मारकुस 8
8
चतुर्भ्यः सहस्रेभ्यः जनेभ्यः भोजनस्य व्यवस्था
(मत्ती 15:32-39)
1तस्मिन् समये पुनः एकः महान् लोकचयः उपस्थितः। तेषां खाद्यस्य अभावः अपि अजायत्। येशुः शिष्यान् स्वान्तिकम् आहूय अभाषत, 2“अहम् एतान् अनुकम्पे, यतः इमे त्रीणि दिनानि यावत् मे समीपम् अवस्थिताः। एतेषां पार्श्वे न कित्र्चन खाद्यम् अवस्थितम्। 3चेत् इमान् निराहारान् गृहान् प्रति विसृजामि, तदा मार्गे मूर्च्छिताः भविष्यन्ति। एतेषु बहवः दूरात् समागताः सन्ति।” 4शिष्याः तमवदन् “अत्र निर्जनस्थले एतेषां भक्षणार्थम् रोटिकाः कुत्रतः लप्स्यन्ते?” 5येशु तान् पृष्टवान्, “युष्माकं पार्श्वे कति रोटिकाः सन्ति?“ ते उक्तवन्तः, “सप्त एव रोटिकाः।” 6ततः येशुः जनान् भूमौ उपवेष्टुम् आदिष्टवान्। ततः स्वीये करे सप्तरोटिकाः गृहीत्वा धन्यवादस्य प्रार्थनां पठितवान्। तत्पश्चात् रोटिकाः भड्.क्त्वा शिष्येभ्यः दत्तवान्। शिष्याः भोक्तृभ्यः रोटिकाः अपरिवेषयन्। 7तान् समीपे लघवः मत्स्याः अपि आसन्। येशुः ततः आशिषं याचितवान्, शिष्यान् तान् परिवेषणाय आदिदेश। 8जनाः अभक्षयन्, सर्वे तृप्तिम् ययुः। अवशिष्टचूर्णैः सप्त डल्लकाः पूर्णाः आसन्। 9भोक्तृजनाः प्रायः चतुः सहस्राणि आसन्। 10येशुः शीघ्रमेव विसृज्य शिष्यैः सह नावम् आरुह्य दालमनूथाप्रान्तम् आप्तवान्।
अभिज्ञानस्य याचना
(मत्ती 16:1-4)
11फरीसिनः समागत्य येशुना सह विवादं कर्तुम् आरेभे। ते येशुं परीक्षितुम् स्वर्गस्य कित्र्चन् अभिज्ञानम् अयाचन्त। 12येशुः दीर्घम् निःश्वस्य तान् एवं प्रत्यभाषत, “अयं वंशः किमर्थम् चिह्नम् याचते। अहं युष्मान् ब्रवीमि - अस्मै वंशाय न कित्र्चन चिह्नं दास्यते।” 13इत्युक्त्वा सर्वान् तत्र विहाय येशुः नावम् आरुह्य सरसः पारं प्रस्थितवान्।
फरीसिनां किण्वम्
(मत्ती 16:1-12)
14रोटिकानां अभावः शिष्याणां स्मृतेः अवातरत्। नौकायाम् तेषां पार्श्वे एका एव रोटिका आसीत्। 15तदा येशुः तान् आदिशत्, “यूयं सतर्काः इह तिष्ठत। फरीसिनां तथा हेरोदेसस्य च खमीरेण युष्माभिः सर्वथा नित्यम् अवधानेन वर्तताम्।” 16शिष्याः परस्परम् अवादिषुः, “अस्माकं पार्श्वे रोटिका नास्ति अतएव अयम् एवं वदति।” 17येशुः इदं ज्ञात्वा तान् अवदत्, “रोटिकाः पार्श्वे न सन्ति, अतः इत्थम् अयं ब्रवीति, इति स्वमनसि युष्माभिः कथं सर्वैः विचार्यते? इदानीमपि किं यूयं न जानीथ न बोधथ? युष्माकं मतिः किं जडीकृता? 18यूयं सनेत्राः सन्तः अपि कथं नैव हि पश्यथ? कर्णयोः स्थितयोः अपि तथा कथं न शृणुथ? 19न हि यूयं स्मरथ, यदा मया पत्र्च रोटिकाः पत्र्चसहस्रमानवानां कृते विभिदाः, युष्माभिः अवशिष्टैस्तै कति डल्लकाः पूरिताः? शिष्याः तम् प्रत्यभाषन्त “द्वादश।” 20“यदाहं सप्तरोटिकाः चतुः सहस्रलोकानां कृते अभाड्.क्षम्, तदा युष्माभिः अवशिष्टैः तैः कति डल्लकाः पूरिताः?” ते प्रत्यभाषन्त “सप्त।” येशुः तान् अब्रवीत्, 21“इदानीमपि युष्माभिः कथमेतत् न बुध्यते?”
