपदूतान्‌ च अनयन्‌। 33समस्‍तं नगरं द्वारि समागत्‍य स्‍थितम्‌ अभवत्‌। 34येशुः नानाविधव्‍याधिग्रस्‍तान्‌ निरामयान्‌ अकरोत्‌। अपदूतान्‌ अपभाषितुम्‌ न अनुजज्ञे, यतः ते अजानन्‌ कः अयम्‌ अस्‍ति इति।
गलीलप्रदेशस्‍य परिभ्रमणनम्‌
(लूका 4:42-44)
35अन्‍यस्‍मिन्‌ दिने येशुः प्रातः उत्‍थाय गृहात्‌ निर्गत्‍य एकस्‍मिन्‌ निर्जनस्‍थाने प्रार्थनायां व्‍यापृतः आसीत्‌। 36सिमोनः संगिभिः सह तम्‌ अन्‍वेष्‍टुम्‌ विनिर्गतः। तम्‌ आसाद्‌य अब्रवीत्‌ - 37“सर्वे भवतः अन्‍वेषणे रताः।” 38येशुः तान्‌ अब्रवीत्‌, “निकटस्‍थितान्‌ ग्रामान्‌ गच्‍छामः, मया तत्रापि शिक्षणं दातव्‍यम्‌ अस्‍ति। यतः एतदर्थमेव अहम्‌ आयातोऽस्‍मि।” 39सः तेषां सभागृहेषु उपदेशं ददन्‌ अपदूतान्‌ निःसारयन्‌ समस्‍तगलीलप्रदेशे अभ्रमत्‌।
कुष्‍ठिनः स्‍वास्‍थ्‍यलाभः
(मत्ती 8:2-4; लूका 5:12-16)
40कश्‍चित्‌ कुष्‍ठी येशुम्‌ उपागमत्‌, जानुभ्‍याम्‌ उपविश्‍य तम्‌ अनुनयन्‌ अब्रवीत्‌, “भवान्‌ इच्‍छेत्‌ चेत्‌ तर्हि मां शुचिम्‌ कर्तुम्‌ शक्‍नोति।” 41येशुः करुणाविष्‍टः, इदं ब्रुवन्‌ स्‍वहस्‍तेन तमस्‍पृशत्‌, “अहम्‌ इच्‍छामि-त्‍वं शुची भव।” 42सः तत्‍क्षणमेव कुष्‍ठात्‌ मुक्‍तः अभवत्‌, शुद्धश्‍च अभवत्‌। 43येशुः कठोरनिर्देशं दत्‍वा शीघ्रमेव विसृज्‍य तमाह, 44“सावधान! किंचित्‌ कम्‌ अपि मा वद। गत्‍वा आत्‍मानं पुरोहितं दर्शय, स्‍वशुद्‌धीकरणाय मूसाद्वारा समादिष्‍टं वस्‍तु अर्पय, येन तव स्‍वास्‍थ्‍यलाभः प्रमाणितः भवेत्‌।”
45परन्‍तु सः ततः गत्‍वा तस्‍य वृत्तस्‍य चर्चां सर्वत्र कर्तुम्‌ आरब्‍धवान्‌। अतः येशुवे प्रकटरूपे नगरेषु प्रवेशः दुष्‍करः अभवत्‌; अतः सः निर्जनस्‍थानेषु वसति स्‍म। तथापि जनाः तस्‍य समीपम्‌ आगच्‍छन्‌।

Nke Ahọpụtara Ugbu A:

मारकुस 1: SANSKBSI

Mee ka ọ bụrụ isi

Kesaa

Mapịa

None

Ịchọrọ ka echekwaara gị ihe ndị gasị ị mere ka ha pụta ìhè ná ngwaọrụ gị niile? Debanye aha gị ma ọ bụ mee mbanye