Biểu trưng YouVersion
Biểu tượng Tìm kiếm

मथिः 2

2
1अनन्तरं हेरोद् संज्ञके राज्ञि राज्यं शासति यिहूदीयदेशस्य बैत्लेहमि नगरे यीशौ जातवति च, कतिपया ज्योतिर्व्वुदः पूर्व्वस्या दिशो यिरूशालम्नगरं समेत्य कथयमासुः,
2यो यिहूदीयानां राजा जातवान्, स कुत्रास्ते? वयं पूर्व्वस्यां दिशि तिष्ठन्तस्तदीयां तारकाम् अपश्याम तस्मात् तं प्रणन्तुम् अागमाम।
3तदा हेरोद् राजा कथामेतां निशम्य यिरूशालम्नगरस्थितैः सर्व्वमानवैः सार्द्धम् उद्विज्य
4सर्व्वान् प्रधानयाजकान् अध्यापकांश्च समाहूयानीय पप्रच्छ, ख्रीष्टः कुत्र जनिष्यते?
5तदा ते कथयामासुः, यिहूदीयदेशस्य बैत्लेहमि नगरे, यतो भविष्यद्वादिना इत्थं लिखितमास्ते,
6सर्व्वाभ्यो राजधानीभ्यो यिहूदीयस्य नीवृतः। हे यीहूदीयदेशस्ये बैत्लेहम् त्वं न चावरा। इस्रायेलीयलोकान् मे यतो यः पालयिष्यति। तादृगेको महाराजस्त्वन्मध्य उद्भविष्यती॥
7तदानीं हेरोद् राजा तान् ज्योतिर्व्विदो गोपनम् आहूय सा तारका कदा दृष्टाभवत् , तद् विनिश्चयामास।
8अपरं तान् बैत्लेहमं प्रहीत्य गदितवान्, यूयं यात, यत्नात् तं शिशुम् अन्विष्य तदुद्देशे प्राप्ते मह्यं वार्त्तां दास्यथ, ततो मयापि गत्वा स प्रणंस्यते।
9तदानीं राज्ञ एतादृशीम् आज्ञां प्राप्य ते प्रतस्थिरे, ततः पूर्व्वर्स्यां दिशि स्थितैस्तै र्या तारका दृष्टा सा तारका तेषामग्रे गत्वा यत्र स्थाने शिशूरास्ते, तस्य स्थानस्योपरि स्थगिता तस्यौ।
10तद् दृष्ट्वा ते महानन्दिता बभूवुः,
11ततो गेहमध्य प्रविश्य तस्य मात्रा मरियमा साद्धं तं शिशुं निरीक्षय दण्डवद् भूत्वा प्रणेमुः, अपरं स्वेषां घनसम्पत्तिं मोचयित्वा सुवर्णं कुन्दुरुं गन्धरमञ्च तस्मै दर्शनीयं दत्तवन्तः।
12पश्चाद् हेरोद् राजस्य समीपं पुनरपि गन्तुं स्वप्न ईश्वरेण निषिद्धाः सन्तो ऽन्येन पथा ते निजदेशं प्रति प्रतस्थिरे।
13अनन्तरं तेषु गतवत्मु परमेश्वरस्य दूतो यूषफे स्वप्ने दर्शनं दत्वा जगाद, त्वम् उत्थाय शिशुं तन्मातरञ्च गृहीत्वा मिसर्देशं पलायस्व, अपरं यावदहं तुभ्यं वार्त्तां न कथयिष्यामि, तावत् तत्रैव निवस, यतो राजा हेरोद् शिशुं नाशयितुं मृगयिष्यते।
14तदानीं यूषफ् उत्थाय रजन्यां शिशुं तन्मातरञ्च गृहीत्वा मिसर्देशं प्रति प्रतस्थे,
15गत्वा च हेरोदो नृपते र्मरणपर्य्यन्तं तत्र देशे न्युवास, तेन मिसर्देशादहं पुत्रं स्वकीयं समुपाहूयम्। यदेतद्वचनम् ईश्वरेण भविष्यद्वादिना कथितं तत् सफलमभूत्।
16अनन्तरं हेरोद् ज्योतिर्विद्भिरात्मानं प्रवञ्चितं विज्ञाय भृशं चुकोप; अपरं ज्योतिर्व्विद्भ्यस्तेन विनिश्चितं यद् दिनं तद्दिनाद् गणयित्वा द्वितीयवत्सरं प्रविष्टा यावन्तो बालका अस्मिन् बैत्लेहम्नगरे तत्सीममध्ये चासन्, लोकान् प्रहित्य तान् सर्व्वान् घातयामास।
17अतः अनेकस्य विलापस्य निनाद: क्रन्दनस्य च। शोकेन कृतशब्दश्च रामायां संनिशम्यते। स्वबालगणहेतोर्वै राहेल् नारी तु रोदिनी। न मन्यते प्रबोधन्तु यतस्ते नैव मन्ति हि॥
18यदेतद् वचनं यिरीमियनामकभविष्यद्वादिना कथितं तत् तदानीं सफलम् अभूत्।
19तदनन्तरं हेरेदि राजनि मृते परमेश्वरस्य दूतो मिसर्देशे स्वप्ने दर्शनं दत्त्वा यूषफे कथितवान्
20त्वम् उत्थाय शिशुं तन्मातरञ्च गृहीत्वा पुनरपीस्रायेलो देशं याही, ये जनाः शिशुं नाशयितुम् अमृगयन्त, ते मृतवन्तः।
21तदानीं स उत्थाय शिशुं तन्मातरञ्च गृह्लन् इस्रायेल्देशम् आजगाम।
22किन्तु यिहूदीयदेशे अर्खिलायनाम राजकुमारो निजपितु र्हेरोदः पदं प्राप्य राजत्वं करोतीति निशम्य तत् स्थानं यातुं शङ्कितवान्, पश्चात् स्वप्न ईश्वरात् प्रबोधं प्राप्य गालील्देशस्य प्रदेशैकं प्रस्थाय नासरन्नाम नगरं गत्वा तत्र न्युषितवान्,
23तेन तं नासरतीयं कथयिष्यन्ति, यदेतद्वाक्यं भविष्यद्वादिभिरुक्त्तं तत् सफलमभवत्।

Tô màu

Chia sẻ

So sánh

Sao chép

None

Bạn muốn lưu những tô màu trên tất cả các thiết bị của mình? Đăng ký hoặc đăng nhập