1
मत्ति 19:26
Sanskrit New Testament (BSI)
SANSKBSI
येशुः तान् स्थिरया दृष्ट्या पश्यन् एव अभाषत, “मनुष्याणां तु इदं सर्वम् असंभवम् वर्तते, परन्तु परमेश्वराय तु सर्वम् संभवं खलु वर्तते।”
Lee anya n'etiti ihe abụọ
Nyochaa मत्ति 19:26
2
मत्ति 19:6
इत्थं तौ न पुनर्द्वौ अपितु एकशरीरं स्तः। अतः परमेश्वरेण यत् संयोजितं, तत् मनुष्येण कदापि कुत्रापि मा वियोज्यताम्।”
Nyochaa मत्ति 19:6
3
मत्ति 19:4-5
इदं श्रुत्वा येशुः अब्रवीत्, “इदं युष्माभिः न पठितं, यत् आदितः सृष्टिकर्ता नरं नारीं च निर्मितवान् जगाद च, एतद् हेतोः मनुष्यः स्वकौ पितरौ त्यक्ष्यति, स्वपत्न्या सह स्थास्यति, तथा च उभौ एककायौ भविष्यथ?
Nyochaa मत्ति 19:4-5
4
मत्ति 19:14
परन्तु येशुः तान् अवदत्, “बालकान् मम अन्तिकम् आगमने मा वारयत, यतः स्वर्गराज्यं शिशुजनानाम् एव वर्तते।”
Nyochaa मत्ति 19:14
5
मत्ति 19:30
बहवः जनाः ये प्रथमे सन्ति, ते अन्तिमाः भविष्यन्ति, ये अन्तिमाः सन्ति ते प्राथम्यं च लप्स्यन्ते।”
Nyochaa मत्ति 19:30
6
मत्ति 19:29
तथा यः कश्चित् मत्कृते मातरं पितरं तथा भ्रातरं भगिनीं चापि गृहं च, स्वकं अतिप्रियं भार्याम्, भूमिं, सन्तानान् च त्यक्तवान् अस्ति, असौ शतगुणं लप्स्यते तथा अनन्तजीवनस्य अधिकारी भविष्यति।
Nyochaa मत्ति 19:29
7
मत्ति 19:21
येशुः तम् आह, “पूर्णश्चेत् त्वं भवितुम् इच्छसि, तर्हि सर्वस्वं विक्रीय तत् दरिद्रेभ्यः देहि, तव कृते स्वर्गे च अवश्यं धनराशिः निधास्यते। ततः परं समागत्य मम अनुसरणं कुरु।”
Nyochaa मत्ति 19:21
8
मत्ति 19:17
येशुः अब्रवीत्, “कथं त्वं मां भद्रकार्यम् हि पृच्छसि? एकम् एव भद्रकार्यम् अस्ति। यदि त्वं जीवनं प्रवेष्टुम् इच्छसि, तदा आज्ञां परिपालय।”
Nyochaa मत्ति 19:17
9
मत्ति 19:24
अहं पुनः युष्मान् वदामि “सूचीछिद्रेण उष्ट्राणाम् निर्गमः अति साध्योऽस्ति, परन्तु धनिनाम् स्वर्गराज्ये प्रवेशः महान् दुष्करः वर्तते।”
Nyochaa मत्ति 19:24
10
मत्ति 19:9
अहं युष्मान् ब्रवीमि, कश्चित् तु व्यभिचारतः केनचित् अन्यकारणात्, पत्नीत्यागं करोति चेत्, अन्यां नारीं च उद्वहति, सः व्यभिचारं करोति।”
Nyochaa मत्ति 19:9
11
मत्ति 19:23
तदा येशुः स्वान् शिष्यान् आह, “अहं युष्मान् ब्रवीमि-धनिनां स्वर्गराज्ये प्रवेशः अति दुष्करः भविष्यति।
Nyochaa मत्ति 19:23
Ebe Mmepe Nke Mbụ Nke Ngwá
Akwụkwọ Nsọ
Atụmatụ Ihe Ogụgụ Gasị
Vidiyo Gasị