Logo YouVersion
Icona Cerca

रोमिणः 1:26-28

रोमिणः 1:26-28 SAN-DN

ईश्वरेण तेषु क्वभिलाषे समर्पितेषु तेषां योषितः स्वाभाविकाचरणम् अपहाय विपरीतकृत्ये प्रावर्त्तन्त; तथा पुरुषा अपि स्वाभाविकयोषित्सङ्गमं विहाय परस्परं कामकृशानुना दग्धाः सन्तः पुमांसः पुंभिः साकं कुकृत्ये समासज्य निजनिजभ्रान्तेः समुचितं फलम् अलभन्त। ते स्वेषां मनःस्वीश्वराय स्थानं दातुम् अनिच्छुकास्ततो हेतोरीश्वरस्तान् प्रति दुष्टमनस्कत्वम् अविहितक्रियत्वञ्च दत्तवान्।

Video per रोमिणः 1:26-28