बेतसैदा ग्रामस्य अन्धाय दृष्टिदानम्
22येशुः बेतसैदाग्रामम् आगतवान्। लोकाः तस्य अन्तिकम् एकम् अन्धम् आनीय तस्य हस्तेन स्पर्शनं तं ययचिरे। 23येशुः तस्य हस्तं गृहीत्वा ग्रामात् बहिः नीतवान्। तत्र सः तस्य नेत्रयोः निष्ठीव्य, स्वकरेण स्पृष्ट्वा अन्धं पृष्टवान् “कि त्वं किमपि वीक्षसे?” 24अन्धः शक्तिम् आप्त्वा किंचित् विलोकयन् आसीत्, अतः अवदत्, “अहं जनान् पश्यामि, पादपाः इव दृश्यन्ते, किन्तु ते विचरन्ति च।” 25ततः येशुः पुनः अन्धस्य नेत्रयोः स्वकरम् निदधे। अन्धः सर्वम् वस्तु सम्यक् विलोकितुम् आरब्धवान्। स्वस्थो भूत्वा दूरं यावत् सर्वम् सुस्पष्टं द्रष्टुं शशाक। 26येशुः एवमुक्त्वा तं जनं स्वगृहं प्रेषितवान्, “अस्मिन् ग्रामे त्वया पादौ न निधातव्यौ।”
पतरसस्य विश्वासः
(मत्ती 16:13-20; लूका 9:18-21)
27ततो येशुः कैसरियाफिलिपिनः ग्रामान् अभि जगाम। मार्गे स्वशिष्यान् पृष्टवान्, “अहं कोऽस्मि, अस्मिन् विषये जनाः किं वदन्ति?” 28ते प्रत्युत्तरन्, “योहन जलसंस्कारदाता, केचित् वदन्ति एलियाहः, केचित् अपराः नबीषु एकः।” 29तदा येशुः शिष्यान् प्रपच्छ, “यूयं किं वदत कोऽहम्?” पतरसः प्रत्युतरितवान्, “भवान् मसीहः ननु वर्तते।” 30ततः सर्वान् शिष्यान् तर्जयन् समादिशत्, “यूयं मत् विषये कमपि न कथयत।”
दुःखभोगस्य पुनरुत्थानस्य च प्रथमा भविष्यवाणी
(मत्ती 16:21-23; लूका 9:22)
31-32ततः परम् येशुः स्वशिष्यान् सुस्पष्टम् उपदिष्टवान्। “मानवपुत्रं बहूनि दुःखानि भोक्तव्यानि भविष्यन्ति; मुख्ययाजकैः नेतृभिः शास्त्रिभिश्च निराकृतः भविष्यति। तैः दुष्टैः तस्य वधः विधास्यते, किन्तु त्रिभ्यः दिनेभ्यः सः पुनः उत्थास्यति।”
33पतरसः येशुम् पृथक् नीत्वा तं बोधयितुम् आरब्धवान् किन्तु येशुः शिष्यान् परावृत्य दृष्टवान्। पतरसं तर्जयन् अब्रवीत् “दुष्ट! त्वमितः स्थानात् द्रुतमेव विनिस्सर, त्वम् परमेश्वरस्य विषये न, अपितु मनुष्याणाम् विषये चिन्तयसि।”
आत्मत्यागस्य आवश्यकता
(मत्ती 16:24-28; लूका 9:23-27)
34येशुः शिष्यान् अन्यान् च स्वसमीपम् आहूय अब्रवीत्, “यः माम् अनुसर्तुम् अभीप्सति, सः आत्मत्यागम् करोतु, ततः स्वक्रूसम् आदाय माम् अनुव्रजतु। 35यः स्वजीवनं सुरक्षितुं कर्तुम् इच्छति, सः तं हारयिष्यति। यः मदर्थम् तथा शुभसमाचारस्य कारणात् स्वजीवनं हारयते, सः तं सुरक्षितं स्थापयिष्यति। 36मनुष्याय को लाभ? यदि सः कृत्स्नं जगत् लभते, परन्तु स्वजीवनमेव हारयते। 37स्वप्राणानां विनिमये मनुष्यः किं दातुं शक्नोति? 38यः हि अधर्मिणाम् पापिनाम् वंशस्य समक्षे, मां तथा मम वचनं ग्रहीतुं लज्जते, तं मानवपुत्रोपि स्वीकर्तुम् लज्जिष्यते, यदा सः स्वर्गदूतैः सह स्वपितुः महिम्ना सहितः आगमिष्यति।” येशुः पुनः अब्रवीत्, “अत्र केचन ईदृशाः वर्तन्ते ते तावत् न मरिष्यन्ति, यावद् परमेश्वरस्य राज्यं सामर्थ्येन आगच्छन् न द्रक्ष्यन्ति।”
Nke Ahọpụtara Ugbu A:
मारकुस 8: SANSKBSI
Mee ka ọ bụrụ isi
Kesaa
Mapịa

Ịchọrọ ka echekwaara gị ihe ndị gasị ị mere ka ha pụta ìhè ná ngwaọrụ gị niile? Debanye aha gị ma ọ bụ mee mbanye
Sanskrit New Testament
Copyright © 2015 by The Bible Society of India
Used by permission. All rights reserved worldwide.

: