रोमिणः 10
10
1हे भ्रातर इस्रायेलीयलोका यत् परित्राणं प्राप्नुवन्ति तदहं मनसाभिलषन् ईश्वरस्य समीपे प्रार्थये।
2यत ईश्वरे तेषां चेष्टा विद्यत इत्यत्राहं साक्ष्यस्मि; किन्तु तेषां सा चेष्टा सज्ञाना नहि,
3यतस्त ईश्वरदत्तं पुण्यम् अविज्ञाय स्वकृतपुण्यं स्थापयितुम् चेष्टमाना ईश्वरदत्तस्य पुण्यस्य निघ्नत्वं न स्वीकुर्व्वन्ति।
4ख्रीष्ट एकैकविश्वासिजनाय पुण्यं दातुं व्यवस्थायाः फलस्वरूपो भवति।
5व्यवस्थापालनेन यत् पुण्यं तत् मूसा वर्णयामास, यथा, यो जनस्तां पालयिष्यति स तद्द्वारा जीविष्यति।
6किन्तु प्रत्ययेन यत् पुण्यं तद् एतादृशं वाक्यं वदति, कः स्वर्गम् आरुह्य ख्रीष्टम् अवरोहयिष्यति?
7को वा प्रेतलोकम् अवरुह्य ख्रीष्टं मृतगणमध्याद् आनेष्यतीति वाक् मनसि त्वया न गदितव्या।
8तर्हि किं ब्रवीति? तद् वाक्यं तव समीपस्थम् अर्थात् तव वदने मनसि चास्ते, तच्च वाक्यम् अस्माभिः प्रचार्य्यमाणं विश्वासस्य वाक्यमेव।
9वस्तुतः प्रभुं यीशुं यदि वदनेन स्वीकरोषि, तथेश्वरस्तं श्मशानाद् उदस्थापयद् इति यद्यन्तःकरणेन विश्वसिषि तर्हि परित्राणं लप्स्यसे।
10यस्मात् पुण्यप्राप्त्यर्थम् अन्तःकरणेन विश्वसितव्यं परित्राणार्थञ्च वदनेन स्वीकर्त्तव्यं।
11शास्त्रे यादृशं लिखति विश्वसिष्यति यस्तत्र स जनो न त्रपिष्यते।
12इत्यत्र यिहूदिनि तदन्यलोके च कोपि विशेषो नास्ति यस्माद् यः सर्व्वेषाम् अद्वितीयः प्रभुः स निजयाचकान सर्व्वान् प्रति वदान्यो भवति।
13यतः, यः कश्चित् परमेशस्य नाम्ना हि प्रार्थयिष्यते। स एव मनुजो नूनं परित्रातो भविष्यति।
14यं ये जना न प्रत्यायन् ते तमुद्दिश्य कथं प्रार्थयिष्यन्ते? ये वा यस्याख्यानं कदापि न श्रुतवन्तस्ते तं कथं प्रत्येष्यन्ति? अपरं यदि प्रचारयितारो न तिष्ठन्ति तदा कथं ते श्रोष्यन्ति?
15यदि वा प्रेरिता न भवन्ति तदा कथं प्रचारयिष्यन्ति? यादृशं लिखितम् आस्ते, यथा, माङ्गलिकं सुसंवादं ददत्यानीय ये नराः। प्रचारयन्ति शान्तेश्च सुसंवादं जनास्तु ये। तेषां चरणपद्मानि कीदृक् शोभान्वितानि हि।
16किन्तु ते सर्व्वे तं सुसंवादं न गृहीतवन्तः। यिशायियो यथा लिखितवान्। अस्मत्प्रचारिते वाक्ये विश्वासमकरोद्धि कः।
17अतएव श्रवणाद् विश्वास ऐश्वरवाक्यप्रचारात् श्रवणञ्च भवति।
18तर्ह्यहं ब्रवीमि तैः किं नाश्रावि? अवश्यम् अश्रावि, यस्मात् तेषां शब्दो महीं व्याप्नोद् वाक्यञ्च निखिलं जगत्।
19अपरमपि वदामि, इस्रायेलीयलोकाः किम् एतां कथां न बुध्यन्ते? प्रथमतो मूसा इदं वाक्यं प्रोवाच, अहमुत्तापयिष्ये तान् अगण्यमानवैरपि। क्लेक्ष्यामि जातिम् एताञ्च प्रोन्मत्तभिन्नजातिभिः।
20अपरञ्च यिशायियोऽतिशयाक्षोभेण कथयामास, यथा, अधि मां यैस्तु नाचेष्टि सम्प्राप्तस्तै र्जनैरहं। अधि मां यै र्न सम्पृष्टं विज्ञातस्तै र्जनैरहं॥
21किन्त्विस्रायेलीयलोकान् अधि कथयाञ्चकार, यैराज्ञालङ्घिभि र्लोकै र्विरुद्धं वाक्यमुच्यते। तान् प्रत्येव दिनं कृत्स्नं हस्तौ विस्तारयाम्यहं॥
Attualmente Selezionati:
रोमिणः 10: SAN-DN
Evidenzia
Copia
Confronta
Condividi
Vuoi avere le tue evidenziazioni salvate su tutti i tuoi dispositivi?Iscriviti o accedi
© SanskritBible.in । Licensed under Creative Commons Attribution-ShareAlike 4.0 International License.