मत्ति 27:22-24

मत्ति 27:22-24 SANSKBSI

सः अपृच्‍छत्‌, “किं तर्हि मया येशुं प्रति विधातव्‍यम्‌, यः मसीहः कथ्‍यते?” सर्वे तम्‌ अब्रुवन्‌ “क्रूसम्‌ आरोप्‍यताम्‌ अयम्‌।” पिलातुसः तान्‌ पप्रच्‍छ, “कोऽपराधोऽस्‍य वर्तते?” किन्‍तु ते सर्वे क्रोशन्‍तः उच्‍चैः स्‍वरैः ऊदुः, “अस्‍मै क्रूसं ददीत, अस्‍मै क्रूसं ददीत।” तदा पिलातुसः स्‍वं सर्वम्‌ यत्‍नं निष्‍फलम्‌ वीक्ष्‍य, प्रत्‍युतालोक्‍य कलहं वर्द्धमानं तोयम्‌ आदाय सर्वेषां पुरः स्‍वौ करौ प्रक्षाल्‍य प्रोक्‍तवान्‌, “शोणितस्‍य अस्‍य धर्मप्राणस्‍य पातने, दोषी न एव अहम्‌ अस्‍मि युष्‍माभिः अवगम्‍यताम्‌।”

Free Reading Plans and Devotionals related to मत्ति 27:22-24