मारकुस भूमिका
भूमिका
साधोः मारकुसस्य अनुसारं शुभसमाचारस्य आरंभः अनेन वाक्येन भवति, “परमेश्वरस्य पुत्रस्य येशोः मसीहस्य शुभसन्देशस्य आरंभः।” प्रस्तुते शुभसमाचारे प्रभुः येशुः, एकः कर्मठः, अधिकारेण सह प्रवचनकर्तुः च सेवाकर्तुः रूपे दर्शितः अस्ति। तस्य शिक्षासु अयम् अधिकारः अभिव्यक्तः अभवत्। तस्मिन् सर्वप्रकारस्य दुःखं पीडां च दूरीकर्तुम् अधिकारः वर्तते, सद्यश्च तेषाम् उपचारं करोति। परमेश्वरः तस्मै जनानां पापमुक्तेः अधिकारं प्रदत्तवान्। अतः सः अधिकारेण सह दुष्टानां प्रवृत्तीनाम् दमनं कृत्वा जनानां पापानि क्षमते। येशुः स्वयं विनम्रतापूर्वकं मानवपुत्रस्य रूपे प्रस्तौति, घोषणां च करोति यत् सः जनान् तेषां पापेभ्यः मोक्तुम् स्वप्राणान् अर्पयिष्यति। सः राजनीतिकार्थे “मसीहः“ भवितुम् न इच्छति।
लेखकः साधुः मारकुसः (मरकुसः) प्रभावपूर्णरीत्या, परन्तु स्पष्टेषु सरलेषु च शब्देषु प्रभोः येशोः जीवनसंदेशं प्रस्तौति। सः प्रभोः येशोः कार्येषु बलं दत्तवान्, तस्य उपदेशाः शिक्षाः च अपेक्षाकृताः न्यूनाः प्रकाशिताः सन्ति। योहनजलसंस्कारदात्रा येशोः जलसंस्कारस्य, परीक्षाणाम् च संक्षिप्तरूपे वर्णनं कृत्वा साधुः मारकुसः शीघ्रमेव येशुना कृतसेवानाम् शिक्षाणाम् च विस्तरेण वर्णनं करोति। यथा-यथा समयः व्यतीतवान्, प्रभोः येशोः अनुयायिनः तं शनैः-शनैः अवगच्छन्ति, परन्तु तस्य विरोधिनः तस्य उग्रं विरोधं कुर्वन्ति। प्रस्तुतस्य शुभसमाचारस्य अंतिमेषु अध्यायेषु प्रभोः येशोः जीवनस्य अंतिमसप्ताहे घटितानाम् घटनानाम्, मुख्यतः-क्रूसारोपणम्, तस्य पुनरुत्थानस्य च वर्णनम् अस्ति।
प्रस्तुतस्य शुभसमाचारस्य अंते द्वौ उपसंहारौ दत्तौ स्तः। तौ पाठान्तरौ स्तः। विदुषां मतानुसारम् इमौ द्वौ केनचित् अन्येन लेखकेन लिखितौ स्तः। चतुर्षु शुभसमाचारेषु मारकुसेन रचितः शुभसमाचारः प्राचीनतमः लिखितः शुभसमाचारः मन्यते, यः येरुसलेमस्य विनाशस्य किंचित् प्राक् , अर्थात् सन् 70 ख्रीस्तवर्षे प्राक् लिखितः अस्ति। अनुमन्यते यत् मत्ती, लूकसश्च स्व-स्व शुभसमाचारस्य रचनायां मारकुसस्य शुभसमाचारम् आधाररूपे प्रयुक्तवन्तौ।
विषय-वस्तुनः रूपरेखा
योहनजलसंस्कारदाता येशोः शुभसन्देशस्य आरंभः - 1:1-13
गलीलप्रदेशे येशोः धर्मसेवा - 1:14—9:50
गलीलप्रदेशात् येरुसलेमं प्रति प्रस्थानम् - 10:1-52
येरुसलेमनगरे, समीपवर्त्तिनः ग्रामेषु च जीवनस्य - 11:1—15:47
अंतिमः सप्ताहः 16:1-8
येशोः पुनरुत्थानम् - 16:9-20
Chwazi Kounye ya:
मारकुस भूमिका: SANSKBSI
Pati Souliye
Pataje
Kopye

Ou vle gen souliye ou yo sere sou tout aparèy ou yo? Enskri oswa konekte
Sanskrit New Testament
Copyright © 2015 by The Bible Society of India
Used by permission. All rights reserved worldwide.

: