मथिः 2:12-13
मथिः 2:12-13 SAN-DN
पश्चाद् हेरोद् राजस्य समीपं पुनरपि गन्तुं स्वप्न ईश्वरेण निषिद्धाः सन्तो ऽन्येन पथा ते निजदेशं प्रति प्रतस्थिरे। अनन्तरं तेषु गतवत्मु परमेश्वरस्य दूतो यूषफे स्वप्ने दर्शनं दत्वा जगाद, त्वम् उत्थाय शिशुं तन्मातरञ्च गृहीत्वा मिसर्देशं पलायस्व, अपरं यावदहं तुभ्यं वार्त्तां न कथयिष्यामि, तावत् तत्रैव निवस, यतो राजा हेरोद् शिशुं नाशयितुं मृगयिष्यते।



![[From Heaven to the Hay in the Heart] Part 1 मथिः 2:12-13 सत्यवेदः। Sanskrit NT in Devanagari](/_next/image?url=https%3A%2F%2Fimageproxy.youversionapi.com%2Fhttps%3A%2F%2Fs3.amazonaws.com%2Fyvplans%2F29090%2F1440x810.jpg&w=3840&q=75)

